दलमध्ये तुलाचक्रं चतुष्कोणो गृहाणि च ।
द्वात्रिंशद् ग्रन्थिरुपाणि सन्ति ग्रन्थिविभेदने ॥८२॥

तुलाचक्रस्य नाडीभिर्द्वात्रिंशद् ग्रन्थिभेदनम् ।
गलएशावधि ध्यानं मेरुमध्ये प्रकारयेत् ॥८३॥

द्वात्रिंशद्ग्रन्थिगेहस्य मध्ये वृत्तत्रयं शुभम् ।
तन्मध्ये च त्रिकोणे च खं मूर्द्धन्यं भजेद् वशी ॥८४॥

एतद्गेहे विभाव्यानि वर्णजालफलानि च ।
दक्षिणावर्तयोगेन विभाव्य वाक्‍पतिर्भवेत् ॥८५॥

अकारमाद्यगेहे च अनुस्वारं द्वितीयके ।
विसर्गं तु तृतीये च यो भजेत्स भवेद्वशी ॥८६॥

एतदन्यमन्दिरेषु कादिहान्तं विभावयेत् ।
वादिसान्तं वर्जयित्वा सबिन्दुं स भवेद्वशी ॥८७॥

आज्ञाचक्रे यथानामफलं प्राप्नोति साधकः ।
वर्णानां मूलपद्मे तु तत्फलं हि तुलागृहे ॥८८॥

भजेमध्यं सकारस्य त्रिवृत्तस्थ त्रिकोणके ।
ज्वालामाल सहस्त्राढ्यं स्वर्णालड्‌कृतमाश्रयेत् ॥८९॥

प्रत्येकवर्णपुटितं तुलाचके च मौनवान् ।
मौनं जपं यः करोति षकारं व्याप्य योगिराट् ॥९०॥

एतद्योगप्रसादेन चैतन्या कुण्डली भवेत् ।
वाक्‌सिद्धिश्च भवेत्तस्य तापत्रयविनाशिनी ॥९१॥

सिद्धिर्मन्त्रस्य वर्णानां जपमात्रेण शङ्कर ।
तुलाचक्रान्तरस्थानं विभाव्य मन्त्रसिद्धिभाक्‍ ॥९२॥

एतच्चक्रं विना नाथ कुण्डली नापि सिद्धयति ।
भावज्ञानं बिना कुत्र योगी भवति भारते ॥९३॥

अन्यदलमाहात्म्यम्

अथान्यदलमाहात्म्यं श्रृणु वक्ष्यामि तत्त्वतः ।
योगसञ्चारसारं यत् कुण्डलीशक्तिसाधनम् ॥९४॥

शक्तिबीजं बिन्दुयुक्तम् अष्टकोणस्थनिर्मलम् ।
विद्युत्पुञ्चं स्वर्णमालावेष्टितं भावयेद्यतिः ॥९५॥

चतुष्कोणं विभेद्यापि चतुष्कोणं मनोहरम् ।
तन्मध्ये च चतुष्कोणं सबीजं भावयेत्ततः ॥९६॥

कोटिसूर्यसमां देवीं कुण्डलीदेवमातरम् ।
पादाङगुष्ठावधिं ध्यात्वा सर्वसिद्धीश्वरो भवेत् ॥९७॥

N/A

References : N/A
Last Updated : April 14, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP