दक्षिण प्रयाग माहात्म्यः - चतुर्थोऽध्यायः

श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते.


श्रीदेव्युवाच ।
प्रल्हादो दैत्यपुत्रो यो भविष्यति महातपाः ।
तदाख्यानं कथ्म देव देवाविर्भावकारणम्‍ ॥१॥
दैत्या वै राजसाः क्रूरा स्तब्धाः पंडितमानिनः ।
तदुद्भवेषूपशमस्तापसानां सुदुर्लभः ॥२॥

श्रीशिव उवाच ।
पुरा वैकुंथनाथस्य दूतौ देववर्चितौ ।
जयोऽथ विजयो नाम्ना प्रसिद्धो द्वारपालकौ ॥३॥
तयोः कदाचित्कुपिता ब्रह्मणो मानसाः सुताः ।
शापं ददुर्निषिद्धा ये हरिसंदर्शनोत्सुकाः ॥४॥
यातं युवां महाघोरां चासुरीं योनिमुल्बणां ।
त्रिभिर्जन्मभिरायातं पुनः पदमनामयम्‍ ॥५॥
जनिं प्राप्य दितिसुतौ हिरण्यकशिपुस्तथा ।
हिरण्याक्ष इति ख्यातौ भवितारौ सुदुर्जयौ ॥६॥
हिरण्यकशिपुः कर्ता राज्यं त्रैलोक्यवंदितः ।
हर्ता क्षोणीं हिरण्याक्षो वराहेण हतो रणे ॥७॥
हिरण्यकशिपुः स्वस्य भ्रातुः प्रेतस्य दुःखतः ।
तप्ता तपो बहुसमा विसृज्य सकलां श्रियम्‍ ॥८॥
तावदिंद्रोऽमरैः सार्ध प्रभज्यं तत्पुरीं खलु ।
कयाधुं तस्य दयितामपहर्ता पुरीं हटात्‍ ॥९॥
प्रजावती नारदेन दृष्टा पथि शुचातुरा ।
नीयमाना सुरेंद्रेण मुनिना याचिता भवेत्‍ ॥१०॥
तस्यै सगर्भमुद्दिश्य ज्ञानं गुह्यं सधर्मकं ।
ददाति सादरात्सूनोरुदयाय महौजसाः ॥११॥
कालं नेष्यत्याश्रमेऽस्य कांक्षंती दितिजागमे ।
भजंती मुनिशार्दूलं नारदं पितृवत्सती ॥१२॥
विधेर्वरात्स कालेन आयास्यति पुरिं पुनः ।
प्रसोष्यति कयाधुर्वै तनुजांश्चतुरः प्रिये ॥१३॥
प्रल्हादो भगवद्दासोऽनुगृहीतो महर्षिणा ।
भविष्यति सदाकाले करिष्यति तपो महत्‍ ॥१४॥
नीराभीमांबुसंसंयोगे स्तुवानो मे पुरोऽर्भकः ।
आयास्यति कृपाभारादुपदिष्टो महर्षिणा ॥१५॥
प्रणतं सगुणं बालं प्रल्हादं सुंदरोत्तमं ।
अनुग्रहीष्यति गुह्येन मंत्रेण मुनिसत्तमः ॥१६॥
करिष्यति तदा बालो नृहरेः स्तवनमिच्छया ।
प्रतिमां सैकतीं तस्य द्विभुजां सुंदरां प्रिये ॥१७॥
तुष्टः सिंहाननो देवः प्रितिमायां विशन्‍ हरिः ।
आविर्भावष्यति हि मा भैषीर्बालेति संवदन्‌ ॥१८॥
स ईशाश्वासितः प्रेम्णा गददस्वरसंकुलः ।
अश्रुभिर्मीलिताक्षोऽमुं संनस्यति भावतः ॥१९॥
उत्थाप्यालिंग्य विश्वेशः कृपां तस्मिन्करिष्यति ।
स स्वामिगात्रस्पर्शेण पूतो ज्ञानमवाप्स्यति ॥२०॥
पूजयित्वा जगन्नाथं नृसिंहं वरदेश्वरं ।
स्तोष्यति स्वस्थभावेन परमानंद सुन्दरम्‌  ॥२१॥

प्रल्हाद उवाच ।
जयदेव जगन्नाथ सर्वजीवनशेवधे ।
सुधालोकलवामोद जीविताखिलवृत्तिद ॥२२॥
जय मायामहोर्मीणामाकरानंदसागर ।
ब्रह्मांडबुद्धुदोन्नद्वविलासाकुलरोधस ॥२३॥
जयानंत महाभाग्य मोक्षलक्ष्मीम महीं कुरु ।
ब्रह्मभावफलोद्यानचिदेकामरपादप ॥२४॥
जय काममहावल्लीसंघरोपितसत्फलैः ।
विस्तृतावनिसौराज्य सदेकानंदगव्हर ॥२५॥
जय जीवमहामोहबंधध्वंसनपंडित ।
जय देव वरेशान वरदाधीश सत्पते ॥२६॥
जय मोहातिमायेश कालकाल नृसिंह भोः ।
जय ग्रस्तमहामृत्यो प्रसीद करुणानिधे ॥२७॥
त्वमेकः स्तुतिरीशानः स्तोता स्तुत्यस्त्वमीश्वरः ।
न जाने त्वत्परं देवं भूमौ सदसदात्मकम्‍ ॥२८॥

श्रीभगवानुवाच ।
प्रल्हादार्भकवरश्रेष्ठ वरदोऽहं वरं वृणु ।
नमामालोक्य भूमानं कोऽपि शोचितुमर्हति ॥२९॥

प्रल्हाद उवाच ।
को वरस्ते वरेशान दर्शनादधिको मतः ।
यन्नमश्रवणात्पूतः सद्यः स्याद्‍ गोवधादपि ॥३०॥
तथापि याचे संदिष्टः प्रभुणा किंकरानुगः ।
स्वामिन्ननेन रुपेण विशास्यां प्रतिमा भुवि ॥३१॥
ये भजंति समर्चंति मानवाः प्रणमंति ये ।
तेषामभीष्टकामानां पूरको भव सर्वदा ॥३२॥
एष एव वरो देव नान्यं त्वत्तो वरं वृणे ।
मन्मनसत्वत्पदद्वंद्वे निर्द्वंद्वं स्थिरमस्तु भोः ॥३३॥

श्रीशिव उवाच ।
एवं संदृश्य भगवांस्तुष्टो वक्ष्यति बालकं ।
प्रफुल्लवदनांभोजस्फुत्स्मिकलाधरम्‍ ॥३४॥

श्रीभगवानुवाच ।
तथास्तु प्रतिमायां ते स्थास्याम्यत्र निरंतरम्‍ ।
पालयिष्यामि सुजना‌ दर्शनादेव स्‌वरैः ॥३५॥
ये मां द्विभुजमीशानं त्वदर्चाकृतविष्टरं ।
भजंति भक्त्या परया ते वै यांति परां गतिम्‌ ॥३६॥
मामुद्दिश्य सुदूरस्थो ददानो दानमर्थिनाम्‍ ।
पूजां दधाति तस्याहं कामान्‍ संपूरयेऽखिलान्‍ ॥३७॥
किं पुनः श्रद्धया धीमान्‍ महायात्रां करोति यः ।
तस्य पुण्यकृतः पारो नास्ति पुण्यस्य कर्हिचित्‍ ॥३८॥
नृसिंहदर्शनं लप्स्ये यस्य बुद्धिरिति स्फुरेत्‌ ।
स सर्वपापविनिर्मुक्तो भवेदर्कोदये तमः ॥३९॥
ततः प्रयातस्य गृहात्पूजयित्वेष्टदेवताः ।
देवताः संप्रसीदंति ददते विपुलान्वरान्‍ ॥४०॥
ततोऽध्वनि समायातः स्तुवतो नामरभिर्हरिं ।
पदेपदेऽश्वमेधस्य फलं तस्य विनिश्चितम्‌ ॥४१॥
महापुण्यभरैः प्राप्य क्षेत्रं मद्वल्लभं नरः ।
मानुषीतनुरुपोऽपि भवेन्मद्रूपसाम्यभाक्‌ ॥४२॥
मामालोक्य सकृन्मर्त्यो वैकुंठे लभते स्थितिं ।
मां भजन्म‌पुष्यन्ते सायुज्यं लभते खलु ॥४३॥
ये मामनिशमीशाम भजंते श्रद्धयान्विताः ।
ते देवा मर्त्यरुपेण ज्ञेयाः सर्वे चतुर्भुजाः ॥४४॥
अज्ञो वा ज्ञानवान्बालो वृद्धोनीचोथचोत्तमः ।
नृसिंह मां भजन्मुक्ताः सद्यो याति गतिं सताम्‍ ॥४५॥
सकृत्प्रदक्षिणीकृत्य कृतास्याद्‍ भूप्रदक्षिणा ।
सकृन्नत्वा दंडवन्मां भवेद्विबुधसत्तनुः ॥४६॥
दर्शनात्पुण्यरुपोऽसौ पारमेष्ठयं पदं व्रजेत्‍ ।
पूजनान्ममसारुप्यं भजनान्मयि संस्थितिम्‍ ॥४७॥
त्वमप्यसुरराजेन वत्स द्रोहिष्यसे यदा ।
आप‌विमुक्तये बाल तदा मत्स्मरणं कुरु ॥४८॥
यातनाः प्रशमं सर्वा यास्यंति मदनुग्रहात्‌  ।
पितापि मम संस्पर्शात्पूतो यास्यति मत्पदम्‍ ॥४९॥
यदायदा ध्यायसि मामधीशं चेतः समाधाय मदंघ्रिपद्मे ।
तदातदा तत्र हि तत्र सिद्धस्तिष्ठामि तेऽग्रे स्मृतिमात्रतोहि ॥५०॥
एतावदभयं दत्वा चिन्मयो दृश्यरुपघृक्‌ ।
वालुकाप्रतिमायां वै तिष्ठत्तत्र निरंतरम्‍  ॥५१॥
प्रल्हादोऽपितशानं त्रिः परिक्रम्य सन्नतः ।
पूर्णार्थः पुरमागत्य भविष्यति जडांगवत्‌ ॥५२॥
तं विरुध्य पिता तस्य क्षरमेष्यति तत्क्षणात्‍ ।
उद्दीर्णवक्षःस्थलो भूत्वा नखरैर्नृहरेस्तदा ॥५३॥
इति ते कथितं देवि प्रल्हादाख्यानमुत्तमं ।
पठतां शृण्वतां नृणां पापघ्नं मंगलार्थदं ॥५४॥
य एतत्‌ पठति प्राज्ञः शृणोत्यवहितो नरः ।
स प्रसादं हरेर्याति प्रियः प्रल्हादवद्भवेत्‍ ॥५५॥
प्रल्हादेन कृतं स्तोत्रं यः पठेत्प्रातरन्वहं ।
तस्य मंत्रभवा सिद्धिर्मासेनस्यात्परार्थदा ॥५६॥
अन्नं यशः सुतान्‌  कामान्‍ पुण्यमोक्षं सनातनं ।
प्रभावादस्य स्तोत्रस्य मर्त्यो वै प्राप्नुयात्‌ सदा ॥५७॥
इति तें कथितो देवि क्षेत्राविर्भावको भुवि ।
अधुना तीर्थमाहात्म्यं शृणु सिद्धिप्रदोत्तमम्‌ ॥५८॥
इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे क्षेत्राविर्भावकोनाम चतुर्थोऽध्यायः ।

N/A

References : N/A
Last Updated : March 23, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP