TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सप्तदशः पटलः - स्थिरचित्तसाधकस्य लक्षणम्

शक्त्याचारस्मन्वितम् अथर्ववेदलक्षणम्


स्थिरचित्तसाधकस्य लक्षणम्
तिस्त्रः कोट्यर्धकोटि च यानि लोमानि मानुषे ।
नाडीमुखानि सर्वाणि धर्मबिन्दुं च्यवन्ति हि ॥५७॥

यावत्तद्‌बिन्दुपातश्च तावत्कालं लयं स्मृतम् ।
तावत्कालं प्राणयोगात् प्रस्वेदाधमसिद्धिदम् ॥५८॥

सूक्ष्मवायुसेवया च किन्न सिद्धयति भूतले ।
लोमकूपे मनो दद्यात् लयस्थाने मनोरमे ॥५९॥

स्थिरचेता भवेत् शीघ्रं नात्र कार्या विचारणा ।
वायुसेवां विना नाथ कथं सिद्धिर्भवेद्‌ भवे ॥६०॥

स्थिरचित्तं बिना नाथ मध्यमापि न जायते ।
स्थाने स्थाने मनो दत्वा वायुना कुम्भकेन च ॥६१॥

धारयेन्मारुतं मन्त्री कालज्ञानी दिवानिशम् ।
एकान्तनिर्जने स्थित्वा स्थिरचेता भवेद्‌ ध्रुवम् ॥६२॥

स्थिरचित्तं विना शम्भो सिद्धिः स्यादुत्तमा कथम् ॥६३॥

निवाह्र पञ्चएन्द्रियसञ्ज्ञकानि यत्नेन धैर्यायतिरीश्वरस्त्वम् ।
प्राप्नोति मासन्नयसाधनेन विषासवं भोक्तुमसौ समर्थः ॥६४॥

मासत्रयाभ्या-सुसञ्चयेन स्थिरेन्द्रियः स्यादधमादिसिद्धिः ।
सा खेचरी सिद्धिरत्र प्रबुद्धा चतुर्थये मासे तु भवेद्विकल्पनम् ॥६५॥

तदाधिकारी पवनाशनोऽसौ स्थिरासनानन्दसुचेतसा भुवि ।
प्रकल्पने सिद्धिं यथार्थगामिनीमुपेति शीघ्रं वरवीरभावम् ॥६६॥

सा वयवी शक्तिनन्तरुपिणी लोभावलीनां कुहरे महासुखम् ।
ददाति सौख्यं गतिचञ्चल जयं स्थिराशयत्वं सति शास्त्रकोवदम् ॥६७॥

षण्मासयोगासननिष्ठदेहा वायुश्रमानन्दरसाप्तविग्रहः ।
विहाय कल्पावितयोगभाव श्रुत्यागमान् कर्तुमसौ समर्थः ॥६८॥

स्थिरचेता महासिद्धिं प्राप्नोति नात्र संशयः ।
संवत्सरकृताभ्यासे महाखेचरतां व्रजेत् ॥६९॥

यावन्निर्गच्छति प्रीता वायवी शक्तिरुत्तमा ।
नासाग्रमववार्यैव स्थिरचेता महामतिः ॥७०॥

चण्डवेगा यदा क्षिप्रमन्तरालं न गच्छति ।
सर्वत्रगामी स भवेत् तावत्कालं विचक्षणः ॥७१॥

यदि शीर्षादूर्ध्वदेशे द्वादशाङ्‌गुलकोपरि ।
गन्तुं समर्थो भगवान् शिवतुल्यो गणेश्वरः ॥७२॥

सर्वगामी प्रभवेत खेचरी योगिराड्‍ वशी ।
इति सिद्धिर्वत्सरे स्यात् स्थिचित्तेन शङ्कर ॥७३॥

योगी भूत्वा मनःस्थैर्यं न करोति यदा भुवि ।
कृच्छ्रेग पदमारुह्य प्रपतेन्नारकी यथा ॥७४॥

अत एव महाकाल स्थिरचेता भव प्रभो ।
तदा मां प्राप्स्यसि क्षिप्रं वायवीमष्टसिद्धिदाम् ॥७५॥

यदि सिद्धो भवेद्‍ भूमौ वायवीसुकृपादिभिः ।
सदा कामस्थिरो भूत्वा गोपयेन्मातृजारवत् ॥७६॥

यदा यदा महादेव योगाबासं करोति यः ।
शिष्येभ्योऽपि सुतेभ्योऽपि दत्वा कार्यं करोति यः ॥७७॥

तदैव स महासिद्धिं प्राप्नोति नात्र संशयः ।
संवत्सरं चरेद्धर्मं योगमार्गं हि दुर्गमम् ॥७८॥

प्रकाशयेन्न कदापि कृत्वा मृत्युमवाप्नुयात् ।
योगयोगाद्‍ भवेन्मोक्षो मन्त्रसिद्धिरखण्डिता ॥७९॥

न प्रकाश्यमतो योगं भुक्तिमुक्तिफलाय च ।
नित्यं सुखं महाधर्मं प्राप्नोति वत्सराद्‌ बहिः ॥८०॥

आत्मसुखं नित्यसुखं मन्त्रं यन्त्रं तथागमम‍ ।
प्रकाशयेन्न कदापि कुलमार्ग कुलेश्वर ॥८१॥

यद्येवं कुरुते धर्मं तदा मरणमाप्नुयात् ।
योगभ्रष्टो विज्ञानज्ञोऽजडो मृत्युमवाप्नुयात् ॥८२॥

येन मृत्युवशो याति तत्कार्यं नापि दर्शयेत् ।
दत्तात्रेयो महायोगी शुको नारद एव च ॥८३॥

येन कृतं सिद्धिमन्त्रं वर्णजालं कुलार्णवम् ।
एकेन लोकनाथेन योगमार्गपरेण च ॥८४॥

तथा मङुलकार्येण ध्यानेन साधकोत्तमः ।
उत्तमां सिद्धिमाप्नोति वत्सराद्‍ योगशासनात् ॥८५॥

आदौ वै ब्रह्मणो ध्यानं पूरकाष्टाङुलक्षणैः ।
कुर्यात् सकलसिद्ध्यर्थमम्बिकापूजनेन च ॥८६॥

ऋगवेदं चेतसि ध्यात्वा मूलाधारे चतुद्‌र्दले ।
वायुना चन्द्ररुपेण धारयेन्मारुतं सुधीः ॥८७॥

अथर्वान्निर्गतं सर्वं ऋग्वेदादि चराचरम् ।
तेन पूर्णचन्द्रमसा जीवेनार्यामृतेन च ॥८८॥

जुहुयादेकाभावेन कुण्डलीसूर्यगोऽनले ।
कुम्भक कारयेन्मन्त्री यजुर्वेदपुरःसरम् ॥८९॥

सर्वसत्त्वाधिष्ठितं तत् सर्वविज्ञानमुत्तमम् ।
वायव्याः पूर्णसंस्थानं योगिनामभिधायकम् ॥९०॥

पुनः पुनः कुम्भयित्वा सत्त्वे निर्मलतेजसि ।
महाप्रलयसारज्ञो भवतीति न संशयः ॥९१॥

रेचकं शम्भुना व्याप्तं तमोगुणमनोलयम् ।
सर्वमृत्युकुलस्थानं व्याप्तं धर्मफलाफलैः ॥९२॥

पुनः पुनः क्षोभनिष्ठा रेचकेन निवर्तते ।
रेचकेन लयं याति रेचनेन परं पदम् ॥९३॥

प्राप्नोति साधकश्रेष्ठो रेचकेनापि सिद्धिभाक्‍ ।
रेचकं वहिनरुपञ्च कोटिवहिनशिखोज्ज्वलम् ॥९४॥

द्वादशाङुगुलमध्यस्थं ध्यात्वा बाह्ये लयं दिशेत् ।
चन्द्रव्याप्तं सर्वलोकं सर्वपुण्यसमुद्‌भवम् ॥९५॥

रेचकाग्निर्दहतीह वायुसख्यो महाबली ।
तत् शशाङ्कजीवरुपं जीवति वायवी ॥९६॥

आग्नेयी दह्याति क्षिप्रं एष होमः परो मतः ।
एतत् कार्यं यः करोति स न मृत्युवशो भवेत् ॥९७॥

एतयोः सन्धिकालञ्च कुम्भंक तत्त्वसाधनम् ।
तदेव भावकानाञ्च परमस्थानमेव च ॥९८॥

महाकुम्भलाकृत्या स्थिरं स्थित्त्वा च कुम्भके ।
अथर्वगामिनीं देवीं भावयेदमरो महान् ॥९९॥

अननतभावनं शभ्भोरशेषसृष्टिशोभितम् ।
अथर्वं भावयेन्मन्त्री शक्तिचक्रक्रमेण तु ॥१००॥

आज्ञाचक्रे वेददले चतुर्दलसुमन्दिरे ।
अथर्वयोगिनीं ध्यायेत् समाधिस्थेन चेतसा ॥१०१॥

ततोऽच्युताख्यं जगतामीश्वरं शीर्षपङ्कजे ।
प्रपश्यति जगन्नाथं नित्यसूक्श्मसुखोदयम् ॥१०२॥

आज्ञाचक्रे शोधनमशेष्रदलमथर्वं परिकीर्तितम् ।
ज्योतिश्चक्रे तन्मध्ये योगमार्गेण सद्‌बिलम् ॥१०३॥

प्रपश्यति महाज्ञानी बाह्यदृष्ट्या यथाम्बुजम् ।
कालेन सिद्धिमाप्नोति ब्रह्माज्ञानी च साधकः ॥१०४॥

ततो भजेत् कौलमार्गं ततो विद्यां प्रपश्यति ।
महाविद्यां कोटिसूर्यज्वालामालासमाकुलम् ॥१०५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-04-10T03:03:16.1670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

PIṆḌĀRAKA I(पिण्डारक)

RANDOM WORD

Did you know?

जन्मानंतर पाचवी पूजनाचे महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site