TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

आसननियमस्तद्‍भेदांश्च
अथासनप्रभेदञ्च श्रृणु मत्सिद्धिकाङि‌क्षणाम् ।
येन विना पूरकाणां सिद्धिअभाक्‍ न महीतले ॥२३॥

अधो मुण्डासनं वक्ष्ये सर्वेषां प्राणिनां सुखम् ।
ऊद्र्द्धमार्गे पदं दत्त्वा धारयेन्मारुतं सुधीः ॥२४॥

सर्वासनानां श्रेष्ठं हि ऊद्र्ध्वपादो यदा चरेत् ।
तदैव महतीं सिद्धिं ददाति वायवी कला ॥२५॥

एतत्पद्मासनं कुर्यात् प्राणवायुप्रसिद्ध्ये ।
शुभासन तदा ध्यायेत्पूरयित्वा पुनः पुनः ॥२६॥

ऊरुमूले वामपादं पुनस्तद्दक्षिणं पदम् ।
वामोरी स्थापयित्वा च पद्मासनमितिस्मृतम् ॥२७॥

सव्यपादस्य योगेन आसनं परिकल्पयेत् ।
तदैकासनकाले तु द्वितीयासनमाभवेत् ॥२८॥

पृष्ठे करद्वयं नीत्वा वृद्धाङ्‌गुष्ठद्वयं सुधीः ।
कायसङ्कोचमाकृत्य धृत्वा बद्धासनो भवेत् ॥२९॥

बद्धपदासनं कृत्वा वायुबद्धं पुनः पुनः ।
चिबुंक स्थापयेद्यत्नाद् हलादितेजसि भास्करे ॥३०॥

इत्यासनं हि सर्वेषां प्राणिनां सिद्धिकारणम् ।
वायुवश्याय यः कुर्यात स योगी नात्र संशयः ॥३१॥

स्वभावसिद्धिकरणं सर्वेषां स्वस्तिकासनम् ।
वामपादतले कुर्यात्पाददक्षिणमेव च ॥३२॥

सव्यापसव्ययोगेन आसनद्वयमेव च ।
सर्वत्रैवं प्रकारं च कृत्वा नाडीव सारमेत् ॥३३॥

आसनानि श्रृणु होतात्त्रिंशतासंख्यकानि च ।
सव्यापसव्ययोगेन द्विगुण प्रभवेदिह ॥३४॥

चतुःषष्टयासनानीह वदामि वायुसाधनात् ।
द्वात्रिंशद्बिन्दुभेदाय कल्पयेद् वायुवृद्धये ॥३५॥

कार्मकासनामाकृत्य उदरे पूरयेत् सुखम् ।
तदा वायुर्वशो याति कालेन सूक्ष्मवायुना ॥३६॥

कृत्वा पद्मासनं मन्त्री वेष्टयित्वा प्रधारयेत् ।
करेण दक्षिणेनैव वामपादन्तिकं तटम् ॥३७॥

सव्यापसव्यद्विगुणं कार्मुकासनमेव च ।
कार्मुकद्वययोगेन शरवद् वायुमानयेत् ॥३८॥

कुक्कुटासनमावक्ष्ये नाडीनिर्मलहेतुना ।
मत्कुलागमयोगेन कुर्याद् वायुनिषेवणम् ॥३९॥

निजहस्तद्वयं भूमौ पातयित्वा जितेन्द्रियः ।
पदभ्यां बद्धं यः करोति कूर्परद्वयमध्यतः ॥४०॥

स्व्यापसव्ययुगलं कुक्कुटं ब्रह्मणा कृतम् ।
बद्धं कृत्त्वा अधःशीर्ष यः करोति खगासनम् ॥४१॥

खगासन प्रसादेन श्रमलोपो भवेद् द्रुतम् ।
पुनः पुनः श्रमादेव विषयश्रमलोपकृत ॥४२॥

लोलासनं सदा कुर्याद् वायुलोलापघातनात् ।
स्थिरवायुप्रसादेन स्थिरचेता भवेद्द्रुतम् ॥४३॥

पद्मासनं समाकृत्य पादयोः सन्धिगहवरे ।
हस्तद्वयं मध्यदेशं नियोज्य कुक्कुटाकृतिः ॥४४॥

निजहस्तद्वयद्वन्द्वं निपात्य हस्तनिर्भरम् ।
कृत्वा श्रीरमुल्लाप्य स्थित्वा पद्मासनेऽनिलः ॥४५॥

स्थित्वैतदासने मन्त्री अधःशीर्षं करोति चेत् ।
उत्तमाङासनं ज्ञेयं योगिनामतिदुर्लभम् ॥४६॥

एतदासनमात्रेण शरीरं शीतलं भवेत् ।
पुनः पुनः प्रसादेन चैतन्या कुण्डली भवेत् ॥४७॥

सव्यापसव्य योगेन यः करोति पुनः पुनः ।
पूरयित्वा मूलपद्मे सूक्ष्मवायुं विकुम्भयेत् ॥४८॥

कृत्वा कुम्भकमेव हि सूक्ष्मवायुलयं विधौ ।
मूलदिब्रह्मारन्ध्रान्ते स्थापयेल्लयगे पदे ॥४९॥

एतत् शुभासन कृत्त्वा सूक्ष्मरन्ध्रे मनोलयम् ।
सूचीरन्ध्रे यथासूत्रं पूरयेत् सूक्ष्मवायुना ॥५०॥

एतत् क्रमेण षण्मासान् पूरकस्तापि लक्षणम् ।
महासुखं समाप्नोति योगाष्टाङुनिषेवणात् ॥५१॥

अथ वक्ष्ये महादेव पर्वतासनमङुलम् ।
यत्कृत्वा स्थिररुपी स्याद् षट्चक्रादिविलोपनम् ॥५२॥

योन्यासनं पर्वतेन योगं योगफलेऽनिलम् ।
तत्कालफललन्तावत् खेचरो यावदेव हि ॥५३॥

पादयोगेन चक्रस्य लिङाग्रं यो नोयोजयेत् ।
अन्यत्पदमूरौ दत्त्वा तत्र योन्यासनं भुवि ॥५४॥

तत्र मध्ये महादेव बन्द्धयोन्यासनं श्रृणु ।
यत्कृत्वा खेचरो भूत्वा विचरेदीश्वरो यथा ॥५५॥

कृत्वा योन्यासनं नाथ लिङुगुह्यादिबन्धनम् ।
मुखनासा नेत्रकर्णकनिष्ठाङगुलिभिस्तभा ॥५६॥

ओष्ठाधरं कनिष्ठाभ्यामनामाभ्याञ्च नासिके ।
मध्यमाभ्यां नेत्रयुग्मं तर्ज्जनीभ्यां परैः श्रुती ॥५७॥

कृत्त्वा योन्यासनं नाथ योगिनामति दुर्लभम् ।
कृत्त्वा यः पूरयेद् वायुं मूलमाकुञ्च्य स्तम्भयेत् ॥५८॥

सव्यापसव्ययोगेन सिद्धो भवति साधकः ।
शनैः शनैः समरुह्य कुम्भंक परिपूरयेत् ॥५९॥

अरुणोदयकालाच्च वसुदण्डे सदाशिव ।
सव्यापसव्ययोगेन गृहणीद्वायुगानिलम् ॥६०॥

द्वितीयप्रहरे कुर्याद वायुपूजां मनोरमाम् ।
एतदासनामाकृत्य सिद्धो भवति साधकः ॥६१॥

अथान्यदासनं वक्ष्ये यत्कुत्वा सोऽमरो भवेत् ।
मत्साधकः शुचिः श्रीमान् कुर्याद्गत्त्वा निराविले ॥६२॥

भेकानामासनं योगं निजवक्षसि सम्मुखम् ।
निधाय पादयुगलं स्कन्धे बाहू पदोपरि ॥६३॥

ध्यायेद्धि चित्पदं भ्रान्तमासनस्थः सुखाय च ।
यदि सर्वाङुमुत्तोल्य गगने खेचरासनम् ॥६४॥

महाभेकासनं प्रोक्तं सर्वसिद्धिप्रदायकम् ।
महाविद्यां महामन्त्रं प्राप्नोति जपतीह यः ॥६५॥

एतत् प्रभेदं वक्ष्यामि करोति यः स चामरः ।
एकपादमूरौ बद्ध्वा स्कन्धेऽन्यत्पादरक्षणम्  ॥६६॥

एतत्प्रणासनं नाम सर्वसिद्धिप्रदायकम् ।
वायुमूले समारोप्य ध्यात्त्वाऽऽकुञ्च प्रकारयेत् ॥६७॥

केवलं पादमेकञ्च स्कन्धे चारोप्य यत्नतः ।
एकपादेन गगने तिष्ठेत् स दण्डवत प्रभो ॥६८॥

अपानासनमेतद्धि सर्वेषां पूरकाश्रयम् ।
कृत्त्वा सूक्ष्मे शीर्षपद्मे समारोप्य च वायुभिः ॥६९॥

तदा सिद्धो भवेन्मर्त्त्यः प्राणापानसमागमः ।
अपानासनयोगेन कृत्त्वा योगेश्वरी भुवि ॥७०॥

समानासनमावक्ष्ये सिद्धमन्त्रदिसाधनात् ।
एकपादमूरौ दत्त्वा गुह्योऽन्यल्लिङवक्त्रके ॥७१॥

एतद् वीरासनं नाथ समानासनसंज्ञकम् ।
इत्याकृत्य जपेन्मन्त्रं धृत्वा वायुं चतुर्दले ॥७२॥

कुण्डलीं भावयेन्मन्त्रं कोटिविद्युल्लताकृतिम् ।
आत्मचन्द्रामृत रसिअराप्लुतां योगिनीं सदा ॥७३॥

वीरासनं तु वीराणां योगवायुप्रधारणम् ।
यो जानाति महावीरः स योगी भवति ध्रुवम् ॥७४॥

अथ वक्ष्ये महाकाल समानासनसाधनम् ।
भेदक्रमेण यज्ज्ञात्वा वीराणामधिपो भवेत् ॥७५॥

समानासनमाकृत्य वृद्धाड्‍गुष्ठं करेण च ।
एकेन सोऽधिकारी स्यात् स्वरयोगादिसाधने ॥७६॥

आसनं यो हि जानाति वायूनां हरणं तथा ।
कालादीनां निर्णयं तु स कदाचिन्न नश्यति ॥७७॥

कालेन लभ्यते सिद्धिः कालरुपो महोज्ज्वलः ।
साधकैर्योगिभिर्ध्येयः सिद्धवीरासनात्मना ॥७८॥

अथ वक्ष्ये नीलकण्ठ ग्रन्थिभेदासनं शुभम् ।
ज्ञात्वा रुदो भवेत् क्षिप्रं सूक्ष्मवायुनिषेवणात् ॥७९॥

कृत्वा पद्मासनं मन्त्री जङ्कयोः ह्रदये करौ ।
कूर्परस्थान पर्यन्तं विभेद्य स्कन्धधारणम् ॥८०॥

भित्वा पद्मासनं मन्त्री सहस्त्रार्द्धेन घाटनम् ।
येन शीर्ष भावनम्रं सर्वाङ्‌गुलिभिराश्रमम् ॥८१॥

ग्रन्थिभेदासन्ञ्चैतत् खेचरादिप्रदर्शनम् ।
कृत्त्वा सूक्ष्मवायुलयं परमात्मनि भावयेत् ॥८२॥

अथान्यासनमावक्ष्ये योगपूरकरक्षणात् ।
कृत्त्वा पद्मासनं पादा अङ्‌गुष्ठजङ्कयोः स्थितम् ॥८३॥

हस्तमेकं तु जङ्काया कार्मुकं कूर्परोर्द्धकम् ।
पद्मासने समाधाय अङ्‌गुष्ठं परिधावयेत् ॥८४॥

कार्मुकासनमेतद्धि सव्यापोअसव्ययोगतः ।
पद्मासनं वेष्टयित्वा अड्‌गुष्ठांग्र प्रधावयेत् ॥८५॥

यः करोति सदा नाथ कार्मुकासनमुत्तमम् ।
तस्य रोगदिशत्रनां क्षयं नीत्वा सुखी भवेत् ॥८६॥

अथ वक्ष्येऽत्र संक्षेपात् सर्वाङासनमुत्तमम् ।
यत्कृत्वा योगनिपुणो विद्याभिः पण्डितो यथा ॥८७॥

अधो निधाय शीर्षं च ऊद्र्ध्वपादद्वयं चरेत् ।
पद्मासनं तु तत्रैव भूमौ कूर्परयुग्मकम् ॥८८॥

दण्डे दण्डे सदा कुर्यात श्रमशान्तिपरः सुधीः ।
नित्यं सर्वासनं हित्वा न कुर्याद वायुधारणम् ॥८९॥

मासेन सूक्ष्मवायूनां गमनं चोपलभ्यते ।
त्रिमासे देवपदवीं त्रिमासे शीतलो भवेत् ॥९०॥

अथ वक्ष्ये महादेव मयूरासनमुत्तमम ।
भूमौ निपात्य हस्तौ द्वौ कूर्परोपरि देहकम् ॥९१॥

कूर्परोपरि संस्थाप्य सर्वदेहं स्थिराशयः ।
केवलं हस्तयुगलं निपात्य भुवि सुस्थिरः ॥९२॥

