श्वासमात्रेण वसयेत् कुलमार्गं न पण्डितः ।
कुलाकुलविभागेन आत्मानं नीयते परे ॥३५॥

श्वासाभ्यासं विना नाथ अष्टाङाभ्यसनेन च ।
विना दमेन धैर्येण कुलमार्गो न सिद्धयति ॥३६॥

तथा पूरकयोगेन रेचकेनापि तिष्ठतिः ।
विना कुम्भकसत्त्वेन यथैतौ नापि तिष्ठतः ॥३७॥

तथा योगं विना नाथ अष्टाङाभ्यसनं विना ।
कुलमार्गो महातत्त्वो न सिद्धयति कदाचन ॥३८॥

कुलमार्गं विना मोक्ष कः प्राप्नोति कहीतले ।
कुलमार्गं न जानति योगवाक्यागमाकुलम् ॥३९॥

स कथं पूजयेद्‌देवीं तस्य योगः कृतः प्रभो ।
अज्ञात्वा वीरनाथानामाचारं यः करोति हि ॥४०॥

तेषां बहुदिने योगशिक्षा भवति निश्चितम् ।
प्राणायामं महाधर्मं वेदानामप्यगोचरम् ॥४१॥

सर्वपुण्यस्य सारं हि पापरशितुलानलम् ।
महापातककोटीनां तत्कोटीनाञ्च दुष्कृतम् ॥४२॥

पूर्वजन्मार्जितं पापं नानादुष्कर्मपातकम् ।
नश्यत्येव महादेव षण्मासाभ्यासयोगतः ॥४३॥

सन्ध्याकाले प्रभाते च यः करोत्यप्यहर्निशम् ।
वशी षोडशसंख्याभिः प्राणायामान् पुनः पुनः ॥४४॥

संवत्सरं वशी ध्यात्त्वा खेचरो योगिराड्‌ भवेत् ।
योगी भूत्वा कौलमार्गं समाश्रित्यामरो भवेत् ॥४५॥

महाविद्यापतिर्भूत्वा विचारात् साधकोत्तमः ॥४६॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने भावार्थबोधनिर्णये पाशवकल्पे आज्ञाचक्रसारसङ्कते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे षोडशः पटलः ॥१६॥

N/A

References : N/A
Last Updated : September 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP