पञ्चदशः पटलः - ब्रह्मविवेचनम्

वेदप्रकरणम्


आनन्दभैरवी उवाच
देवकार्य वेदशाखापल्लवं प्रणवं परम् ।
वदामि परमानन्द भैरवाहलादमाश्रृणु ॥१॥

आद्यपत्रे अकारञ्च ऋग्वेदं परमाक्षरम् ।
ब्रह्मणं तं विजानीयाद्‍ आद्यवेदार्थनिर्णयम् ॥२॥

वेदेन लभ्यते सर्वं वेदाधीनमिदं जगत् ।
वेदमन्त्रविहीनो यः शक्तिविद्यां समभ्यसेत् ॥३॥

स भवेद्दि कथं योगी कौलमार्गपरायणः ।
श्रीआनन्दभैरव उवाच
ब्रह्मास्तोत्रं हि किं देवि! ब्रह्मविद्या च कीदृशी? ॥४॥

ब्रह्मज्ञानी च को वा स्यात् को वा ब्रह्मशरीरधृक्‍ ।
तत्प्रकारं कुलानन्दकारिणि प्रियकौलिनि ॥५॥

वद शीघ्रं यदि स्नेहदृष्टिश्चेन्मयि सुन्दरि ।
श्री आनन्दभैरवी उवाच
तदेव ब्रह्मणः स्तोत्रं वायवीशक्तिसेवनम् ॥६॥

सूक्ष्मरुपेण मग्ना या ब्रह्मविद्या प्रकीर्तिता ।
सदा वायू प्राणरससूक्ष्मोन्मतप्रसन्नधीः ॥७॥

एकान्तभक्तिः श्रीनाथे ब्रह्मविद्या प्रकीर्तिता ।
अष्टाङुन्यासनिहतः सूक्ष्मसञ्चारह्रत् शुचिः ॥८॥

सदा विवेकमाकुर्याद ब्रह्मज्ञानी प्रकीर्तितः ।
ब्रह्मानन्दं ह्रदि श्रीमान् शक्तिमाधाय वायवीम् ॥९॥

सदा भजति यो ज्ञानी ब्रह्मज्ञानी प्रकीर्तितः ।
विजयारससारेण बिना बाह्यसवेन च ॥१०॥

वायव्यानन्दसंयुक्तो ब्रह्मज्ञानी प्रकीर्तितः ।
सदानन्दरसे मग्नः परिपूर्णकलेवरः ॥११॥

आनन्दश्रुजलोन्मतो ज्ञातो ब्रह्मशरीररधृक्‍ ।
शक्तिः कुण्डलिनी देवी जगन्मातास्वरुपिणी ॥१२॥

प्राप्तते यैः सदा भक्तैः मुक्तिरेवागमं फलम् ।
आद्यपत्रे प्रतिष्ठान्ति वर्णजालसमाश्रिताः ॥१३॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP