चतुर्दशः पटलः - आश्लेषादिनक्षत्रफलकथनम्

नाक्षत्रिकचक्रफलम्


द्वितीयदलमाहात्म्यं नक्षत्रमण्डलावृतम् ।
तत्तत्ताराफलं वक्ष्ये येन प्रश्ननार्थनिर्णयः ॥३०॥

अश्लेषा बहुदुःखवादनगतं व्यामोहशोभावृतं
नानाभङुनिषेवणं धनवतां हानिः पदे सम्पदे ।
भूपानां परिवर्ज्जन खलजनैराच्छादितं तापितं
सन्दद्यात् क्षितिजातिभाति नियतं कोलाहले नारके ॥३१॥

मघायां महेशि धनं हन्ति मध्ये महोल्लासवृद्धिं भयं तस्य शत्रोः ।
क्षितिक्षोभहन्तामेत्यन्तभावं कुकामातुराणां सदा सङुकारम् ॥३२॥

पूर्वफल्गुनिनक्षत्रे दूरगानां फलं पठेत् ।
अतिधैर्य शत्रुपक्षे हानयो यान्ति निश्चितम् ॥३३॥

फलमुत्तरफल्गुन्या दीयते गतिरीश्वरी ।
यदि देवपरो नाथ तदा सर्वत्र सुन्दरम् ॥३४॥

हस्तामस्तकव्रीडया शुभविलोकत्रये भाग्यदा
रक्तङीगतिचञ्चलामलगुणाहलादेन कल्याणदा ।
सा नित्यं प्रददा‌ति रुक्मशतकं भक्ताय यज्ञार्थिने
नानाव्यञ्जनभोजनैरतिसुखी संज्ञासमूहं ददेत् ॥३५॥

ददाति वित्तं जगतीह चित्रा मनोरथं व्याकुलतामङ्‌कृता ।
कदाचिदेव हि शरीरदुःखदं न प्राप्नुयादीश्वरभक्तिमालभेत् ॥३६॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP