TransLiteral Foundation

वीरभावस्य माहात्म्यम्
श्रीभैरव उवाच
वद कान्ते रहस्यं मे येन सिद्धो भवेन्नरः ।
तत्प्रकार विशेषेण देवानामपि दुर्लभम्‍ ॥१॥

वीरभावस्य माहात्म्यम्‍
वीरभावस्य माहात्म्यकस्मात्‍ सिद्धिदायकम्‍ ।
करुणादृष्टिरानन्दा यदि चेदस्ति सुन्दरि ॥२॥

आनन्दभैरवी उवाच
परमानन्दसारज्ञो योगक्षेत्रप्रपालक।
रहस्य श्रृणु मे नाथ महाकालज्ञ भावग ॥३॥

योगमार्गानुसारेण वीरभांव श्रयेत कः ।
आनन्दोद्रेकपुञ्जं तत्‍ शक्तिवेदार्थनिर्यम्‌ ॥४॥

वेदाधीनं महायोग योगाधीना च कुण्डली ।
कुण्डल्यधीनं चित्तं तु चित्ताधीनं चराचरम्‍ ॥५॥

मनसः सिद्धिमात्रेण शक्तिसिद्धिर्भवेद्‍ ध्रुवम्‍ ।
यदि शक्तिर्वशीभूता त्रैलोक्यञ्च तदा वशम्‍ ॥६॥

अमरः स भवेदेव सत्यं सत्यं कुलेश्वर ।
सहस्त्रश्लोकयोगेन वीरयोगार्थनिर्णयम् ॥७॥

पटलैकादश क्षेमयोगेन योगमण्डलम् ।
षट्चक्रबोधिनी विद्या सहस्त्रदलपङ्कजम् ॥८॥

कैलासाख्यं सूक्ष्मपथं ब्रह्मज्ञानाय योगिनाम् ।
कथयामि महावीर क्रमशः क्रमशः श्रृणु ॥९॥

वीराणामुत्तमानाञ्च भ्रष्टांना प्रहिताय च ।
साक्षात् सिद्धिकरं यद्यत् तत्सर्वं प्रवदामि ते ॥१०॥

योगशास्त्र क्रमेणैव यः सिद्धिफलमिच्छति ।
स सिद्धो भवति क्षिप्रं ब्रह्ममार्गे न संशयः ॥११॥

ब्रह्मविद्यास्वरुपेण जपहोमार्चनादिकम‍ ।
कुरुते फलसिद्ध्यै यः स ब्रह्मज्ञानवान् शुचिः ॥१२॥

षट्चक्रभेदने प्रीतिर्यस्य साधनचेतसः ।
संसारे वा वने वापि सिद्धो भवति ध्रुवम् ॥१३॥

षट्चक्रार्थ न जानाति भजेदाम्बिकापदम् ।
तस्य पापं क्षयं याति सप्तजन्मसु सिद्धिभाक्‍ ॥१४॥

ज्ञात्वा षट्चक्रभेदञ्च यः कर्म कुरुतेऽनिशम् ।
संवत्सरात् भवेत् सिद्धिरिति तन्त्रानिर्णयः ॥१५॥

प्रस्वेदनं समाप्नोति मासत्रयनिषेवणात् ।
अष्टमासात् कल्प(म्प)नाशो वत्सरात् खेचरी गतिः ॥१६॥

प्रस्वेदमधमं प्रोक्तं कल्प(म्प)नं मध्यमं स्मृतम् ।
भूमेरुत्थापनं नाथ खेचरत्वं महासुखम् ॥१७॥

द्वात्रिंशद् ग्रन्थिदञ्च मूलाधारावधिस्थितम् ।
मेरुदण्डाश्रितं देशं कृत्वा ब्रह्ममयो भवेत् ॥१८॥

सुषुम्ना बाह्मदेशे च यद् यद् ग्रन्थिपदं प्रभो ।
क्रमशः क्रमशो भित्वा खेचरो भवति ध्रुवम् ॥१९॥

अल्प(न्य)कार्ये दत्वा ध्यानज्ञानविवर्जितः ।
उन्मत्तः स भवेदेव शास्त्राणां योगिराड्‌ भवेत् ॥२०॥

हिम कुन्देन्दुधवलां बालां शक्तिं महोज्ज्वलाम् ।
कलिकालफलानन्दां मूले धात्वा भवेद् वशी ॥२१॥

मूलपद्मं(द्मे)महाज्ञानी ध्यात्वा चारुचतुर्दले ।
कपिलाकोटिदान्स्य फलं प्राप्नोति योगिराट् ॥२२॥

मूलपद्मे कोटिचन्द्रकलायुक्तं सरक्तकम् ।
गलत्सुधा रसामोदवदनाब्जं फलं भजेत् ॥२३॥

निर्मलं कोटिवीरोग्रतेजस ब्रह्मरुपिणम् ।
वामपार्श्वे कुण्डलिन्या विभाव्य शीतलो भवेत् ॥२४॥

ततः श्रीयामलं वीरं तदाकारं तदुद्भवम् ।
ललाटबहिनजं देव्या नाथं भजति योगिराट् ॥२५॥

तत्र पद्मपूर्वदले सिन्धूरारुणविग्रहम् ।
वकारं कोटिचपलामालं भजति योगिराट् ॥२६॥

तत्पार्श्वे शोणिदले आज्ञाचक्रं मनोरमम् ।
यथा ध्यानं कुण्डलिन्या आज्ञाचक्रे तथात्र च ॥२७॥

भूमिचक्रक्रमं नाथ श्रृणु शङ्कर योगिनाम् ।
यं ध्यात्वा सिद्धिमाप्नोति सिद्धिदं षड्‌गृहं भवेत् ॥२८॥

षड्‌गृहं त्रिकालागेहमेकत्रस्थं महाप्रभम् ।
ध्यायेद् योगिनीगेहं मध्यगेहे रबीजकम् ॥२९॥

वकारं दक्षिणे गेहे हेममालिनमञ्जनम् ।
डाकिनी परमाबीजं ब्रह्मबीजं विभावयेत् ॥३०॥

वकारवामपार्श्वे च योगिनां योगसाधनम् ।
सदाशिवमहाबीजं विभाव्य योगिराड्‌ भवेत् ॥३१॥

वं बीजं वारुणाध्यक्षं हिमकुन्देन्दुनिर्मलम् ।
तद्विष्णोर्जन्मसंस्थान सत्त्वं द्रवमुपाश्रयेत् ॥३२॥

तदूर्ध्वपूर्वगेहे च लं बीजमिन्द्रपूजितम् ।
विद्युल्लताहेमवर्ण विभाव्य योगिनां पतिः ॥३३॥

इन्द्रबीजं दक्षपार्श्वे श्रीबीजं बिन्दुलाञ्छितम् ।
स्थिरविद्युल्लतारुमिन्द्राण्याः साधु भावयेत् ॥३४॥

तद्वामपार्श्वभागे च प्रणवं ब्रह्मसेवितम् ।
विभाव्य कोटिमिहिरं योगिराड्‌ भवति ध्रुवम् ॥३५॥

वं बीजाधोमन्दिरे श्रीविद्यायाः बीजतेजसम् ।
कोटिसूर्यप्रभाकार विभाव्य सर्वगो भवेत् ॥३६॥

निजदेव्या वामाभागे अधः कनकमन्दिरे ।
श्रीगुरो रमणं बीजं धात्वा वाग्भवमीश्वरम् ॥३७॥

निजदेव्या दक्षपार्श्वे दीर्घप्रणवतेजसम् ।
कोटिसूर्यप्रभारुपं धात्वा योगी भवेद् यतिः ॥३८॥

निजदेवीं तत्र पद्मे मनः सद्वाक्ययोगकैः ।
यथा ध्यानं तथा मौनं ध्यानं कुर्याज्ज्गत्पतेः ॥३९॥

ब्रह्मणः पूरकोणैव महायोगक्रमेण तु ।
सूक्ष्मवायूद्मेनापि भूमिचक्रे जपञ्चरेत् ॥४०॥

चतुष्कोणं धरायास्तु नवभूमिगृहान्वितम् ।
अष्टगेहं विभेद्यादौ वसुशून्ये यजेद् यतिः ॥४१॥

धराबीजं वान्तवर्णं शक्रेण परिपूजितम् ।
विभाव्य कुण्डलीतत्त्वं सर्वसिद्धीश्वरो भवेत् ॥४२॥

भजेदिन्द्रं तत्र नाके श्वेतकुञ्जरवाहनम् ।
चतुर्बाहुं देवराजं विद्युत्पुञ्जं भवक्षयम् ॥४३॥

डाकिन्या मन्दिरे कान्तं ब्रह्माणं हंसहंसगम् ।
नवीनार्कं चतुर्बाहुं चतुर्वक्त्रं भजेद् वशी ॥४४॥

ब्रह्मणं डाकिनीयुक्तं सिन्दूराप्लुतभास्करम् ।
परमामोदमत्तं तं विभाव्य योगिराड्‌ भवेत् ॥४५॥

विद्युल्लतावदुज्ज्वलां श्रीदेवडाकिनीं सुराट् ।
अभीक्षा(क्ष्णा)रक्तनयनां हंसस्थां भावयेद् वशी ॥४६॥

हंसोद्र्ध्वे कमलाबीजं सर्वाङ्कारभूषितम् ।
महालक्ष्मीस्वरुपं यत्तद् भजन्ति महर्षयः ॥४७॥

इन्द्रपृथ्वीबीजवामे प्रणवं ब्रह्मसेवितम् ।
प्राणायामसिद्धिदं यत्तद् भजन्ति महर्षयः ॥४८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-04-14T21:48:12.8100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

infrabranchial

  • Zool. (lying below the gills) अवक्लोम- 
RANDOM WORD

Did you know?

वारी म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site