एतदासनमात्रेण नाडीसभेदनं भवेत् ।
पूरकेण दृढो याति सर्वत्राङाश्रयेण च ॥९३॥

अथान्यदासनं कृत्त्वा सर्वव्याधिनिवारणम् ।
योगाभ्यासी भवेत्क्षिप्रं ज्ञानासनप्रसादतः ॥९४॥

दक्षपादोरुमूले च वामपादतलंतथा ।
दक्षपादतलं दक्षपार्श्वे संयोज्य धारयेत् ॥९५॥

एतज्ज्ञानासनं नाथ ज्ञानद्विद्याप्रकाशकम् ।
निरन्तरं यः करोति तस्य ग्रन्थिः श्लथी भवेत् ॥९६॥

सव्यापसव्ययोगेन मुण्डासनमिति स्मृतम् ।
कृत्वा ध्यात्वा स्थिरो भूत्वा लीयते परमात्मनि ॥९७॥

गरुडासनमावक्ष्ये येन ध्यानं स्थिरं भुवि ।
सर्वदोषाद्विनिर्मुक्तो भवतीह महाबली ॥९८॥

एकपादमुरी बद्ध्वा एकपादेन दण्डवत् ।
जङ्कापादसन्धिदेशे ज्ञानव्यग्रं व्यवस्थितम् ॥९९॥

एतदासनमाकृत्य पृष्ठे संहारमुद्रया ।
आराध्य योगनाथं च सदा सर्वेश्चरस्य च ॥१००॥

अथान्यदासनं वक्ष्ये येन सिद्धो भवेन्नरः ।
अकस्माद् वायुसञ्चारं कोकिलाख्यासनेन च ॥१०१॥

ऊद्र्ध्वे हस्तद्वंयं कृत्वा तदग्रे पादयोः सुधीः ।
वृद्धाङ‌गुष्ठद्वयं नाथ शनैः शनैः प्रकारयेत् ॥१०२॥

पद्मासनं समाकृत्य मूर्परोपरि संस्थितः ।
अथ वक्ष्ये वीरनाथ आननदमन्दिरासनम् ॥१०३॥

यत्कृत्वा अमरो धीरो भवत्येवेह साधकः ।
हस्तयुग्मं पाददेशे पादयुग्मं प्रदापयेत् ॥१०४॥

प्रकृत्य दण्डवत् कौल नितम्बाग्रे प्रतिष्ठति ।
खञ्जनासनमावक्ष्ये यत्कृत्वा सुस्थिरो भवेत् ॥१०५॥

पृष्ठे पादद्वयं बद्ध्वा हस्तौ भूमौ प्रधारयेत् ।
भूमौ हस्तद्वयं नाथ पातयित्वानिलं पिबेत् ॥१०६॥

पृष्ठे पादद्वयं बद्ध्वा खञ्जनेन जयी भवेत् ।
अथान्यदासनं वक्ष्ये साधकानां हिताय वै ॥१०७॥

पवनासनरुपेण खेचरो योगिराड्‌भवेत् ।
स्थिर्वा बद्धासने धीरो नाभेरधः करद्वयम् ॥१०८॥

ऊद्र्ध्वमुण्डः पिबेद् वायुं निरुद्ध्येत यमाविले ।
अथ सर्पासनं वक्ष्ये वायुपानाय केवलम् ॥१०९॥

शरीरं दण्डवत्तिष्ठेद‌रज्जुबद्धस्तु पादयोः ।
वायवी कुण्डली देवी कुण्डलाकारमङ्‌गुले ॥११०॥

मण्डिता भूषणाद्यैश्व वक्ष्ये सर्पासनस्थितम् ।
निद्रालस्यभयान् त्यक्त्वा रात्रौ कुर्यात्पुनः पुनः ॥१११॥

सर्वान् विघ्नान् वशीकृत्य निद्रादीन वायुसाधनात् ।
अथ वक्ष्ये काकरुपस्कन्धास्नमनुत्तमम् ॥१२२॥

कलिपापात् प्रमुच्येत वायवीं वशमानयेत् ।
निजपदद्वयं बद‌ध्वा स्कन्धदेशे च साधकः ॥११३॥

नित्यमेतत् पदद्वन्द्वं भूमौ पुष्टिकरद्वयम् ॥११४॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावासननिर्णये पाशवकल्पे षट्चक्रसारसङ्केते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे त्रयोविंशः पटलः ॥२३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-04-16T04:33:33.5530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

radio ulnar

  • Zool. बहिरंतःप्रकोष्ठिका- 
  • बहिरंतःप्रकोष्ठिका- (बहिःप्रकोष्ठ-अंतःप्रकोष्ठिका-) 
RANDOM WORD

Did you know?

तेल आणि तूप दिवा एकत्र का लावूं नये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.