TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चतुर्विंशः पटलः - शवसाधनानिरुपणम्

योगविद्यासाधनम्


शवसाधनानिरुपणम्
अथान्यत् शवमाहात्म्यं श्रृणुष्वावहितो मम ॥५८॥

तत्सर्वं गृहमानीयाच्छाद्य शार्दूलचर्मणा ।
तत्र मन्त्री महापूजां कृत्वा प्रविश्यं संजपेत् ॥५९॥

पद्मासनस्थस्तस्यैव झटिद् योगी न संशयः ॥६०॥

एतत्प्रकाररासनमाशु कृत्वा
जितेन्द्रियो योगफलार्थविज्ञः ।
भवेन्मनुष्यो मम चाज्ञया हि
सिद्धो गणोऽसौ जगतामधीशः ॥६१॥

मूलखड्‌ग यष्टिपरडितरवारादिना युतम् ।
भूतसर्पराज व्याघ्रं सद्यो मृतं यजेत् ॥६२॥

यस्य मृत्युर्भवेन्नाथ भैरवस्य सुरापतेः ।
रणे सम्मुखयुद्धस्य तदानीय जपं चरेत् ॥६३॥

तत्र कौलासनं कृत्वा अथवा कमलासनम् ।
महाविद्यामहामन्त्रं जप्त्वा लिङमवाप्नुयात् ॥६४॥

एतत्सर्वं न गृहणीयाद् यदीच्छेदात्मनो हितम् ।
कुव्याधिमरणं कुष्ठं स्त्रीवश्यं पतितं मृतम् ॥६५॥

दुर्भिक्षमृतमुन्मत्तमव्यक्तलिङुमेव च ।
हीनाङ भूचरवृद्धं पलायनपरं तथा ॥६६॥

अन्यद्यो यद् विचारेण हत्त्वा लोकं जपन्ति ये ।
ते सर्वे व्याघ्रभक्षा स्युः खादन्ति व्याघ्ररुपिणः ॥६७॥

पर्युषितं तथाश्वस्थमधिकाङु कुकुल्बिषम् ।
ब्राह्मणं गोमयं वीरं धार्मिक सन्त्यजेत् सुधीः ॥६८॥

स्त्रीजनं योगिनं त्यक्त्वा साधयेद्वीरसाधनम् ।
तदा सिद्धो भवेन्मन्त्री आज्ञया मे न संशयः ॥६९॥

तरुणं सुन्दरं शूरं मन्त्रविद्यं समुज्ज्वलम् ।
गृहीत्वा जपमाकृत्य सिद्धो भवति नान्यथा ॥७०॥

मनुष्यश्वह्रत्पद्मे सर्वसिद्धिकुलाकुलाः ।
तत्र सर्वासनान्येव सिद्धयन्ति नात्र संशयः ॥७१॥

अथान्यत्तत्प्रकारं तु यत्क्रृत्वा योगिराट् भवेत् ।
कोमलाद्यासने स्थित्वा धारयन् मारुतं सुधीः ॥७२॥

तत्कोमलासनं वक्ष्ये श्रृणुष्व मम तद्वचः ।
अवृद्धक मृतं बालं षण्मासात् कोमलं परम् ॥७३॥

तद्विभेदं प्रवक्ष्यामि गर्भच्युत महाशवम् ।
तद्धि व्याघ्रत्वचारुढं कृत्वा तत्र जपेत् स्थितः ॥७४॥

षण्मासानन्तरं यावद्दशमासाच्च पूर्वकम् ।
मृतं चारुमुखं बालं गर्भाष्टमपुरः सरम् ॥७५॥

एकहस्ते द्विहस्ते वा चतुर्हस्ते समन्वतेः ।
विशुद्ध आसने कुर्यात् संस्कारं पूजनं ततः ॥७६॥

पूर्णे पञ्चमवर्षे च साधको वीतभीः स्वयम् ।
हीनवीतोपनयनो यो मृतस्तं हि कोमलम् ॥७७॥

गर्भच्युतफलं नाथ श्रृणु तत्फलसिद्धये ।
अणिमाद्यष्टसिद्धिः स्यात् संवत्सरस्य साधनात् ॥७८॥

मृतासने जपेन्मन्त्री महाविद्याममुं शुभम‌ ।
अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा ॥७९॥

अथान्यत् शवमाहात्म्यं श्रृणु सिद्धिश्च साधनात् ।
साधको योगिराट् भूत्त्वा मम पादतले वसेत् ॥८०॥

दशसंवत्सरे पूर्णे यो म्रियेत शुभे दिने ।
शनौ मङुलवारे च तमानीय प्रसाधयेत् ॥८१॥

तत्र वीरासनं कृत्त्वा यो जपेद् भद्रकालिकाम् ।
अथवा बद्धपद्मे च स सिद्धो भवति ध्रुवम् ॥८२॥

अथ भावफलं वक्ष्ये येन शवादिसाधनम् ।
अकस्मात् प्राप्तिमात्रेण शवस्य विहितस्य च ॥८३॥

यं पञ्चदशवर्षीयं सुन्दरं पतितं रणे ।
तमानीय जपेद्वद्यां निशि वीरासने स्थितः ॥८४॥

शीघ्रमेव सुसिद्धेः स्यात् खेचरी वायुपूरणी ।
धारनाशक्तिसिद्धिः स्यात् करोतीह साधनम् ॥८५॥

अथ षोडशवर्षीयं सर्वसिद्धिअक्रं नृणाम् ।
भोगमोक्षी करे तस्य शवेन्दस्य च साधनात् ॥८६॥

एवं क्रमेण पञ्चाशद् वर्षीयं सुन्दरं वरम् ।
आनीय साधयेद्यस्तु स योगी भवति ध्रुवम् ॥८७॥

शवं रणस्थमानीय साधयेत्सुसमाहितः ।
इन्द्रुतुल्यो भवेन्नाथ रणस्थशवसाधणात् ॥८८॥

यदि सम्मुखयुद्धे श्रृणु पट्टीशघातनम् ।
शवमानीय वीरेन्द्रो जपेद्वीरासनस्थितः ॥८९॥

तत् शवं तु महादेव पूजार्थं निजमन्दिरे ।
देवालये निर्णये च स्थापयित्वा जपं चरेत् ॥९०॥

तत्र वीरासनं किं वा योनिमुद्रासनादिकम् ।
पद्मासनं तथाकृत्य वायुं धृत्वा जपं चरेत् ॥९१॥

मासैकेन भवेद्योगी विप्रो गुणधरः शुचिः ।
सूक्ष्मवायुधारज्ञो जपेद् योवनगे शवे ॥९२॥

शवसाधनकालेन यद्यत् कर्म करोति हि।
तत्कर्मसाधनदेव योगी स्यादमरो नरः ॥९३॥

आनन्दभैरवी उवाच
कालक्रियादिकं ज्ञात्त्वा सूक्ष्मानिलनिधारणम् ।
साधको विचरेद्वीरो वीराचारविवेचकः ॥९४॥

शवादे रणयातस्य क्रियामाहात्म्यमुत्तमम् ।
श्रृणु सङ्केभाषाभिः शिवेन्द्रचन्द्रशेखर ॥९५॥

एकहस्तार्द्धमाने तु भूम्यधोविधिमन्दिरे ।
संस्थाप्य सुशवं नाथ मायादवगतः प्रभो ॥९६॥

एकाहं जगदाधारा आधारान्तर्गता सती ।
पतिहीना सूक्ष्मरुपादधरादिचराचरम् ॥९७॥

मदीयं साधकं पुण्यं धर्मकामार्थमोक्षगम् ।
प्रकरोमि सदा रक्षां धात्रीरुपा सरस्वती ॥९८॥

केवलं तदभावेन शम्भो योगपरायण ।
मग्ना संसारकरनात्त्वयि त्वञ्चाहमेव च ॥९९॥

यद्यत‌पदार्थनिकरे तिष्ठसि त्वं सदा मुदा ।
तत्रैव संस्थिरा ह्रष्ट चाहमेव न संशयः ॥१००॥

एतद्भावं त्वं करोषि कस्य हेतोस्तव प्रिया ।
वामाङे संस्थिरा नित्यं कामक्रोधविवर्जिता ॥१०१॥

आनन्दभैरव उवाच
किं प्रयोजनमेवं हि शवादीनाञ्च साधनात् ।
यदि ते श्रीपदाम्भोजमधून्मत्तो भवेद्यतिः ॥१०२॥

त्रैलोक्यपूजिते भीमे वाग्वादिनीस्वरुपिणी ।
शवसाधनमात्रेण केन योगी भवेद्वय ॥१०३॥

आनन्दरस लावण्यमन्द हासमुखाम्बुजे ।
योगी भजति योगार्थं केन तत्फलमावद ॥१०४॥

आनन्दभैरवी उवाच
यदि शङ्कर भक्तोऽसि मम जापपरायणः ।
तथापि शवभावेन शववत् शवसाधनम् ॥१०५॥

रात्रियोगे प्रकर्त्तव्यं दिवसे न कदाचन ।
शवे स्थिरो यो बभूव स भक्तो मे न संशयः ॥१०६॥

मे शवाकृतिमद्द्रव्यं मम तुष्टिनिबन्धनम् ।
ममज्ञापालेन योग्यः कुर्याद् वीरः शवासनम् ॥१०७॥

यद्यहं तत्र गच्छति तदैव स शिवो भवेत् ।
निःशेषत्यागमात्रेण शवत्वं प्रलयं तनोः ॥१०८॥

यः करोति भावराशि मयि देव्यां महेश्वर ।
त्रैलोक्यपूजितायां तु स शिवः शवमाश्रयेत् ॥१०९॥

अधिकारी तु भक्तस्य पालनं परपृष्ठतः ।
करोनि कामिनीनाथ सन्देहो नात्र भूतले ॥११०॥

यदाहं त्यज्यते गात्र्म पशूनां मारणाय च ।
तदैते च मृताः सर्वे जीवन्ते केन हेतुना ॥१११॥

तदाहुतिमहाद्रव्यं शवेन्द्रं रणहानिगम् ।
आनीय साधयेद्यस्तु स स्थिरो मे सुभक्तिगः ॥११२॥

सदा क्रोधी भवेद्यस्तु स क्रूरो नात्र संशयः ।
स कथं वीररात्रौ च साधयेद् विहवलः शवम् ॥११३॥

भयविहलचेता यः स क्रोधी नात्र संशयः ।
नास्ति क्रोधसमं पापं पापात् क्षिप्तो भवेत्  शवे ॥११४॥

यो भक्तः पापनिर्मुक्तः सिद्धरुपी निराश्रयः ।
विवेकी ध्याननिष्ठश्च स्थिरः संसाधयेत् शवम् ॥११५॥

यावत्कालं स्थिरचित्तं न प्राप्नोति जितेन्द्रियः ।
तावत्कालं नापि कुर्यात् शवेन्द्रस्यापि साधनम् ॥११६॥

शवमानीय तद्द्वारे तेनैव परिखन्य च ।
तदि‌दनात्तद्दिनं यावत् यद्बद्ध्वा व्याप्य साधयेत् ॥११७॥

एवं कृत्वा हविष्याशी महाविद्यादिसाधनम् ।
जितेन्द्रियो मुदा कुर्याद अष्टाङुसाधनेन च ॥११८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-04-16T04:36:48.9930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

disturb

  • त्रास देणे 
  • विघ्न आणणे 
  • शांतताभंग करणे 
  • त्रास देणे 
More meanings
RANDOM WORD

Did you know?

मंत्रांचे वर्गीकरण कशा प्रकारे केले आहे?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site