अधुना कुलनाथेश पृष्ठचक्रं पुनः श्रृणु ।
विना ज्ञानेन यस्यैवं पृष्ठभावो न जायते ॥२४॥

यदि पृष्ठचक्रभावं जानाति साधकोत्तमः ।
तदा निजफलं ज्ञात्वा सिद्धिमाप्नोति निश्चितम् ॥२५॥

आनन्दभैरव उवाच
षट्‌कोणं कारयेनमन्त्री विना त्रिकोणसाधनैः ।
तन्मध्ये च चतुष्कोणं तन्मध्ये शादिवर्णकान् ॥२६॥

लिखित्वा विलिखेत्तत्र षडङ्कमध्यदेशतः ।
षडङ्कं दापयेन्मन्त्री दीर्घदीर्घक्रमेण तु ॥२७॥

तदग्रे षड्‌गृहं कुर्यात्तत्राङ्कार्णान् लिखेत्सुधीः ।
ऊद्र्ध्वप्रथमगेहे च कवर्गं विलिखेद् बुधः ॥२८॥

तद्दक्षिणे मन्दिरे च चवर्गं विलिखेद्  बुधः ।
टवर्गं दक्षिण चाधः सर्वाधस्तु तवर्गकम् ॥२९॥

तद्वामे मन्दिरे नाथ पवर्ग वर्णमङुलम् ।
तदूर्ध्वे यादिवान्तं च दक्षिणावर्त्तयोगतः ॥३०॥

अकारादिस्वरान् तत्र मन्दिरे विलिखेद् बुधः ।
यावत् स्वस्थितिर्याति तावत्कालं विचारयेत् ॥३१॥

मेषादिराशिसद्भावं वर्गलेखनमानतः ।
अनुलोमविलोमेन विलिखेत् षष्ठमन्दिरे ॥३२॥

यद्यद्गृहे साध्यनाम चास्ति नाथ स्वरादिकम् ।
एकत्रीकृत्य हरणात यदङ्क प्राप्यते वरम् ॥३३॥

षडङ्केन ततो नाथ हरेदनलसंख्यया ।
यदङ्क प्राप्यते तत्र स राशिस्तत् क्षणस्य च ॥३४॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP