TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

दक्षिण प्रयाग माहात्म्यः - पंचमोऽध्यायः

श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते.


पंचमोऽध्यायः
श्रीशिव उवाच ।
देवस्य वामभागेऽस्ति लक्ष्मीतीर्थमनुत्तमम्‍  ।
तस्य प्रमाणं व्यायामः शतचापमिदं विदुः ॥१॥
पुरा लक्ष्म्यातपस्तप्तं तत्र दिव्यं समाशतं ।
चांचल्यदोषशांत्यर्थं प्रसादान्नृहरेः प्रभोः ॥२॥
ततः प्रसन्नो भगवांस्तस्यै वरमदाच्छुभं ।
प्रिये खिन्नासि तपसा दुश्चरेणापि योगिभिः ॥३॥
तवाभीष्टं ददाम्याशु वरं वरय मंगले ।
चांचल्यमयि ते नास्तु स्वस्था तिष्ठाद्य वक्षसि ॥४॥
भार्गवे वासरे ये त्वामत्रस्तोष्यंति भक्तितः ।
देवीसूक्तेन वा मंत्रैः पौराणैरागमोद्भवैः ॥५॥
तेषां हराम्यहं शश्वद्विपदः संपदोऽर्पये ।
मोक्षलक्ष्म्या विशेषेण पात्रं ते स्तुर्न संशयः ॥६॥
इत्युक्त्वालिंग्य कमलां तूष्णीमासीच्छुचिस्मितः ।
प्रतीक्षमाणः पद्मास्य प्रीतोऽभूद्वचसा तदा ॥७॥

लक्ष्मी उवाच ।
सर्वज्ञ करुणांभोधे नाथ सिंहाननाच्युत ।
वरदश्रेष्ठ यदि प्रीतो देहि मे यदभीप्सितम्‍ ॥८॥
अस्मिंस्तीर्थे कृतस्नानदानतर्पणभोजनाः ।
तव मंत्रजपासक्ताः सर्वे संतु महोदयाः ॥९॥
नित्यं त्वदंकरमणीं ये स्मरंति महालसां ।
तेषामनन्यमनसां मुक्तिः करगता भवेत्‍ ॥१०॥
भूयादत्र महाँल्लाभः सर्वदा सिद्धिसंभवः ।
योगमंत्रपोदानव्रतानां त्वत्प्रसादतः ॥११॥

श्रीभगवानुवाच ।
एवमस्तु विशालाक्षि तीर्थेऽस्मिन्सर्वदा प्रिये ।
सदा स्थास्यामि भवतीमंकेकृत्वा वरानने ॥१२॥
सिद्धयः संतु योगाद्या मोक्षसिद्धिरपि प्रिये ।
मुक्तितीर्थं सिद्धितीर्थं लक्ष्मीतीर्थं मनोहरम्‍ ॥१३॥
नृसिंहतीर्थमित्याख्या भूयादस्य वरानने ।
अष्टपीठानि परितो भविष्यंत्यस्य गुप्तये ॥१४॥
पूर्वे कोल्हापुरं नाम कामाक्षं नाम दक्षिणे ।
पश्चिमे विरजं पीठं कामरुपं तथोत्तरे ॥१५॥
त्रिकूटं हिंगुलासिंधुजालंदरमितिस्फुटं ।
कोणेषु तानि स्थास्यंति नानासिद्धिप्रदान्यलम्‍ ॥१६॥
कलौ कलुषबुद्धीनां नूनं गूढं भविष्यति ।
लक्ष्मीतीथस्यमहिमा न केनापि क्षमोऽवितुम्‌  ॥१७॥
अत्राहं त्वं सदा गूढं तिष्ठामो योगसिद्धये ।
लक्ष्मीनृसिंहमनुना पूजितौ संस्तुतौ नतौ ॥१८॥

श्रीशिव उवाच ।
इत्युक्त्वा सरमो देवस्तत्रैवांतरधीयत ।
तदारभ्याभवत्तीर्थं सर्वेषां सर्वसिद्धिदम्‌ ॥१९॥
कालेन नीरा संयाता तस्योपरि शुचिस्मिते ।
ततो नारायणं नाम तीर्थं विद्वभ्दिरुच्यते ॥२०॥
कदाचिदत्र संयातो वणिक्कश्चिद्धनी महान्‍ ।
स्नात्वा विचारयामास कुतो मे संपदीदृशी ॥२१॥
न मयाराघितः शंभुर्न तया तर्पिता द्विजाः ।
न मया तोषितो विष्णुर्दीनानाथंघपालनात्‍ ॥२२॥
न तीर्थेषु न पात्रेषु न पर्वसु कदाचन ।
काकिणीमात्रमप्याहो दत्तमन्यस्य का कथा ॥२३॥
इत्थं चिंतातुरस्यास्य पुरतः कश्चिदागतः ।
सिद्धोऽवधूतो दिग्वासा दीप्तनेत्रो महाप्रभः ॥२४॥
तं प्रणम्यादरेणासौ पृष्टवान्यद्विचिंतितं ।
ब्रूहि योगिन्‌ कथं संपज्जाता मे धनदोपमा ॥२५॥
प्रहस्याह महायोगी का ते संपद्‌ विवर्णय ।
स प्रोवाच महाभाग श्रूयतां यदि रोचते ॥२६॥
एतेऽष्टौकोट्योऽर्थानां कोट्योऽश्वतरीगणाः ।
महामरकता नीला गारुडास्तादृशा मम ॥२७॥
मुक्ताफलानां नवतीः कोटीनां मद्वहे तथा ।
सत्येवं मणयोऽनंता वाससां पर्वता इमे ॥२८॥
धातूनां शिखराण्याह दशलक्षं गृहे मम ।
तादृशाः कोटिगुणिताः संभाराः संति हे प्रभो ॥२९॥
धान्यक्षेत्रगजानीकस्यंदनादिभिरुज्जवलाः ।
सर्वदेशेष्वहं मान्यो घनाढ्यानां महत्तमः ॥३०॥
केन पुण्येन संजातो न जानाम्यत्रकारणं ।
स प्रोवाच महाभाग कथ्थतां कृपया हि तत्‍ ॥३१॥

अवधूत उवाच ।
पुरा त्वं याचको दीनो विप्रो जन्मनि सप्तमे ।
यावज्जन्म परान्नेन तुष्टो लुब्धोऽतिशोच्यधीः ॥३२॥
स कदाचिच्चरन्नुर्वीं नीरातीरमुपागतः ।
एकादश्यां फलाहारमपिनो लब्धवानिह ॥३३॥
क्षुघातुरस्य दीनस्य रात्रिन्नैककांक्षिणः ।
जागरेण व्यतीता सा भ्रमतो देवमंदिरे ॥३४॥
प्रसंगाद्दैवतो रात्रौ पूजानरहरेरलम्‍ ।
भक्तैः कृतालोकिता ते नामानि शृण्वतो हरेः ॥३५॥
प्रभाते संगमे स्नात्वा लक्ष्मीतीर्थमुपागतः ।
पल्लवस्थान्यवान्प्रादाः कस्मैचिद्‍ द्विजलिंगने ।
ततः कालवशं यातः प्रापितो यमसन्निधौ ।
तावद्यमेन प्रयता गच्छ गच्छेति भाषितः ॥३७॥
तदैव दक्षिणे देशे द्राविडेषु नरेश्वरः ।
जातस्त्वं सर्वभोगाढ्यः पंचवारं सुजन्मसु ॥३८॥
पंचदक्षिणा रात्रौ भ्रमता विहितास्त्वया ।
तेन पुण्येन राजेंद्रः पंचजमनि भोगवान्‍ ॥३९॥
तेन गंतासि वैकुंठं यतो नावर्तनं पुनः ।
अधुनोपोषणं यत्ते कृतमेकादशीदिने ॥४०॥
पूजादर्शनपुण्येन प्राप्तवानद्य सम्मतिं ।
यवदानेन संपत्तिं गतोऽसि वणिजांपते ॥४१॥
अत्राण्वपि हि यत्‍ किंचित्सुकृतदुष्कृतं कृतं ।
न तस्यान्तोऽस्ति कल्पांते यत्रोदाहरणं भवान्‍ ॥४२॥

श्रीशिव उवाच
इत्युक्त्वा स तु योगींद्रो दत्तात्रेयो महामुनिः ।
तत्रैवांतर्दधे सोऽपि विस्मयं परंम गतः ॥४३॥
दत्वा सर्वस्वमार्यभ्यो यज्ञैष्ट्‌वा सुदक्षिणैः ।
तत्रैव संस्थितो निन्ये शेषमायुरकिंचनः ॥४४॥
जितेंद्रियो जितश्वासो ध्यायन्नरहरिं ह्रदि ।
ददर्शाग्रे स्थितं दिव्यं विमानं तैजसं महत्‍ ॥४५॥
सद्यश्चतुर्भुजोपेतो दिव्यालंकारभूषणः ।
दिव्यवेषो विमानं तदारुरोह मुदायुतः ॥४६॥
स वैकुंठे हरेर्दासो विष्णुदास इतीरितः ।
अद्यापि राजते श्रीमान्‍ विष्णुचिन्हैलंकृतः ॥४७॥
इति सूत्रेण महिमा लक्ष्मीतीर्थस्य वर्णितः ।
अस्य स्मरणमात्रेण महापापैः प्रमुच्यते ॥४८॥
इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे श्रीलक्ष्मीतीर्थप्रभावर्णनं नाम पंचमोऽध्यायः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-03-23T04:34:49.2500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

tetrahedral hypothesis

  • चतुष्फलकी परिकल्पना 
  • = tetrahedron hypothesis 
RANDOM WORD

Did you know?

नजर लागते किंवा दृष्ट लागते म्हणजे काय? त्यावर उपाय काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site