श्रीआनन्दभैरवी उवाच
श्रृणु शम्भो प्रवक्ष्यामि षट्चक्रस्य फलोदयम् ।
यज्ज्ञात्वा योगिनः सर्वे चिरं तिष्ठन्ति भूतले ॥१॥

मूलाधारं महापद्मं चतुर्दलसुशोभितम् ।
वादिसान्तं स्वर्णवर्णं शक्तिब्रह्मपदं व्रजेत् ॥२॥

क्षित्यतेजोमरुद्व्योममण्डलं षट्सु पङ्कजे ।
क्रमेण भावयेन्मन्त्री मूलविद्याप्रसिद्धये ॥३॥

मूलपद्मोद्र्ध्वदेशे च स्वाधिष्ठानं महाप्रभम् ।
षड्‌दलं राकिणी कर्णिकायां स्मरेद्यतिः ॥४॥

षड्‌दलं बादिलान्तं च वर्णं ध्यात्वा सुराधिपः ।
कन्दर्पवायुजा व्याप्तलिङमूले भजेद्यतिः ॥५॥

तदूर्ध्वे नाभिमूले च मणिकोटिसमप्रभम् ।
दशदलं योगधर्मं डदिफान्तर्थगं भजेत् ॥६॥

लाकिनीसहितं रुद्रं ध्यायेद्योगादिसिद्धये ।
महामोक्षपदं दृष्टवा‌ जीवन्मुक्तो भवेद् ध्रुवम् ॥७॥

बन्धूकपुष्पसङ्काशं द्लद्वादशशोभोतम् ।
कादिठान्तर्णसहितमीश्वरं काकिनीं भजेत् ॥८॥

तदूर्ध्वे षोडशोल्लासपदे साक्षात् सदाशिवम् ।
महादेवीं साकिनीगं कण्ठे ध्यात्वा शिवो भवेत् ॥९॥

N/A

References : N/A
Last Updated : April 16, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP