अष्टादशः पटलः - वर्णदेवता तस्य स्वरुपकथनम्

कामचक्रसारसंकेते चतुर्वेदोल्लासः


कवर्गं कामाख्याभवनमणिपीठे त्रिजगतां
धरित्री सा धात्री वसति सततं सिद्धिनवके ।
हुताशेष्वाकोशे जलदतनुसाकाशजननी
गभीरा खड्‌गाभा करहर (भयवर) करा घोरमुखरां ॥१५॥

अभ्यासयोगात् कलिकालपावनीं कालीं कुलानन्दमयीं रमेशीम् ।
महारसोल्लाससुवक्त्रलोचनां कामेश्वरीं कूर्मपदं(दां) भजेज्जयी ॥१६॥

कालागुरोरुत्तमसिद्धसेविता मनोहरा खेचरसारशाखिनी ।
उल्कासमग्रा भवदीपवृत्तिस्तेज(:)(प्र) कूटामलनीलदेहा ॥१७॥

खड्‌गायुधा खर्परधारिणी सा चण्डोद्‌गमा वायुपथस्थ खेचरी ।
विद्याभयाखञ्जनलोचना गतिः क्षितिक्षये खेचरवर्गधारिणी ॥१८॥

खारी विहारी खलखेलनेन खराखरोन्मत्तगतिप्रिया खगा ।
महाखगारुपखलस्थिता सदा प्रपाति विद्याबलविक्रमस्थिता ॥१९॥

व्यापारनिद्रागहनार्थचिन्ताखरप्रभाभाति यदा यदा ॥२०॥

गायत्री गणनायिका मतिगतिग्लनिरगूढाशया
गीता गोकुलकामिनी गुरुतरा गार्ह्यग्निजेयोदया ।
गोरुपा गयहा गया गुणवर्ता गाथापथस्थयिनी
श्रीगुर्वी प्रतिपालनं त्रिजगतां गायन्ति यां तां भजेत् ॥२१॥

वायोर्घर्मकरानन्दमोहिनी घर्घरा घना ।
निद्रामाध्याति घटना नीला घोटकवाहिनी ॥२२॥

बिन्दुस्था विषभोजनानलकथा बीजश्रमायोप्रिया ।
पञ्चाढ्यामनुनासिका सुखमयी वेदक्रिया षण्मुखी ॥२३॥

विचित्रवस्त्राचरणाब्जचालनम् ।
विचारचेष्टां मयि देहि चञ्चले ॥२४॥

इति वर्णं चवर्गस्य महापातकनाशनम् ।
कामचक्रे स्थितं यद्यत् प्रश्ने मन्त्रगृहे यथा ॥२५॥

चवर्गफलमत्यन्तनिष्कर्षं सूक्ष्मभावनम् ।
धिया सर्वाक्षरश्रेणीं भावयन्ति पुनः पुनः ॥२६॥

सर्वं जानाति शम्भो त्वं परं कि कथयामि ते ।
तथापि वर्गमाहात्म्यं कामचक्रस्थनिर्मलम् ॥२७॥

यो जानाति कामचक्रं यमो हन्ति न तं जनम् ।
तत्प्रकारं भावयुक्तं भावनाध्याननिर्मलम् ॥२८॥

ध्यात्वा कामरुपस्था मूलाधारनिवासिनः ।
देवताः पार्थिवाः सर्वे आत्मानं परमेष्ठिनः ॥२९॥

न जानन्ति बालका मे तेषां योगादिसिद्धये ।
कामचक्रं कामरुपं कामनाफलसिद्धिदम् ॥३०॥

तन्मन्त्रग्रहणादेव साक्षादीशो भवेन्नरः ।
श्रुतिशास्त्राणि सर्वाणि करे तस्य न संशयः ॥३१॥

योगशिक्षादिकं सर्वं जानाति कामचक्रतः ।
कामचक्रप्रसादेन कामरुपी भवेद्‍ ध्रुवम् ॥३२॥

तद्वर्नस्थं तदन्तःस्थं दशकोणस्थमेव च ।
अष्टदलस्थं तत्रापि विचार्य साधकोत्तमः ॥३३॥

अनुलोमविलोमेन शास्त्रस्यानुक्रमेण च ।
बाल्यं कैशोरमुल्लासं वृद्धिः सिद्धिश्च यौवने ॥३४॥

वृद्धो वृद्धत्वमाप्नोति अस्ते च निधनं भवेत् ।
नवग्रहास्तत्र मध्ये पञ्चप्राणाश्च सन्ति वै ॥३५॥

अनुलोमविलोमेन गणयेद्‌दशकोणके ।
दशकोणे सर्वसिद्धरष्टसिद्धिश्च तत्र वै ॥३६॥

अष्टपत्रे प्रशंसन्ति अधोऽनन्तमध्ये गृहे ।
ब्राह्ममूर्ध्वगेहे च मन्त्रवर्नांश्च तत्तु तान् ॥३७॥

समाश्रित्य जपेद्वद्यां सूरयः क्रमरुपिणीम् ।
ह्रस्वदेवीं ह्रस्वबुद्धिं ददाति साधकाय च ॥३८॥

यदि क्रोधपरा विद्या भक्षयेत् साधकं लघु ।
अतः समवयोरुपां देवतामष्टसिद्धिदाम् ॥३९॥

देवो भूत्वा यजेद्‌देवं तदा मोक्षं समाप्नुयात् ।
यदि वर्णं न जानति कौलपुत्रोऽप्यधो व्रजेत् ॥४०॥

डाकिनी तं भक्षयति दीक्षामन्त्रार्णहीनकम् ।
ततो वर्णविचारञ्च प्रवक्ष्यामि समासतः ॥४१॥

चापान् धृत्वा नरेन्द्रस्तमपि मनुजकं पालयन्तीह लोके
सर्व चन्द्रो विघातं प्रचुरमयभयं भास्करो हन्ति शोकान् ।
चातुर्थ्या चक्रपाणेः पदमपि चपला सन्ददातीह माया
योगोद्योगी चरुगतमनसा साधकायाऽऽशु योगम् ॥४२॥

छत्राशा कमले स्थिता स्थितिलये वाञ्छाफलश्रीधरा
छायामण्डपमध्यगाच्छागाच्छलगता छत्रञ्छटा तेजसा ।
त्रैलोक्यं प्रतिपाति पाशुपतिभिः क्षेत्राधिपैः श्रीधरैः
प्राणप्रेमविहारिणी भगवतीच्छत्रेण तं साधकम् ॥४३॥

जातिख्यातिरनुत्तमा प्रभवति प्रीतायमाभ्यासतां
जीवानामतिदुःखराशिहननात् एकार्थसञ्चारिणी ।
वज्रा जीवनमध्यगा गतिमती विद्या जया यामिनी
जाता जातनिवारिणी जनमनःसंहारचिन्तावतु ॥४४॥

गङा हन्ति हताशुभा धनमुखी कैवल्यमुक्तिप्रदा ।
कृत्वा रक्षति साधकं झरझनत्कारेण सूक्ष्मनिला
कामक्रोधविनाशिनी शशिमुखी झङ्कारशब्दप्रिया ॥४५॥

ञकारबीजामलभावसारैः बाणस्य पुञ्चं प्रतिहन्ति योगिनी ।
खड्‌गायुधा सा रसपानमत्ता संहारनिद्राकुलसाधकुःखहा ॥४६॥

चन्द्रातपस्निग्धसुकान्त विग्रहा टङ्कास्त्र वज्रास्त्रहतारिपुअङुवाः ।
टिं टि महामन्त्रजपेन सिद्धिदा हन्ति श्रियं कापुरुषस्य पातकम् ॥४७॥

विशालनेत्रा यदि चारुकाङिं ठं ठं स्वबीजं परिपाति कक्षरी ।
मनोगतं दुःखसमूहमुर्वशी रत्नाकरा सैन्यकुलं निहन्ति ॥४८॥

डामरा जगतामाद्या डं डां डिं डीं स्वरुपिणी ।
कामचक्रे सुखं दत्वा सारयैवं तनोति सा ॥४९॥

ढं ढां बीजात्मिका विद्या रत्नमन्दिरसंस्थिता ।
ढक्‌कारी पाशहस्ता च साधक पाति सुन्दरी ॥५०॥

णं णां णिं णीं जपति सुजनो जीवनीमध्यसंस्था
अष्टश्वैर्या प्रभवति ह्रदि क्षोभपुञ्जापहाय ।
वाराणस्यां सकलभयहा सन्ददातीह लक्ष्मीं
सूक्ष्मात्यन्तानलपथमुखीं कालजालं निहन्ति ॥५१॥

तारारुपा तरुस्था त्रिनयन कुटिला तारकाख्या
निहन्त्री तन्वश्रेणी तरुवरकलात्राणहेतोरतीता ।
तालक्षेत्रा तडिदिव कलाकोटिसूर्यप्रकाशा
तोकादीनां बहलतरुणी तारकं पाति भक्तम् ॥५२॥

कालक्रमेणैव विमुक्तिदायिनी मनोरमा नीरजनेत्र कोमला
स्थिता क्ष (थ) कारक्षरमालिनीस्थला प्रपाति मुख्यं वरसाधकं शिवा ॥५३॥

दाली दरिद्रातिनिकृष्टदुःखहा दान्तप्रिया दैत्यविदारिणी दहा ।
दानस्थलस्था दयिता जतत्पतेर्दयाम ददाति द्रवदेवदारा ॥५४॥

धात्री धराधारणतत्परा धनी धनप्रद धर्मगतिर्धरित्री ।
दधार धीरं धनबीजमालिनी ध्यानस्थिता धर्मनिरुपणाय ॥५५॥

नन्दस्य प्रतिपालनाय जगतामानन्दुपुञ्जोदया
योगिन्यो नयनाम्बुजोज्ज्वलशिखाशोभा प्रमालाक्षरा ।
नीता नावपथस्थिता मतिमती याः पालयन्तीह ताः
पान्तु श्रीमुखतेजसा खलु यथा कालक्रमात् साधकम् ॥५६॥

पीता प्रेमविलासिनी वरपथाज्ञानाश्रया पालनात्
पूज्या पायसपा परापरपदा पीताम्बरा पोषणा ।
प्रौढा प्रेमवती पुराणकथना पायात् पुरा पावनी
या कामेश्वरपावनं परजनं श्री साधकं प्रस्थिता ॥५७॥

फुत्फणिवरमाला फेरवी फेरुरुपा
फणधरमुखकुल्याम्भोजवाक्यामृताब्धौ ।
निरवधिहरिकण्ठे वाक्यरुपा फलस्था
फलगतफणिचूडा पातु फुल्लारविन्दे ॥५८॥

वज्राख्यां वशकारिणीं यदि जपेत् श्रीपादसंसेवनात्
बाल्यं वेदविनिर्गतां भगवतीं श्रीरामदेवोर्व्वराम् ।
वश्या तस्य कराम्बुजे वसति सा वीरासनः स्था वशा
वक्त्राम्भोरुह कोमले भगवती भूतेश्वरी भूतगा ॥५९॥

माता मन्दिरमालिनी मतिमतामानन्दमालामला
मिथ्यामैथुनमोहिनी मनसि या(जा)मि(मे)महन्मेलनी ।
मानी तं वदते महेश्वरमहित्व तस्य वक्षःस्थले
स्थित्वा सा मरणं निहन्ति सहसा मौनावलम्बी भवेत् ॥६०॥

यातप्रिया या प्रतिभाति योगिनी
यामास्थिता योगमुखास्पदा यथा ।
योनिस्थले सा यतिसाधकं
यशोयात्रा सदा पाति यमादिकं दहेत् ॥६१॥

रत्नस्था रतिराजिता रणमुखे राज्ञः प्रियभीतिहा
रुक्ष्मा(क्या) लङ्‌कृतरडिणी रसवती रागापहा रोगहा ।
राजेन्द्रं रजनीस्थे प्रकुपिता राधामृता पाति तं
स्वाहारुपमनोरमा सुरमणी रामा रकारक्षरी ॥६२॥

लक्ष्मीर्लाङलिलक्षणा सुललना लोलामला निर्भया
बालामूलमिवासतां लवनाकुला सिन्धूल्लासलीलाकुला ।
लोलाकोलकुलान्न जानलमुखी लग्नालघूराकुला
कौलार्काकुल लोचना लयकरी लीलालयं पाति माम् ॥६३॥

विषासवस्थानरणस्थवासना
वश्यावहन्ती ललनावशार्थम् ।
सा पाति वीरं यदि तां भजेद्‍ वशी
विषाशनं ते निवसन्ति वारुणीम् ॥६४॥

शीतां शशीशोक विशेषनाशिनीं
भजेत् सुशीलां स भवेदि‌दवाकरः ।
शिवां शचीं शौचशुभां शवप्रियां
शवस्थितां शीतलदेशशेशोभिताम् ॥६५॥

षट्‌चक्रे षट्‌चक्रे षट्‌पदाषाढी षड्ङुस्था षडानना ।
षट्‌चक्रे सिद्धिदा पाति साधकं षोडशी मुदा ॥६६॥

सा मा सूक्ष्म वहति सुजलं सप्तनाकस्थलाढ्या
सारा साक्षात् सुखसमरसोज्ज्वालसाहलादसाम्या ।
साकारा साम्बुजमधुगिरा पूरयन्ती महार्थं
वेदा सौरा सुरमतिनिवहा सामवेदान्तरस्था ॥६७॥

हठात्कारेण सहारा हरति प्राणहं जनम् ।
निहारिणं न सा हन्ति हिरण्याहारमालिनी ॥६८॥

आलोका लक्षजपदा लाक्षरंल्लक्षणा समा ।
आलग्दानाल सालापा? पाति तं यो भजेल्लघु ॥६९॥

क्षयं क्षितौ याति सुसूक्ष्मभावनं
विहाय मन्त्री क्षयरोगहारिणी
सूक्ष्मातिसूक्ष्मान्यतमं विचिन्तयेत्
क्षोभादिकं पक्षकलाक्षयन्ती ॥७०॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP