TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

दक्षिण प्रयाग माहात्म्यः - षष्ठोऽध्यायः

श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते.


षष्ठोऽध्यायः
देव्युवाच ।
लक्ष्मीतीर्थस्य महिमा श्रुतो देव मुखात्तव ।
अन्येषां तीर्थवर्याणां माहात्म्यं वक्तुमर्हसि ॥१॥

श्रीशिव उवाच ।
लक्ष्मीतीर्थात्‍ पृष्ठभागे धनुषां पंचविशतिः ।
पद्मतीर्थं महापुण्यं सर्वेषां सिद्धिदायकम्‍ ॥२॥
भगवद्दर्शनानंदविकलायाः कराग्रतः ।
पद्माया गलितं पद्मं पद्मतीर्थं ततो विदुः ॥३॥
कुबेरो यत्र संप्राप्तो यतः पद्मनिधिं पुरा ।
अद्यापि पद्मतीर्थस्य सेवका न दरिद्रिणः ॥४॥
वामे पद्मनिधेः पूर्वे भागे शंखनिधिः स्थितः ।
गदातीर्थं पवित्रं च विद्यते श्रुणु पार्वति ॥५॥
चतुर्णामिहतीर्थानां महिमा दुर्लभः कलौ ।
स्मरणात्सर्वपापघ्नो दर्शनान्मुक्तिदो मतः ॥६॥
देवस्य वामे पुरतो गदातीर्थमनुत्तमम्‍ ।
गदाधरो यत्र देवो गयापुण्यं ददात्यसौ ॥७॥
नीरायां लक्ष्मीतीर्थात्‌ धनुषां पंचविशतिः ।
गदातीर्थं गयायास्तु कोटिश्राद्धफलप्रदम्‍ ॥८॥
पितरः सर्वदेच्छंति गदातीर्थोदकक्रियाम ।
श्राद्धस्याकल्पकी तृप्तिराकल्पं तीर्थं हि स्मृतम्‍ ॥९॥
गदातीर्थे कृतस्नानतर्पणश्राद्धदानतः ।
मनुजो लभते सिद्धिं प्रसादान्नृहरेः प्रिये ॥१०॥
पुरा कश्चिद्‌ द्विजश्रेष्ठो दाक्षिणात्यः शुचिव्रतः ।
पितृणां निष्कृति प्रेप्सुर्गच्छस्तीर्थ व्रती गयाम्‍ ॥११॥
आगतो नीरया यत्र गदातीर्थं सुसंस्कृतं ।
कृतवान्‍ स्नानदानादि श्रद्धायुक्तः पितृव्रतः ॥१२॥
तावद्ददर्श दिव्यांगान्‍ विमानैश्चरतो दिवं ।
स्वपितृन्परिसंतृप्तान्‍  साधु साध्विति वादिनः ॥१३॥
त ऊचु र्ब्राह्मणवरं पुत्र ते तारिता वयं ।
गदातीर्थप्रभावेण गच्छामो हरिमंदिरम्‌ ॥१४॥
गृहं त्वं गच्छ तीर्थानि कृतानि नो विनिष्कृतिः ।
अधुना प्रयोजनं नास्ति वत्स तीर्थाटनस्य ते ॥१५॥
श्रुत्वा पितृवचोऽभीक्ष्णं विस्मितोऽभूद्‌ द्विजोत्तमः ।
गदातीर्थे चिरं स्थित्वा देहांते हरिमाप सः ॥१६॥
गदातीर्थात्‍ पश्चिमतो धनुषामेकविंशतिः ।
पिशाचमोचनं नाम तीर्थं पावनमस्ति हि ॥१७॥
तत्र किंचित्पुरावृत्तं देवि ते कथयाम्यहं ।
विष्णुशर्मेति विप्रोऽभूदथर्वण इति स्मृतः ॥१८॥
स्मरन्नरहरिंनित्यं सदाचारो दयान्वितः ।
कदाचित्काशिदां द्रष्टुमीयुषां सहचारिणाम्‍ ॥१९॥
संगाद्नच्छन्पथि श्रांतो विंध्याद्रेरधरे स्थितः ।
तावदग्रेऽभवत्तस्य धूमराशिर्महोल्बणः ॥२०॥
चक्षुषा केवलं वृक्षानुत्तुंगानपि यो दहन्‌ ।
तन्मध्ये ददृशे तेन विप्रेण सहसा तदा ॥२१॥
अस्थिमात्रैकसंच्छन्नो दीर्घग्रीवा भयानकः ।
पिंगश्मश्रु र्धूम्रत्वचः प्राणिनां प्राणहारकः ॥२२॥
बहुभिः परिनृत्यद्भिः परीतः प्रेतवृंदकैः ।
भीषयन्‍ पथिकान्‍ खादन्‍ विप्राग्रेऽवस्थितः खलु ॥२३॥
विष्णुशर्मा नृसिंहेति जगदोच्चैः सहानुगैः ।
स तत्तीर्थोदकं तेषामुपरि प्राक्षिपत्तदा ॥२४॥
तज्जलस्पर्शमात्रेण नृसिंहनामकीर्तनात्‍ ।
सद्यो दिव्यतनुर्भूत्वा विमानस्थोऽभवन्मुदा ॥२५॥

प्रेत उवाच ।
मोचिता भवता विप्र तीर्थांबुस्पर्शनाद्वयं ।
गच्छामो विष्णुभवनं प्रसादात्तव पावनं ॥२६॥
दिव्यं ज्ञानं ममोत्पन्नं नृसिंहाख्यास्मृतेर्वरं ।
इदानी पृच्छ यद्वांच्छा सर्वें ते कथयाम्यहम्‍ ॥२७॥

विष्णुशर्मोवाच ।
कस्त्वं प्रेतवपुः पापात्कस्माज्जातमिदं प्रभो ।
जलस्य कस्य संस्पर्शाद्‍ गतोऽसि हरिमंदिरम्‍ ॥२८॥

प्रेत उवाच ।
पुराहं राजर्यस्य भोजनाम्नो यशस्विनः ।
पुरोहितोऽभवं विप्रो वेदवेदांगपारगः ॥२९॥
एते सहाय्यका विप्रा मम शास्त्रविशारदाः ।
एतैर्मया पराभूता बहवः पंडितोत्तमाः ॥३०॥
छलेन परिहारेण वृत्त्या ते परिहारितः ।
राज्ञा न पूजिताः केचिन्मया तृणसमाः कृताः ॥३१॥
दानव्रतपोहोमैरर्चयित्वा धनं बहु ।
अदांता उग्रकर्माणो ब्रह्मद्वेषेण सर्वदा ॥३२॥
प्राप्ता पापीयसीं योनिः पैशाचें स्मृतिनाशिनीं ।
भवता मोचिता ह्यद्य जलस्पर्शेण सन्मते ॥३३॥

विष्णुशर्मोवाच ।
कूतोऽस्य महिमा साधो जलस्य प्रेतमोचने ।
त्‌वर्णय यदि कृपा मयि ते स्यादलौकिकी ॥३४॥

प्रेत उवाच ।
साधो य एश कलशो हस्ते ते वर्ततेऽधुना ।
पिशाचमोचनजलस्यैतस्मिन्नर्द्रताभवत्‌ ॥३५॥
तत्संगात्पावनं वारि बभूव कलशेस्थितं ।
येन प्रेतत्वमुत्सृज्य प्राप्ता दिव्यां गतिं द्विज ॥३६॥
गदातीर्थाग्रतो दीप्तं वर्तते तीर्थमुत्तमं ।
पिशाचमोचनं नाम येन संमोचिता वयम्‍ ॥३७॥
पिशाचमोचने स्नात्वा तर्पयित्वा पितृन्‌ द्विजान्‌ ।
उद्धेन्नकांभाघेः पितृन्‌ प्रेतांश्च पूर्वजान्‌  ॥३८॥
नित्यं परिचरेद्यस्तु तीथं पैशाचमोचनं ।
तस्याज्ञानपिशाचत्वं सद्यो नश्यति बंधकृत्‌ ॥३९॥
पुरात्र हरिणा दत्तो लोकानां हितकाम्यया ।
पिशाचमोचने मुक्तिः वरः कामफलप्रदः ॥४०॥
असंस्कृताः संस्कृतास्तु संस्कृता मोक्षभाजनाः ।
न तथान्यच्छोभते तीर्थं यथेदं तीर्थमुत्तमम्‍ ॥४१॥
अत्राहं गुरुरुपेण स्थित्वा स्नानार्द्रवर्ष्मणां ।
चित्ते दिशामि तज्ज्ञानं येन बंधाद्विमुच्यते ॥४२॥
दूरस्थेनापि पापेन स्तुतिः पैशाचमोचिनी ।
श्राव्या श्रद्वान्वितो भूत्वा मत्कृता मोक्षप्राप्तये ॥४३॥
इत्युक्त्वा नृहरिस्तत्र बभूवांतर्हितो द्विज ।
नीरा तस्योपरिगता पुण्या या नृहरेस्तनुः ॥४४॥
अधुना त‌वरं तीर्थं तीर्थानामुत्तमं खलु ।
वर्तन्ते दिव्यवपुषो यत्र स्नात्वा द्विजोत्तम ॥४५॥

श्रीशिव उवाच ।
श्रुत्वा प्रेतस्य वचनं द्दष्टवा गतिमनुत्तमां ।
विष्णुशर्मा विस्मितोऽगात्पुनर्नीरातट्‍ शुचिः ॥४६॥
पिशाचमोचने स्थित्वा स्तुत्वा नरहरिं तदा ।
मुक्तोऽभव्‌विष्णुशर्मा भवबंधात्तदा प्रिये ॥४७॥
पिशाचमोचनाख्यायं ते शृण्वंति नरोत्तमः ।
तेऽपि मुक्ता भवोद्वंधाद्यांति विष्णोः परं पदं ॥४८॥
इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे पिशाचमोचनतीर्थवर्णनं नाम षष्ठोऽध्यायः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-03-23T04:35:35.8230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

brainstorming

  • पु. सामूहिक कल्पनाविलास 
RANDOM WORD

Did you know?

मंत्राग्नी आणि भडाग्नी मध्ये म्हणजे काय? ते केव्हां देतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site