द्वितीये दक्षिणे पत्रे वान्तबीजं महाप्रभम् ।
मनो विद्याय योगीन्द्रो ध्यायेद् योगार्थीसिद्धये ॥५७॥

तत्र ध्यायेत् स्वर्गचक्रं स्वर्गशोभासमाकुलम् ।
विभाव्य स्वर्गनाथः स्याद्देवेन्द्रसदृशो भुवि ॥५८॥

पञ्चकोणं विभेद्यापि पञ्चकोणं विभति यत् ।
तन्मध्ये वृत्तयुगलं तत्र षट्कोणगं भजेत् ॥५९॥

एतत् स्वर्गाख्यचक्रं तु भूपुरद्वयमध्यके ।
दक्षिणोत्तरपत्रस्थे विभाव्य वान्तमीश्वरम् ॥६०॥

षट्कोणान्तर्गतं वान्तं विद्युत्कोटिसमप्रभम् ।
तमाश्रित्य सुराः सर्वे दशकोणे वशन्ति ते ॥६१॥

पूर्वकोणे महेन्द्रश्च सर्वदेवसमास्थितः ।
इन्द्राणी सहितं ध्यात्वा योगीन्द्रो भवति ध्रुवम् ॥६२॥

तद्दक्षिणे रक्तकोणे वहिनं स्वाहन्वितं स्मरेत् ।
कोटिकाला नलालोलं परिवारगणान्वितम् ॥६३॥

तद्दक्षिणे कामरुपी भाति शक्तियुतः प्रभुः ।
परिवारान्वितं ध्यात्वा तं मृत्यु(त्यु)वशमानयेत् ॥६४॥

नैऋतं विद्युदाकारं कन्दर्पदमनं प्रियम् ।
शक्तियुक्त स्वरानन्दं विभाव्य योगिनीपतिः ॥६५॥

तदधो वरुणं ध्यात्वा सुशक्तिपरिलालितम् ।
जलानामधिपं सत्त्वं नित्यसत्त्वश्रियो भवेत् ॥६६॥

तद्वामे मरुतः कोणं मरुद्गणविभाकरम् ।
वायुस्थानं लयस्थानं वायुव्याप्तं भवेत् सुधीः ॥६७॥

तत्पश्चाद् गणनाथञ्च मत्तं शक्तिसमन्वितम् ।
परिवारगणानन्दं विभाव्य स्याद् गणेश्वरः ॥६८॥

तत्पश्चात् परमं स्थानमीशं शक्तिसमन्वितम् ।
परिवारान्वितं ध्यात्वा कामरुपी भवेद्यतिः ॥६९॥

तत्पश्चात् कोणगेहे च चन्द्रसूर्याग्नितेजसम् ।
एकरुपमूद्र्ध्वसंस्थं ब्रह्माणं भावयेद्यतिः ॥७०॥

इन्द्रवामकोणगेहे अनन्तं वहिनरुपिणम् ।
अनन्तसदृशं ध्यात्वा अनन्तसदृशो भवेत् ॥७१॥

एतत् स्वचक्रमध्ये तु वृत्तयुग्मं महाप्रभम् ।
सर्वदा वहिनना व्याप्तं ज्वलदग्निं विभावयेत् ॥७२॥

वृत्तमध्ये च षट्कोणं कोणे कोणे रिपुक्षयम् ।
लोभमोहादिषट्कञ्च हरेत् षट्कोणसंस्थितान् ॥७३॥

लोभं हरति इन्द्राणी(ग्नी)मोहं हरति दण्डधृक्‍ ।
कामं नैऋवरुणौ क्रोधं वायुश्च योगिनाम् ॥७४॥

मदं हरेदधीशश्च ब्रह्मानन्ती हि योगिनाम् ।
मात्सर्यं संहत्येव मासत्रयनिषेवणात् ॥७५॥

ष‍ट्कोणमध्यदेशस्थं वान्तबीजं शशिप्रभम् ।
स्वर्णालङ्कारजडितं भावयेद् योगसिद्धये ॥७६॥

सदा व्याप्तं कुण्डलिन्या पालितं मण्डितं सुधीः ।
तैले यथा दीपपुञ्चं विभाव्य योगिराड्‌ भवेत् ॥७७॥

स्वयंभूलिङुं तत्रैव विभाव्य चन्द्रमण्डलम् ।
आप्लुतं कारयेन्मन्त्री कुण्डलीसहितं वशी ॥७८॥

एवं क्रमेण सिद्धः स्यात् कुण्डल्याकुञ्चनेन च ।
सदाभ्यासी महायोगी संस्थाप्य वायवीं ततः ॥७९॥

वायव्याभासयुक्तेन एतच्चक्राश्रयेण च ।
मूकोऽपि वाक्‌पतिर्भूयात् फलभागी दिने दिने ॥८०॥

तृतीयदलामाहात्म्यम्

तृतीयदलामाहात्म्यं योगिज्ञानोदयं परम् ।
भाअसिद्धिर्भवेत्तस्य यो भजेदात्मचिन्तनम् ॥८१॥

N/A

References : N/A
Last Updated : April 14, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP