TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अकाराद्यक्षरक्रमेणप्रश्नफलम्
आनन्दभैरवी उवाच
आज्ञाप्रश्नार्थभावञ्च वर्णविन्यासनिर्णयम् ।
अधुना श्रृणु सर्वज्ञ भावज्ञानपरायण ॥१॥

यदि मेषे स्वनक्षत्रं स्ववारसंयुतं शुभम् ।
ज्ञात्वा शुभादिपत्रञ्च पलमानेन साधकः ॥२॥

गणयेद् वर्णसारञ्च येन तत् प्रश्ननिर्णयः ।
पूर्वे दले ककारस्य वर्णभेदं श्रृणु प्रभो ॥३॥

मनसि सुखसमूहं प्राणसौख्यार्थचिन्ता
वसनगमनलाभं प्रीतिपुत्रार्थयोग्यम् ।
स्थिरपदमपि देशे दर्शनं प्राणबन्धोः
सकलकलुषहानिश्चादिपत्रे ककारे ॥४॥

सदा नृनासिके सुखं सुखोल्बणस्य सेवनं
सदाशिवे च भक्तिदं स्वकीयगेहसत्फलम् ।
कलाधरस्य दृष्टिभिः प्रधानलोकपूजन्मं
हिताहितं न बाधते विवाहकेलिना सुखम् ॥५॥

ऋकारं विपदां ध्वंसं धैर्ये विद्याविबोधनम् ।
व्याधिपीडादुर्जनानां पीडाप्रश्नं वदेत्तदा ॥६॥

उकारे वायुभावस्य वृथागमनमेव च ।
दारिद्रयहानयोर्यान्ति दूरागमनदुर्लभम् ॥७॥

खकारे द्रव्यप्रश्नञ्च शुभकार्ये गते भयम् ।
आशु भयं समाप्नोति प्राप्य निर्धनतां व्रजेत् ॥८॥

पञ्चत्वजिज्ञासनमेव सत्यं सत्यं सुखानामुदयाय चेष्टा ।
शत्रेर्विनाशाय हिताय बन्धोः पकारकूटे परचौरचेष्टा ॥९॥

कैवल्यादिसमापनं निजपनो दुष्टव्यापहं कामिनां
नानाभोगविनाशनं कनकरौप्यराजप्रदं स्वके ।
मारीभीतिविरोधन धनपतेरानन्दुपुञ्जोदयं
गोविद्याश्रियाशु लाभविविधं धर्मार्थचिन्ताकुलम् ॥१०॥

हरिपूजा हरिध्यानं हरिपादाम्बुजे रतिः ।
चौर्याहरणद्रव्यस्य न हानिर्जन्महार्दके ॥११॥

आकारे तेजसो हानिर्महाशब्दे विनाशनम् ।
आगतानाञ्च हानिः स्यात् पक्षपातं गतौ जयम् ॥१२॥

उशतो निजगेहस्था उल्बणव्याधिपीडनम् ।
उत्साहध्वंसशून्यञ्च पाठे पाण्डित्यमुल्बणम् ॥१३॥

दीर्घलृकारवर्णे च लावण्यलोचनो नृपः ।
लज्जानष्टक्षेमबुद्धिर्मित्रतुल्यप्रियो भवेत् ॥१४॥

दीर्घप्रणवमोङ्कारे निराश्रयो न जीवति ।
महदाश्रयमात्रेण सर्वं चूर्णं करोति हि ॥१५॥

सिंहे कार्मुकमेषलग्नसमये नित्याशिषं प्राप्नुयात्
किञ्चिद्भाति पराक्रमी गतिमताम श्रेष्ठो भवेत् कर्माणि ।
किञ्चिद्दोषकुलापहं नरपतेत्सासंवर्धनं
क्रोधी नित्यपराक्रमी भवति सः शीघ्रभिलाषान्वितः ॥१६॥

अथ वक्ष्ये महादेव वीराणमुत्तमोत्तम।
सर्वशास्त्रार्थतत्त्वज्ञ तत्त्वज्ञानपरायण ॥१७॥

दक्षिणस्थदलस्यापि वर्णभेदर्थनिर्गमम् ।
फलमत्यन्तनिष्कर्षं वाञ्छावाक्यफलप्रदम् ॥१८॥

कान्ते बीजे कमलनिलया गेहभागस्थिरा या
नानादेभ्रमणभयदा नैव कुत्रापि सुस्था ।
चण्डोद्वेगापहसति खलानाञ्च हानिः प्रबुद्धो
वाणी वश्या वसति चक्रिणां हानयः स्युः ॥१९॥

चारुप्रतापं चरणे गुरुणां भक्तिर्दृढा स्याद् गमनेषु चारु
तदातातानां नृपतिप्रियाणां सम्प्रेरंण चारुफलञ्च कूटे ॥२०॥

कान्तेषु कान्तावदनारविन्दे सुषट्‌पदत्वं रमणीविलासम् ।
आयुः क्षयोद्वेगाविनाशकरणं चाकर्षण देशसुखं धनानाम् ॥२१॥

टकारे धारणं देशे सुखं शेषे निशामुखम् ।
विदेशस्थधनादीनाम स्यादागमनमुत्तमम् ॥२२॥

दकूटमधनं विना भवति विघ्नहानिः सदा
जयं स्वगृहकामिनो कमलनेत्रकान्ता यथा ।
सुसिद्धकरमेव हि प्रबलभावनातो भवेत्
भवे जयति मानुषस्तु पृष्टस्य जिज्ञासने ॥२३॥

व्याख्यातं मुनिभिः फलं फलमयं काल रिपूणां सदा
लोकानां वशकारणं कुलवरो वेदागमे पारगः ।
प्राप्नोति प्रियपुत्रकं नरपतेरुत्साहसं कारणं
कार्ये दुर्जनपीडनं भयसमूहानां विनाशङ्कके ॥२४॥

यशासि वयसि तेजो बुद्धिरेव यकूटे
समयफलभूपोल्लासवृद्धिः समृद्धया ।
यजनमपि सुराणां चौर्यमात्रं भूया
दतिशयधनवृद्धिः क्रेयविक्रेयकाले ॥२५॥

शीतकाले धनप्राप्तिः स्वर्णरौप्यदिलाभकम् ।
पुत्रप्राप्तिः सुखप्राप्तिः सङ्कटॆ वदति ध्रुवम् ॥२६॥

लक्ष्मीः प्रियं धनं दातुं मुदिता भूमिमण्डले ।
जलेन जायते हानिर्लयं देवे न कूटके ॥२७॥

प्रश्नाद्यक्षरमित्यादिस्वरमूलं हि यो नरः ।
जिज्ञासनं यदा कुर्यात् तदा स्यादुत्कटं फलम् ॥२८॥

श्रृणु तत्तत् स्वरं नाथ एतत्पत्रस्थमाक्षयम् ॥२९॥

इकारकूलमङुले धनदितृष्णयान्वितोः ।
विशेषधर्मलक्षणं धनञ्च पैतृकं लभेत् ॥३०॥

गतिप्रियं सुदेवता सुसम्पदं सदासुखम् ।
तथा हि सूक्ष्मबुद्धिभिः परास्तमाकरोदरिम् ॥३१॥

ईकारमपरप्रियं परमतध्वंससंवर्द्धनम् ।
विदेशगमनं नहि प्रभवतीह बाह्यं दया ॥३२॥

जगज्जनमभिप्रियं तरुणदोषसम्माननम् ।
विकाररहितं सुखं भवति पृष्ट आवेदके ॥३३॥

ए बीजे बद्धसन्तोषं कामनाफलसिद्धिदम् ।
वायुना हरणं चैव प्राप्नोति नृपमाननम् ॥३४॥

अमीत्येकाक्षरे बीजे बीजभूते जगत्पतेः ।
प्राप्नोति कन्यादानादिफलं वस्त्रञ्च तैजसम् ॥३५॥

गोकन्यामकरे खगे खगचरता सौन्दर्यलक्ष्मीर्भवेत्
शेषे काञ्चनपुञ्जलाभमतुलं सन्तोषसारं गतौ ।
संसारे निजदायिका स्वजनता रत्नादिक सञ्चयं
सर्वं सञ्चयति प्रभो हितकरं प्रशनार्थमाद्याक्षरे ॥३६॥

तृतीयदलामाहात्म्य यद् यद् वर्णे विचारयेत् ।
प्रश्नाद्यक्षरवर्णेषु नीत्वा च गगनं चरेत् ॥३७॥

तत्प्रकारं श्रृणु प्राणवल्लभ प्रेमपारग ।
यज्ज्ञानात् प्रश्नसिद्धिः स्यादकालफलदं नृपम् ॥३८॥

दृष्टवा ज्ञात्वा भावराशिमुत्तमाधममध्यमम् ।  
लोकभावविधानज्ञो निजविद्यादिकं तथा ॥३९॥

सर्वं विषयरुपेण भावसारं विचारयेत् ।
गबीजं मङुलं ज्ञेयं फलमत्यन्तभाग्यदम् ॥४०॥

गतद्रव्यादिलाभञ्च तथा लोकवशं फलम् ॥४१॥

दकारकूटे कठिनं रिपूणां विद्रावणं धर्मविणाशकस्य ।
भूमिपतेर्वा मरणं विनाशनं दिव्याङुनाया वररत्नलाभम् ॥४२॥

टकारे दूरगानाञ्च दर्शनं भवति ध्रुवम् ।
उद्वाहः पुत्रसम्पत्तिः षष्ठमासेन लभ्यते ॥४३॥

टान्ते चौरभयं नास्ति तद्द्रव्यागमनं भवेत् ।
विधिविद्याप्रकाशेन शिवे विष्णौ च भक्तिमान् ॥४४॥

धकारकूटे धरणीपतित्त्वं व्याधेर्भयं नास्ति तथा पशोश्च ।
प्रवेशमात्रेण गतौ कलापि जीवादिसम्पत्तिमुपैति लक्ष्मीम् ॥४५॥

रबीजे सिद्धः सम्यक् खगकुलवरो धीरगमनम्
वाञ्छातुल्यं विभवमतुलं राजराज्यप्रियं स्यात् ।
प्रतापं साम्राज्यं सकलहितगोलोकरसता
रसं सर्वं लोकं प्रियमतिसुखं लाभविविधम् ॥४६॥

चकारे वहिनबीजे च जितं सर्वं चराचरम् ।
यथा क्रमेण सर्वत्र गमने भाग्यदं फलम् ॥४७॥

षकारमध्यमे देशे वार्त्तादेशादुपैति हि ।
पत्रिकागमनं कार्यं यः करोति धनं लभेत् ॥४८॥

क्षकारे सख्यभावञ्च मित्रभावं यदा लभेत्
सुप्रीतिश्च भवेत्तस्मात् तदा प्रश्नभयं न च ॥४९॥

स्वराज्ये च भवेत् सौख्यं पुष्पजिज्ञासकर्मणि ।
हसनान्ते तथा वर्णे पाचकं देहि चादिदम् ॥५०॥

यदि स्यादुच्यते नाथ विपरीतफलं न च ॥५१॥

दीर्घीकारे विषयघटना नाथ पादेः मतिः स्याद्       
यद्यारम्भो भवति कुलनं दीर्घजीवी नरेन्द्रः ।
बालापत्यं गमयति मुदा कालदेशाधिकारी
लोकारण्ये सकललुषध्वंसहेतोर्मृगेन्द्रः ॥५२॥

सुखञ्चचार चाष्टमे महाधनेशसन्निधौ
प्रबुद्धवान् भवेन्नरः समाहितो भवेद् ध्रुवम् ।
विचित्रचातुरी यदा महाकुचोरगा प्रभो
प्रहस्यते क्षनादपि प्रभातसूर्यदर्शनात् ॥५३॥

अतीव धैर्यतां लभेत् विचित्रवाग्भवेज्जयम् ।
जयेन सेवितं पुरा पुराण वाक्यलाभकं ।
जगज्जनादिसेवन लभेत् (वा यदि स्वयं?) ॥५४॥

न चाकुलागमं गयागभीरतुल्यसत्फलम् ।
सदा हि पुण्यसागरे गुरोः पदाम्बुजं लभेत् ॥५५॥

विसर्जनीये सुस्वरे समाप्तिकोमलान्वितम् ।
जनागमं धनागमं विशालवेदनान्वितम् ॥५६॥

मनोगतं कुबुद्धिदं स्वकीयबन्धुसज्जनम् ।
विसर्जन कुलक्षणं भवेल्लभेत् कुबन्धनम् ॥५७॥

सकुलं निष्कुलं कान्तं विदुः श्रेष्ठा महर्षयः ।
हास्यसुखे हास्यफलं भावनायां भवेन्नहि ॥५८॥

क्रोधक्रमेणैव तदैव चक्षुषो
र्विकारभावेन हरेत् समस्तम्।
शीर्षे करौ चेत् कलिकालसंयुतं
फलं हि लाभे वध एव भूषणम् ॥५९॥

शेषे वेददले वराभयकरे हारावशब्दापहा
दूरादागमनं भवेद्धि नियतं बालागणैरावृतम् ।
घोरापायाविसर्जनं जलगुणाहलादेन सामोदितं
कूटे कूटघकारवर्गलहरी भासापभासारसे ॥६०॥

जवर्गे जतुकं स्वर्णं जीवनोपायचिन्तनम् ।
जराव्याधिसमाक्रान्तं जीर्णवस्त्रापहारणम् ॥६१॥

ठकारकूटे यदि चक्रवर्ती
भूमण्डले स्यात्पततीति निश्चितम् ।
अन्तःसुख हन्ति यदादिभावे
ठकारमात्रेण रिपूत्तमो भवेत् ॥६२॥

आद्यप्रश्नाक्षरं नाथ तकारं तरुणप्रियम् ।
पापान्धकार पटलध्वंसाय कल्पयते तदा ॥६३॥

नकारमाध्ये यदि प्रश्नवाग्मी जिज्ञासमानो ध्रुवमर्थसञ्चयम् ।
आलापमात्रेण नरा वशा स्युः प्रवेशनं राजकुलेन्द्रसन्निधौ ॥६४॥

भीतो भवति देशे च भयस्थाने न दुःखभाक् ।  
भूषासम्पत्तिवृद्धिश्च भकारकूटमङुले ॥६५॥

लोकानुरागं सर्वत्र आद्यक्षरविचारतः ।
लकारस्यापि लोकेश भार्यादुःखं विमुञ्चाति ॥६६॥

सकारे मैथुनं कान्ताकुलस्य कुलवर्द्धनम् ।
धनवृद्धिर्वंशवृद्धिः सरस्वतीकृपा भवेत् ॥६७॥

वेदपत्रे अकारस्य फलमाहात्म्यनिर्णयम् ।
श्रृणु नाथ प्रवक्ष्यामि सावधानाऽवधारय ॥६८॥

ककारादि क्षरारान्तं व्याप्त तिष्ठति तत्त्वतः ।
अकारेण विना शक्तिर्ज्जायते कुत्र न प्रभो ॥६९॥

अकारे ग्रथितं सर्वं चराचरकलेवरम् ।
यद्यकारमाद्यभागे प्रश्नजिज्ञासने भवेत् ॥७०॥

कुफलेऽपि सत्फलानां सञ्चयं भवति ध्रुवम् ।
शत्रूणां वासहेतोर्धनादीनाञ्चैव सञ्चये ॥७१॥

अन्तर्यजनविद्यासु लोकस्यागमने तथा ।
निजदुःखानुतापे स्याद्यकारविधिरुच्यते ॥७२॥

उकारफलमाहात्म्यं श्रृणु प्रश्नार्थपण्डित ।
उषाकाले चौर्यप्रश्नमुल्लासं मानसोद्धमम् ॥७३॥

उत्तमस्थलवासञ्च उत्कृष्टभोजनादिकम् ।
उल्बणाबुद्धित्पत्तिरुमादेवीपदे मतिः ॥७४॥

रकारलक्षणं चक्षुः शब्दस्य वचनं भवेत् ।
लोचने दर्शनं स्त्रीणां लिखनं दूरसम्भवम् ॥७५॥

प्राप्नोति परमां लक्ष्मीं लोकवश्याय केवलम् ।
लाङुलानां सञ्चयञ्च भूमिलाभो भवेद् ध्रुवम् ॥७६॥

ओकारे राज्यवृद्धिः स्यात् पुत्रवृद्धिस्तथैव च ।
सदा सन्तोषमाप्नोति प्रणवः सर्वसिद्धिदः ॥७७॥

मीने कर्कटराशिवृश्चिकतुले धर्माग्निभानूदये
गेहे वेदविचारणे शुभफलं श्रीलाभगत्युन्नतिम् ।
विद्यावेदकथादिक जयवतामानन्दसिन्धोः फलं
प्राप्नोति प्रतित्तिसिद्धपदवीम मर्त्यो मुदा हर्षनम् ॥७८॥

पत्रप्रमाणं कथितं हीनविद्याविनिर्गमम् ।
पुनः श्रृणु महाकालकलिकालस्य उद्भवम् ॥७९॥

यद्यन्मासस्य प्रथमे तथा चाहनोऽर्भकस्य च ।
दण्डद्वये शुभफलं प्रथमस्य महेश्वर ॥८०॥

तृतीयैकदण्डमात्रं विपरीतफलप्रदम् ।
तत्र दण्डेषु नक्षत्रं यदि चेन्नाशुभं भवेत् ॥८१॥

अश्विन्याद्यष्टनक्षत्रं पूर्वप्रथमपत्रके ।
तत्सुतार विजानीयात् दुष्टदोषे सुखं भवेत् ॥८२॥

आश्लेषाभादिचित्रान्तं द्वितीये दक्षिणे दले ।
तत्फलं विपरीताख्यं सफलेऽपि फलापहम् ॥८३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-04-10T02:13:31.0270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

petrol lubricating system

  • पेट्रोल वंगणन पद्धति 
RANDOM WORD

Did you know?

दत्तकपुत्र घेण्याविषयी कांही धर्मशास्त्रीय निर्णय आहेत काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.