TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सामानुष्ठानः - मंत्र ६

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते, या विभागात अनुष्ठानासाठीचे मंत्र आहेत.


मंत्र ६
अथ शतश्लोकी ध्यानम् ।
महाचक्रस्य संनभिमण्डले त्रिगुणात्मनि ॥ सुखं संवीत्क्षीरजलं चिन्तयत् क्षीरसागरम् ॥१॥
श्वेतद्वीपं च तन्ममध्ये शब्दादिविषयात्मकः । जातिब्रह्मवनोपेतंस सद्रलंसिकतांचितम् ॥२॥
मणिरत्नमये तत्र प्रासादे सुमनोहरे । श्वेतसिंहासनं ध्यायेत् श्वेतपद्मोत्तरच्छदम् ॥३॥
शेषं तत्र विजानीयात्सत्यापुच्छमण्डलैः । फणासहस्त्रमुपरि छत्रीकृत्य व्यवस्थितम् ॥४॥
श्वेतहारकिरीटाभ्यां दधानं मुसलं हलम् । रक्ताक्षं श्वेतपुष्पस्त्रक् नीलवस्त्रैककुण्डलम् ॥५॥
तदङे चिंलयेद्देवं नृसिंह पीतवाससम् । सूर्येन्दुकोटिमहसमरुणोत्तरवाससम् ॥६॥
श्वेतद्रिकानित्वपुषं सत्यज्ञानसुखात्मकम् ॥ आसीनं योगपट्टेन चतुर्दष्ट्रं चतुर्भुजम् ॥७॥
प्रादक्षिण्येन दधतमूर्ध्वदक्षिणबाहुके । चक्रें पिनाकभयं वरं करचतुष्टये ॥८॥
तत्पहाटककेशान्तं चन्द्रर्धकृतशेखरम् । सुकेपोलं सुविस्तीर्णललाटफलकोज्वलम् ॥९॥
चन्द्रसूर्याग्निसंकाशं वृत्तोत्फुल्लत्रिलोचनम् । फुरत्कमलकिंजल्कसमरोमांतकर्णकम् ॥१०॥
किंचिदुन्नतमध्येषत्फुल्लनासामनोहरम् । ललज्जिकाप्रपञ्चास्यप्रकाशितरदावलि ॥११॥
श्मश्रुलम्बितसृक‌वाणं किंचिदुकुंचितभ्रुवम् । स्तब्धभ्रूरोपमपक्ष्माणं तिर्यगालंबिकेसरम् ॥१२॥
ककुदं सशिरः कण्ठप्राकुञ्चितकचोच्चयम् । नीलग्रीवं प्रकृत्यात्मा श्रीवत्साङितवक्षसम् ॥१३॥
विस्तीर्णोरस्थललुठत्पुरुषात्मककौस्तुभम् । विष्टब्धपार्श्वपृष्ठास्थिमग्ननाभ्यांकितोदरम् ॥१४॥
तिर्यक्संस्थितजङ्कोरु जान्वाहितकरद्वयम् । तीक्ष्णोग्रनखवज्रालिरोचिर्विद्रातासुरुम् ॥१५॥
तिर्यक्पादतलस्पर्शकृतार्थीकृतवासुकिम् । किरीटहारकेयूरकांचीकटकभूषितम् ॥१६॥
आयुक्तजङ्वाभरणं पादान्तव्याप्तनूपुरम् । रत्नांङुलीयकज्योतिरुभ्दासित दिगम्बरम् ॥१७॥
समकर्णान्तविन्यस्तचारकुण्डलभूषितम् । पञ्चभूतात्मिकां पञ्चरुपां मालां च बिभ्रतम् ॥१८॥
वामारुगतया लक्ष्याश्लष्टं दक्षिणबाहुना ॥ दधत्या वामहस्तेन दाडिमं सुमनोहरम् ॥१९॥
स्वर्णरत्नाभरणया पीतकौशेयवस्त्रया । हिरण्यवर्णयान्यस्तदृशा स्वामिमुखान्बुजे ॥२०॥
नानारुपधरैः शस्त्रैः पृष्ठपार्श्वतैः पृथक् । स्वस्वायुधोद्यतकरैः मूर्तिमभ्दिरुपासितम् ॥२१॥
सचामैर्विरज्यमानं लक्ष्याद्याभिश्च शक्तिभिः । संसाक्ताभ्यनुरक्ताभिरन्याभिः परिवारितम् ॥२२॥
यक्ष पन्नगगन्धर्वविद्याधरवधूगणैः नृत्यवादित्रङीस्तुतिभिः काडिक्षतेक्षणम् ॥२३॥
सुरासुरगणैश्वैवं प्रसादावाप्तदर्शनैः । कृताञ्जलीभिराज्ञार्थं किङ्करैर्दूरतस्थितैः ॥२४॥
अन्तरिक्षगतैः सिद्धैः योगिभिः सनकदिभिः । संस्तूयमानमेकाग्रैर्‌ऋग्यजुःसाममन्त्रगैः ॥२५॥
ऐशानीं दिशामारभ्य महाचक्रदलस्थितैः । पद्मासनैरभिमुखैर्वीक्षमाणं सुदर्शनैः ॥२६॥
नारायणैर्वासुदेवैः केशवाद्यैर्यथाक्रमम‍ । ब्रह्मद्यैर्नारसिंहैश्च स्वस्ववर्णायुधान्वितैः ॥ २७॥
पुरस्ताद्वसुभिस्तस्य रुद्रैर्द्दक्षिणस्थितैः । चक्रस्य पश्चादादित्यैर्विश्वेदेवैर्यथाप्युदक् ॥२८॥
उपोपविष्टैः पादान्ते ब्रह्मविष्णुमहेश्वरैः । स्वस्वायुधकरैरुर्ध्वं कृताञ्जालिपुटधरैः ॥२९॥
तथैवोपस्थितं चन्द्रसूर्याभ्यां पार्श्वद्वययोः महाविभूतिसंस्थानं सर्वदेवात्मकं प्रभुम् ॥३०॥
ब्रह्माज्ञेयः शिरस्तस्य पितरः सर्वषयः सटाः ॥ रुद्रो ललाटं विद्युत्भूरश्विनौ नासिके स्मृतौ ॥३१॥
श्रोत्रे दिशोरथ गण्डौ द्वौ नारदस्तुम्बरुस्तथा । मुखमग्नीरदाभानि दंष्ट्रास्ता कालरात्रयः ॥३२॥
द्यावापृथिव्या वोष्ठो द्वौ रसना तु सरस्वती । वेदा वाचकस्पतिः कण्ठः स्कन्थौ गुहाविनायकौ ॥३३॥
स्तनौ बृहस्पतिः शुक्रः सेन्द्रादेवास्तु बाहवः । सर्पा अङुलयो ज्ञेयाः शस्त्रास्त्राणि तथा नखाः ॥३४॥
लक्ष्मीर्वक्षस्थलं तस्य प्राणो नारायणात्मकः । धर्मात्मानौ चर्म वर्म नाभिर्गगनमुच्यते ॥३५॥
जगच्च जठरं साध्याः पाश्वे द्वे इति हि श्रुतिः । पृष्ठं तु मरुतो देवा लिङं तस्य प्रजापतिः ॥३६॥
उरु द्वौ वसवः प्रोक्तौ जंघे स्वचरणौ तु भूः । सिद्धाः साध्या पुरारोमा नद्यो धमनयः स्मृताः ॥३७॥
अस्थीनि पर्वतास्तस्य हिरण्यं रेत उच्च्यते । क्रोधो रुद्रः समाख्यातो ज्योतिर्भैरवरुपधृक ॥३८॥
शङ्खचक्र गदाशाङ्‍ चक्रं  लोहित मुच्यते । शङ्खचक्रगदालाशार्ङैः शङ्खशङ्खनिभः स्मृतः ॥३९॥
गदा चक्राब्ज शार्ङ्गा गतापीता निगद्यते । सशार्ङगचक्राब्जगदं शार्ङानीलाम्बुदप्रभम् ॥४०॥
बाणा जपानिभानीली शङ्खचक्रधनुर्धराः खड्‌गचक्रगदाशाङ्‍ग खड्‌गो धूम्रः प्रकीर्तितः ॥४१॥
गदाबुद्धिरहंकारः शङ्खं शार्ङगाद्विधा स्थितम् । भूतादींद्रियादींश्च मनश्चक्रं विदुर्बुधाः ॥४२॥
शरास्तानिंद्रियाण्याहुर्बुद्धिकर्मात्मकानि वै । विद्यां खड्‌गं ततैवाहुरविद्या चर्म सूच्यते ॥४३॥
शूलं हलं च मुसलं धवलं त्रितयं स्मृतम् । शूलादि प्रथमं कृत्रा शङ्खचक्रगदाधराः ॥४४॥
चतुर्भजास्ते चक्राद्याः सुवर्नवसनायुधाः । चक्रादि चिह्य मुकुटाः खड्‌गो ज्ञेयोरुनाम्बरः ॥४५॥
अथ षट्‌श्लोकैः कथ्यते ॥ आद्या चतुर्थे चक्रे ऋतुपुरुषाख्यै रसैस्सदलैः । ईमिति पीतांतत्रान्तर्मायया वेष्टिता नेमिः ॥४६॥
वेदाङायत्री जगत्यनुष्टुभं दलं शेषम् । चक्रत्रितयं तत्र ह्रिमित शुक्ला बहिर्मायया ॥४७॥
स्फुरदट्टहासविकटोग्रदंष्ट्रदीप्ताननान् रौद्रान् । पिङोर्ध्वभीमकेशान् भीमक्षान्नवर विप्ररव्यान् ॥४८॥
चक्रधरं सरोजखङगांकुशपाशमुसलगदाः । सह सर्वैराभरणैरमलैर्दधातः सुदर्शनान्वंदे ॥४९॥
असितानसितसुपीतक्षितिलक्ष्मीभ्यां परिभक्तान् । चक्राम्बुजं शङ्खगदादधतो नारायणान्वंदे ॥५०॥
प्रणतोऽस्मि वासुदेवाने चक्रधराम्बुजगदहस्तान् । निखिलविभूषणभूषित सितपुषः सितरोजतान् ॥५१॥६॥
शंखचक्रगदापद्मैः केशवः कनकपभः । क्षीरांभोब्जगदाचक्रधरैः नारायणः स्मृतः ॥५२॥
माधवः शङ्खचक्राब्ज गदाहस्तोजपनिभः मनःशीलाभो गोविन्दो गदापद्मदरादिभिः ॥५३॥
सपद्मशङ्खदिगदो विष्णुश्चालक्तप्रभः । शङ्खचक्रगदापद्मैरर्जुनो मधुसूदनः ॥५४॥
सगदाशङ्हचक्राब्जो नीलाब्जाभस्त्रिविक्रमः । रक्तश्चक्रगदापद्मशङ्खैर्वामन उच्यते ॥५५॥
चक्रीदारीगदीसाजश्रीधरः कुमुदप्रभः ॥ काश्मीराभो ह्रषीकेशः सचक्राब्जदरोगदी ॥५६॥
पद्मचक्र गदाशङ्खै पद्मनाभो जनप्रभः । दामोदरः शङ्खगदाचक्राब्जैः क्षीरसन्निभः ॥५७॥
स्फटिकाभो वासुदेवः सङ्खाद्यब्जगदाधरः । संकर्षाणोदराब्जाद्दिदरैः कनकसन्निभः ॥५८॥
शङ्खागदीसाब्जचक्री प्रद्युम्नो वज्रसन्निभः । गदीशङ्खी साब्जचक्रस्त्वनिरुद्धो सितप्रभः ॥५९॥
ब्रह्माद्या नारसिंहास्तु स्वस्वलक्षणलक्षिताः । नृसिंहाकारवदनाः सर्व एव त्रिलोचनाः ॥६०॥
दधाति स्त्रुवरस्त्रुवौ ब्रह्माविष्णुश्चक्रसङ्खकम् । महेश्वरः शूलचापौ पुरुषः शङ्खचक्रभृत् ॥६१॥
दद्याति चेश्वरः शूलं डमरुं च यथाक्रमम‍ । लेखनीं पुस्तकं चेति दधाति द्वे सरस्वती ॥६२॥
पद्मद्वयं दधाति श्रीगौरि नीलोत्पलद्वयम् । प्रकृतिश्व तथा विद्या पाशाङ्कुशधरो शुभे ॥६३॥
अभीतिवरदाः सर्वे धवलास्ते चतुर्भुजाः । पुरुषं द्विभुजं केचित् प्रवदन्ति निरायुधम् ॥६४॥
एकादशोत्तरे विश्वरुपधृक् चक्रशाङ्खिनः । ॐ काराङकित वक्षांस्तु पीतओंकार उच्यते ॥६५॥
ओङ्कारानन्तरं मात्राश्चतस्त्रस्तस्य संस्थिताः । वेदाः साङा सशाखाश्च विज्ञेयास्तदनस्तरम् ॥६६॥
पञ्चाग्नेस्ततो ज्ञेयाः सप्तव्याह्रतयस्तथा । लोकपालास्ततश्चाष्टौ वसवोष्टौ ततः स्मृताः ॥६७॥
रुद्राः परं ततो ज्ञेयाश्चादित्यास्तदनस्तरम् । अष्टौ ग्रहास्ततः पश्चान्महाभूतानि पञ्च च ॥६८॥
कालः पाशाङ्खशीकालःश्चक्रं शङ्खीमनुस्मृतः । धूम्रः पाशाङ्खशी  मृत्युः श्यामौ ज्ञेयौ यमान्तकौ ॥६९॥
तौ पाशमुन्दरधरौ प्राणश्च क्रदरीसितः । रक्ताब्जद्वयवान् रक्तसूर्यः सोमस्तु पाण्डुरः ॥७०॥
दधात्यमृतस्म्पूर्णं कुण्डं दण्डं च शोभनम् । स विराट्‌ पुरुषो जीवः शुक्लश्चक्रदरायुधः ॥७१॥
सर्ववर्णायुधैः सर्वे चेतनाचेतनात्मकम् । ब्रह्मादिशक्तश्चात्र सरस्वत्यादयः स्मृताः ॥७२॥
अर्थमात्राश्चतस्त्रस्ता ॐ कारस्यैव शक्तयः । सप्तव्यह्रतयोग्नीनां वेदानां चैव शक्तयः ॥७३॥
वसवो हरिताः सर्वे ते ज्ञेया खङुचर्मिणः । शूलखड्‌गाङिनो रुद्राः शुक्ला भस्मकपर्दिनः ॥७४॥
आदित्या लोहिताः सर्वे रक्ता अद्वयधारिणः । विश्वेदेवाः सुविशदाः सर्वे बाणधनुर्धराः ॥७५॥
ब्रह्मा रक्तः सुवर्णभो विष्णुः स्यात् श्यामसन्निभः । महेशः शुक्लवर्णश्च विज्ञेयः सिंहवक्त्रवः ॥७६॥
सर्वे चतुर्भजास्तत्र केषांचद्विभुजः शशी । सकलावरनातीतं निरालम्बन - भवनम् ॥७७॥
नृसिंह भावयन्त्येते तन्मयास्तद्विभूतयः । मंत्रमूर्तिधरस्यास्य साङा पादाः श्रुतीरिताः ॥७८॥
ह्रत्शिरस्तु शिखा चैव कवचं च यथाक्रमण । समग्रं च तथा मन्त्रमस्त्रंन्नेत्रविवर्जतम् ॥७९॥
शस्त्राणि श्रीनृसिंहस्य पूर्वोक्तानि प्रचक्षते । अस्त्रं तदेव देवस्य महाचक्राख्यमीरितम् ॥८०॥
प्रणवस्य तु या मात्रास्ताभिस्तेषु ह्रदादिषु । भूर्भुवः स्वःस्त्रयो लोकाः ब्रह्मलोकस्तदाश्रयः ॥८१॥
अग्न्यादायस्तथा सूर्यः सोमब्रह्मादयः सुराः । चतुर्षु मन्त्रपादेषु समात्रेषु व्यवस्थिताः ॥८२॥
ऋग्यजुः सामाथर्वाणः साङा शाखाः समन्विताः । मन्त्रस्य पादाश्चत्वार इत्याथर्वनी श्रुतिः ॥८३॥
प्रणवः प्रथमः प्रोक्तो ब्रह्मरुपः सनातनः । रक्तब्जद्वयंवान् रक्तो घृणिः सूर्यो द्वितीयके ॥८४॥
तृतीये तु यजुर्लक्ष्मीश्चार्वङी पद्मधारिणी । तुर्ये नृसिंहगायत्री नृसिंहाकार - धारिणी ॥८५॥
उक्तान्यंगानि मन्त्रस्य साम्ना श्रुतिनिदर्शनात् । ज्ञातव्यं देवदेवस्य ध्यानं सर्वोत्तमोत्तमम् ॥८६॥
उद्वहणातीह भूतानि सर्वाण्युदृह्यतेपि च । सर्गै विसर्गैर्वासेश्च यस्तंवर्म नमाम्यहम् ॥८७॥
विरामयति भूतानि सर्वाणि विरमत्पि । सर्गै विसर्गैर्वासैश्च यस्तं वीरं नमाम्यहम् ॥८८॥
स्वमहिम्ना जगत्सर्वं व्याप्नोति व्याप्यतेपि च । व्यतिषिक्तो महादेवो महाविष्णुं नमाम्यहम् ॥८९॥
जलन्यस्तेजसा स्वेन ज्लालन्नखिलं जगत् । अशेषमूर्तिर्विश्वात्मा ज्वलन्तं तं नमाम्यहम् ॥९०॥
सर्वतोक्षिश्रुतिघ्राणं सर्वतः पाणिपादकम् । सर्वैन्द्रियैरसंबंधं प्रपद्ये सर्वतोमुखम् ॥९१॥
जगध्दितं प्रपन्नोस्मि ह्यजितं वीर्यवत्तमम् । नृवच्च सिंहवच्चैव नृसिंह परमेश्वरम् ॥९२॥
यस्य भीमस्य देवाद्याः सर्वे भीत्यातिभीषणम् । रुपं दृष्ट्‌वा पलायन्ते भीषणं तं नमाम्यहम् ॥९३॥
भद्रं ददाति भक्तभ्यो यः सदा भद्ररुपधृक् । भद्राचारस्य गोप्तारं भद्र तं प्रणमाम्यहम् ॥९४॥
स्मृत एव हि भक्तानां यो हिंस्त्रान्मारयत्यजः । मृत्युऒ चेवापमृत्युं च मृत्युं मृत्युं नमाम्यहम् ॥९५॥
भक्त्या नमन्ति यं सर्वे देवाः सब्रह्य वादिनः । भुक्तिमुक्तिप्रदं सर्व नमस्कार्यं नमाम्यहम् ॥९६॥
यस्यास्मा सर्वमेवेदं योन्नः सर्व शरीरिणाम् । सर्वभूतेषु चात्मानं सर्वात्मानं नमामि तम् ॥९७॥
क्षीरोदार्णवमध्यस्थ योगिध्येयं परं पदम् । अमितद्युतिमीशानं प्रपद्ये तं पिनकिनम् ॥९८॥
ऋतं सत्यं परं ब्रह्म पुरुषं चोर्ध्वतसं । प्रपद्येहं विरुपाक्षं शङ्करं नीललोहितम् ॥९९॥
उमापतिं पशुपतिं तथा चैवामितद्युतिम् । ईशानं सर्वविद्यानाम नरकेसरिविग्रहः ॥१००॥
ईश्वरं सर्वभूतानां प्रपद्ये कृष्णप्ङलम् । तस्मात्तत्सच्चिदानंदमय्म ब्रह्मस्वरुपिणम् ॥ ॥१०१॥
स्मृते सकलकल्याणं भाजनं यत्र जायते । पुरुषस्तमज नित्यं व्रजामि शरणं हरिम् ॥१०२॥
यन्नामकीर्तनं पुसां सद्यो दहति पातकम् । करोति चाक्षयं पुण्यं प्रपद्ये ह्यनघवृषम् ॥१०३॥
यस्यावताररुपाणि सदार्चन्ति दिवौकसः । अजानन्तः परं रुपं तं वन्दे पुरुषोत्तेमम् ॥१०४॥
यस्य पादोदकैः स्नात्वा यस्योच्छिष्टानि भुञ्जते । नित्यं भागवता भक्त्या तं वन्दे सात्वतः प्रियम् ॥१०५॥

अथ दशकश्लोकैः फलश्रुतिः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-03-24T06:17:32.0600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मिरग

  • पु. ( कु . ) मृगनक्षत्राचे दिवस . [ मृग अप . ] मिरग्या - पु . ( व . ) मृगनक्षत्रांत उत्पन्न होणारा सपक्ष किडा ; मृगकिडा . 
RANDOM WORD

Did you know?

हिंदू धर्मात ३३ कोटी देवता आहेत काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site