आनन्दभैरवी उवाच
श्रृणुष्वानन्दरुद्रेश तृतीयदललक्षणम् ।
सामवेदमधश्चक्रं तमोगुणानिराकुलम् ॥१॥

वर्णजालादिनाक्रान्तं रुद्ररुपं महेश्वरम् ।
लयस्थानं कामरुपं परमानन्दमन्दिरम् ॥२॥

वहिनवृत्तिसुस्थान विभाव्य योगिराड्‌ भवेत् ।
तत्स्थानं योगिनां धर्मो गुरोराज्ञाफलप्रदम् ॥३॥

तत्पदाब्जं श्रीगुरुणां भ्रूमध्ये द्विदलाम्बुजे ।
मुहुर्मुहुः शनैर्ध्यायेत् समीरास्पदभास्वरम् ॥४॥

विभाव्य मनसा वाचा कर्मणा सूक्ष्मवायुना ।
लीनं कृत्वा सदा ध्यायेत् सदा हर्षकलेवरः ॥५॥

सहस्त्रारें यथा ध्यानं तद्‌ध्यानं द्विदलाम्बुजे ।
गुरुमात्मानमीशानं देवदेवं सनातनम् ॥६॥

अकस्मात् सिद्धिदातारं योगाऽष्टाङुफलप्रदम् ॥७॥

नित्यं शब्दमयं प्रमाणाविषय्म नित्योपमेयं गुरुं
चन्द्रोल्लासतनुप्रभं शतविधूल्लास्साय पङ्केरुहम् ।
सर्वप्राणगतं गतिस्थमचलं ज्ञानाधिनिर्लेपनं
रुढालास्यगुणालयं लयमयं स्वात्मोपलब्धि भजे ॥८॥

यदि भजेज्जगतामलेश्वर स्मरहरं गुरुमीश्वरमात्मनि ।
परमसुन्दरचन्द्रसामाकुलं निपतिताद्यकुलानलसञ्चयम् ॥९॥

प्रणमतां समतां कुरुते गुरो यदि भवान् विफलं परिहन्ति मे ।
तव पदाम्बुजमद्‌भुतलीलया परिभजे भवसागरपारगम् ॥१०॥

गुरुपदं सितपङ्कजराजितं कनकनूपुरसुन्दरासञ्जनम‌ ।
रचिताचित्रितचारुनखेन्दुकं भुवनभावनपावनमाश्रये ॥११॥

सकलसत्फल पालनकोमलं विमलशोणित पङ्कज मण्डितम् ।
पदतलं खनिग्रहपालन्म खचितरत्नधराचलनं भजे ॥१२॥

सुकनकजडितासनपङ्कजे परिभवं भवसागरसम्भवम् ।
यदि कृपा विभवेन्मयि पामरे व्यवतु मां तव पादतलं भजे ॥१३॥

परमहंसमनुं हररुपिणं सकलमक्षशङ्‌गुरुमीश्वरम् ।
सकललक्षणचन्द्रमसःकरं तरुगुरोर्मुखपङ्कमाश्रये ॥१४॥

गुरोराञाचक्रं भुवनकरण्म केवलमयं
सकारं नादेन्दुकुमुदह्रदयं कामकलया ।
लयस्थाने वायोर्नवमधुरसमोदमिलिते
दले वेदक्षेत्रे विधुविरहिते तत्र पदके ॥१५॥

तमोगुनसमाक्रान्ते अधोमण्डलमण्डिते ।
द्विबिन्दुनिलये स्थाने द्विदले श्रीगुरोः पदम् ॥१६॥

महावहिनशिखाकारं तन्मध्ये चिन्तयेत् सुधीः ।
एतद्योगप्रसादेन बीजवाग्भवकूटकैः ॥१७॥

चिरजीवी भवेत् क्षुद्रो वागीशत्वमवाप्नुयात् ।
श्रीगुरोश्चरनाम्भोजनिःसृतं यत् परामृतम् ॥१८॥

तत्परामृतधाराभिः सन्तर्प्य कुलनायिकाम् ।
पुनः पुनः समाकुञ्च प्रबुद्धां तां स्मरेत् सदा ॥१९॥

पर्यायत्त्वापरसं धारयेन्मारुतं सुधीः ।
तत्परामृतधाराभिः सन्तर्प्य कुलनायिकाम् ॥२०॥

ततः पुनः पुनः पात्यं सर्वपुण्यफलं प्रिये ।
धनरत्नमहालक्ष्मीः प्राप्नोति साधकोत्तमः ॥२१॥

सर्वत्र जयमाप्नोति युद्धे क्रोधे महाभये ।
महायुधि स्थितो याति सुशीलो मोक्षमाप्नुयात् ॥२२॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP