द्वादशः पटलः - महासूक्ष्मफल-ज्ञापकचक्र

पञ्चस्वरविधानम्


वामावर्तेन गणयेत् दशकोणस्थवर्णकान् ।
अनुलोम विलोमेन पञ्चस्वरादिनामतः ॥८॥

यस्मिन्गृहे स्वीयनाम् प्रोप्नोति वेदपारगः ।
तद्गृहावधि प्रश्नार्थं गणयेद्  ग्रहसिद्धये ॥९॥

नवग्रहनवस्थानं वर्णं ज्ञात्वा सुबुद्धिमान् ।
बाल्यभावादिकं ज्ञात्वा यत्र ग्रहस्थितिर्भवेत् ॥१०॥

तन्नक्षत्रं समानीय द्वाराधिकारमानयेत् ।
विना त्रिकोणयोगेन् षट्‌कोणं लिखेद् बुधः ॥११॥

तन्मध्ये अष्टकोणञ्च भित्वा देवगृहान्तरम् ।
तन्मध्ये चापि षट्‌कोणं तन्मध्ये च त्रिकोणकम् ॥१२॥

क्रमेण विलिखेद् वर्णं दक्षिणावर्त्तयोगतः ।
ऊद्र्ध्ववामदेशभागे अ आ इ च कवर्गकम् ॥१३॥

तद्दक्षिणे ई इ युगं टवर्गञ्च लिखेद् बुधः ।
दक्षपार्श्व अधोभागे ऋयुगं तु तवर्गकम् ॥१४॥

तदधो लृ लृ ए ऐ रुपञ्च पवर्गञ्च लिखेद् बुधः ।
तद्वामपार्श्वभागे च ओ औ यरलवान् लिखेत् ॥१५॥

शेषगेहे लिखेदं अः शादिक्षान्तं हि शड्‌गृहे ।
मध्यस्तमादिकोणे च एकाङ्क शार्वकं तनुम् ॥१६॥

रुद्राग्निमूर्तिमनिलं अग्निकोणे लिखेद् बुधः ।
यजमानः पशुपतिमूर्तिषष्ठञ्च दक्षिणे ॥१७॥

महादेवं सोममूर्तिं सप्तमं नैऋते लिखेत् ।
जलमूर्तिभवं युग्मं पश्च्मिमे विलिखेद् बुधः ॥१८॥

उग्रवीरं वायुमूर्तिं वायुकोणे चतुर्थकम् ।
भीमरुपाकाशमूर्तिं पञ्चमं चोत्तरे लिखेत् ॥१९॥

ईशानं सूर्यमूर्तिञ्च ईशाने षड्‌दलं लिखेत् ।
अधःषट्‌कोणमध्ये च षट्‌कोणं विलिखेत्ततः ॥२०॥

ऊद्र्ध्वकोणे ग्रीष्मकालं शिशिरञ्चापि दक्षिणे ।
वर्षाकालमधस्तस्य सर्वाधश्च वसन्तकम् ॥२१॥

शरत्कालं पञ्चकोशे शीतकालञ्च षष्ठ्के ।
त्रिकोणे चापि तन्मध्ये वहिनरुपं वकरकम् ॥२२॥

लिखित्वा गणयेन्मन्त्री वर्णदेवाङ्कवहिनभिः ।
एतच्चक्रं महासूक्ष्मं फलचक्रं विशारदम् ॥२३॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP