TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सिद्धमंत्रस्वरूपकथनम्
आनन्दभैरवी उवाच
अथ वक्ष्ये महादेव सिद्धमन्त्रविचारणम्‍ ।
जपित्वा भावयित्वा च नरो मुच्येत सङ्कटात्‌ ॥१॥

आनन्दभैरव उवाच
फलचक्रे सर्वमन्त्रं सर्वसारं तनुप्रियम्‍ ।
क्रियायोगाद्‍ भवेत्‍ सिद्धिर्वायवीशक्तिसेवनात्‍ ॥२॥

वहिनबीजं त्रिकोणस्थं षट्‌कोण तद्‍ बहिः प्रभो ।
षट्‌कोण षण्मनु(नूनू) ध्यात्वा षनंआसाद्रुद्ररुपिणेः ॥३॥

अष्टकोणे स्थितान्‍ वर्णान अङ्कभेदेन पण्डितः ।
अङ्कसंख्याक्रमेणैव ध्यात्वा तद्‍ बहिरेव च ॥४॥

तत्संख्यासु गतान्‍  वर्गान्‍ विभाव्य खेचरो भवेत्‍ ।
विना त्रिकोणयोगेन षटकोणं तत्र वर्णकान्‍ ॥५॥

आज्ञाचक्रमध्यदेशे कामचक्रं मनोरमम्‍ ।
कामचक्रं(क्र) महासूक्ष्मफलोदयम्‍ ॥६॥

प्रश्नचक्रं षट्‌पदार्थ षट्‍चक्रफलसाधनम्‍ ।
प्रश्नचक्रे फलचक्रं योगाष्टाङुफलप्रदम्‍ ॥७॥

फलचक्रस्योद्‌र्ध्वभागे वर्णमालाक्रमेण तु ।
तद्वर्णान्‍ मौनजापेन फलसारं समाप्नुयात्‍ ॥८॥

फलचक्रप्रसादेन तत्त्वचिन्तापरो(रा) मतिः ।
स्थित्वा भू(भ्रू)मध्यकुहरे भावयतीश्वरम्‍ ॥९॥

भावज्ञानी भवेत्‍ शीघ्रं मूढोऽपि भावनावशात्‍ ।
आदौ सूक्ष्मफलं वक्ष्ये वर्णभेदेन शङ्कर ॥१०॥

वहिनर्भाति निरन्तरं त्रिजगतां नाशाय रक्षाकरो
जीवः सर्वचला चलस्थदहनं श्रीकालिकाविग्रहः ।
सवेव्यापक ईश्वरः क्षयति यः कामान्‍ मनःपल्लवं
धात्व तं समरुपवान्‍ परशिवज्ञानी भवेत्तत्क्षणात्‍ ॥११॥

वहिनबीजं सूक्ष्मफलं साक्षात्‍ प्रत्यक्षकारणम्‍ ।
त्रिकोणस्थं वहिनबीजं विधिविद्याप्रकाशकम्‍ ॥१२॥

अकस्मात्‍ सिद्धिदातारं यो भजेत्‍ स भवेत्‍ सुखी ।
यज्ज्ञात्वा देवताः सर्वा दिग्विदिक्षु प्रपालकाः ।
तद्‍भेदं रमणीयार्थ सङ्केतशुद्धिलाञ्छितम्‍ ॥१४॥

वहिनबीजस्त्योद्‌र्ध्वदेशे चन्द्रबीजमनुत्तमम्‍ ।
तत्र यो भावयेन्मन्त्री स सिद्धो नात्र संशयः ॥१५॥

विधोर्बीजं सूक्ष्मं विमलकमलं कान्तकिरणं
सदा जीवस्थानं प्रलयनिलयं वायुजडितम्‍ ।
ततो वामे सूर्य सकलविफलध्वंसनिकरं
महावहिनस्थानं भजति सुजनो भावविधिना ॥१६॥

तदधः कोणगेहे च श्रीबीजं पञ्चमस्वरम्‍ ।
भावकल्पतासारमकारादिकुलाक्षरम्‍ ॥१७॥

चतुःपञ्चाशदङ्कस्थं वायुबीजमधस्ततः ।
विभाव्य वायवीसिद्धिमवाप्नोति नराधिपः ॥१८॥

तद्ङं दक्षिणे नाथ भवानीबीजमण्डलम्‍ ।
युग्मस्वरसमाक्रान्तं विभाव्य योगिराड्‌ भवेत्‍ ॥१९॥

तद्‌दक्षिणोर्ध्वकोणे च सोमबीजमनुत्तमम्‍ ।
विभाव्य जगतामीशदर्शनं प्राप्नुयान्नरः ॥२०॥

तदूर्ध्वे परमं बीजं साक्षात्कारफलप्रदम्‍ ।
मासैकभावनादेव देवलोके गतिर्भवेत्‍ ॥२१॥

तदूर्ध्वकोणगेहे च रुक्मणीबीजमद्‌भुतम्‍ ।
साधनादेव सिद्धीः स्याल्लक्ष्मीनाथो भवेदिह ॥२२॥

अङ्क्रमेण सर्वत्र ज्ञेयं स्वराविधानकम्‍ ।
येन तेन स्वरेणापि वेष्टितं फलबीजकम्‍ ॥२३॥

भवत्येव महादेव वायुसिद्ध्यदिकारणम्‍ ।
अष्टकोण(ण)तले नाथ षट्‌कोण योनि सन्ति वै ॥२४॥

तद्‌बीजानि सत्फलानि धात्वा वाक्‌सिद्धिमाप्नुयात्‍ ।
रेफोद्‌र्ध्वे कमलाबीजं भावकल्पद्रुमाकरम्‍ ॥२५॥

सर्वत्र तेजसा व्याप्तं विभाव्य योगिनीपतिः
तदधः शीतलाबीजं वामभागक्रमेण तु ॥२६॥

विभाव्य परमानन्दरसे मन्गो महासुखी ।
तदधः कामबीजञ्च कामनाफलसिद्धिदम्‍ ॥२७॥

यो जपेत्‍ परमान्दो नित्यज्ञानी च वायुना ।
तदग्रे वेदकोने च वारुणं बीजमुत्तमम्‍ ॥२८॥

विभाव्य भावको भूत्वा चिरजीवी स जीवति ।
तदूर्ध्वे पञ्चमे कोणे वज्रबीजं वकारकम्‍ ॥२९॥

अष्टसिद्धिकरं साक्षाद्‍ भजतां शीघ्रसिद्धिदम्‍ ।
षट्‌कोणे च तदूर्ध्वे च सुरबीजं महाफलम्‍ ॥३०॥

ह्रदि यो भावयेन्मन्त्री तस्य सिद्धिः प्रतिष्ठिता ।
अष्टकोनस्योद्‌र्ध्वदेशे वर्णमालाविधिं श्रृणु ॥३१॥

येन भावनमात्रेण सर्वज्ञो जगदीश्वरः ।
ओ औ पवर्गमेवं हि यो नित्यं भजतेऽनिशम्‍ ॥३२॥

तस्य सिद्धिः क्षणादेव वायवीरुपभावनात्‌ ।
चन्द्रबीजस्योद्‌र्ध्वदेशे विभाति पूर्णतेजसा ॥३३॥

लृ ए ऐ तवर्गञ्च तद्‌दक्षिणविधानतः ।
तेजोमयी वायुशक्तिर्ददाति सर्वमङलम्‍ ॥३४॥

टवर्गं भावयेन्मन्त्री ऋ ऋ लृ स्वरसंयुतम्‍ ।
अष्टैश्वर्यप्रदं नित्यं कमलासनसिद्धिदम्‍ ॥३५॥

तदधो भावयेद्‍ यस्तु स भवेत्‍ कल्पपादपः ।
भवानीबीजरुपस्य अधो गेहे विभावयेत्‍ ॥३६॥

इ ई युग्मं चवर्गञ्च भावयित्वामरो भवेत्‍ ।
अ आ इ संयुतो कवर्गं कुरुते जयम्‍ ॥३७॥

भावयेत्‍ परया भक्त्या सोऽभीष्टं फलमाप्नुयात्‍ ।
इत्येतत्‍ कथितं नाथ फलचक्रं च सारदम्‍ ॥३८॥

एतच्चक्रभावनाभिर्महाविद्यापतिर्भवेत्‍ ।
कामरुपे महापीठे लिङपीठे प्रयत्नतः ॥३९॥

आज्ञाचक्रं चतुश्वक्रं भावयित्वाऽमरो भवेत्‍ ।
महायोगी हिरण्याक्षो मासैभावनावशात्‍ ॥४०॥

सप्तद्वीपेश्वरो भूत्वा अन्ते विष्णुर्बभूव सः ।
स्थिरचेताः स योगी स्यादिति तन्त्रार्थानिश्चयः ॥४१॥

एतानि चक्रसाराणि आज्ञाचक्रस्थितानि च ।
विभाव्य परमानन्दैरात्मसिद्धिर्भवेद्‌ ध्रुवम्‍ ॥४२॥

सूक्ष्मवायुप्रसादेन चिरजीवी भवेदिह ॥४३॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्र महातन्त्रोद्‌दीपने भावप्रश्नार्थनिर्णय पाशवकल्पे फलचक्रसारसङ्केते सिद्धमन्त्रप्रकरणे चतुर्वेदोल्लासे भैरवीभैरवसंवादे विंशः पटलः ॥२०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-04-14T21:42:23.4000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

यजितजाणें

  • अजित पहा . [ अजित चेंअरिष्ट रुप ] शरण . यजितखत - न . अजितपत्र ; हरल्याबद्दलचा लेख . 
RANDOM WORD

Did you know?

’ श्रीदुर्गासप्तशती’ ग्रंथातील कांही मंत्र जीवनातील संकटे दूर करतात काय? असे कोणते मंत्र आहेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.