यदि वारिचक्रध्ये स्थानं कुर्वन्ति मानुषाः ।
अमराः सत्त्वयोगस्थाः षट्चक्रफल भोगिनः ॥९८॥

तच्चतुष्कं समावाप्य वारिव्याप्तं सुनिर्मलम् ।
वामावर्तस्थतं ध्यायेत् सप्तख्ण्डं महाबली ॥९९॥

सप्तवृतोपरि ध्यायेद् दलषोदशपङ्कजम् ।
दले दले महातीर्थं सिद्धो भवति निश्चितम् ॥१००॥

तीर्थमालावृत्तं नाथ दलं षोडश शोभितम् ।
तदेकपत्र(द्म)मध्ये तु भाति विद्युल्लतान्वितम् ॥१०१॥

पूर्वादौ दक्षिणे पातु तीर्थमालाफलं श्रृणु ।
येषां दर्शनमात्रेण जीवन्मुक्तस्तु साधकः ॥१०२॥

गङा गोदावरी देवी गया गुह्या महाफला ।
यमुना कोटिफलदा बुद्धिदा च सरस्वती ॥१०३॥

मणिद्वीपं श्वेतगङा महापुण्या महाफला ।
श्वेतगङा महापुण्या भर्गगङा महाफला ॥१०४॥

स्वर्गगङा महाक्षेत्रं पुष्करं तीर्थपारणम् ।
कावेरी सिद्धुपुण्या च नर्मदा शुभदा सदा ॥१०५॥

अष्टकोणे अष्टसिद्धिं वारिपूर्णां फलोदयाम् ।
सप्तकोणे सप्तसिन्धुं पूर्वादौ भावयेद् यतिः ॥१०६॥

लवणेक्षु सुरासर्पिर्दधिदुग्धजलन्तकाः ।
सकारं व्याप्य तिष्ठन्ति महासत्त्वं स्मरेद् यतिः ॥१०७॥

मध्ये चतुष्के शक्तिञ्च कोटिसौदामिनीतुनः ।
विभाव्य वारिचक्रे तु कोटिविद्यापतिर्भवेत् ॥१०८॥

शक्तिबीजं वामभागे आद्या प्रकृतिसुन्दरी ।
विभाति कामनाशाय योगिनी सा सताङति ॥१०९॥

शक्तिबीजं दक्षिणे च पुङ्कला पुशिवात्मकम् ।
सदा भावनरुपाभं यो भजेदीशसिद्धये ॥११०॥

शक्तिबीजस्योद्र्ध्वभागे पूर्णचन्द्रमनोहरम् ।
भजन्ति साधवः सर्वे धर्मकामार्थसिद्धये ॥१११॥

शक्तिबीजतले गेहे श्रीसूर्य कालवहिनजम् ।
उल्काकोटिसमं ध्यात्वा वाञ्छातिरिक्तमाप्नुयात् ॥११२॥

वारिचक्रप्रसादेन चिरजीवी भवेन्नरः ।
भूमौ महाकालरुपी मूलाधारे चतुद्र्दले ॥११३॥

चतुद्र्दलशेषदले वारिचक्रं सषान्तकम् (?) ।
कोटिसौदामिनीभास विभाव्य योगिराड्‌ भवेत् ॥११४॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावार्थनिर्णये पाशवकल्पे मूलपद्मोल्लासे भूमिचक्र-स्वर्गचक्र-तुलाचक्र-वारिचक्रसारसङ्केते सिद्धमन्त्रप्रकरणे भैरवभैरवीसंवादे एकविंशः पटलः ॥२१॥

N/A

References : N/A
Last Updated : April 14, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP