श्री गणेश गीता - अथ षष्ठोऽध्यायः

श्रीमद्‍गणेश गीतेचे पठन केल्याने अनेक चतुर्थींचे फळ मिळते.


पूर्वाध्यायन्ते सर्वश्रेष्ठोऽपि योगी मयि भक्तिमांश्वेच्छेष्ठतमो भवतीति श्रुत्वा
भक्तियोगं प्रष्टुमिच्छन्तं वरेण्यमालक्ष्य स्वयमेव तं व्यत्पादयिष्यन्गजानन उवाच-
ईद्दशं विध्दि मे तत्त्वं मद्गतेनान्तरात्मना ।
यज्ज्ञात्वा मामसंदिग्धं वेत्सि मोक्ष्यासि सर्वगम् ॥१॥

एवं ज्ञानफप्रदर्शनेन जिज्ञासुमभिमुखीकृत्य ज्ञानसाधनं तत्पदार्थोपासनं वक्तुं  प्रतिजातीते--
तत्तेऽहं श्रृणु वक्ष्यामि लोकनां हितकाम्यया ।
अस्ति ज्ञेयं यतो नान्यन्मुक्तेश्र्व साधनं नृप ॥२॥

ज्ञेयमेवाऽऽह--
ज्ञेया मत्प्रकृतिः पूर्वं ततः स्याज्ज्ञानगोचरः ।
ततो विज्ञानसंपत्तिर्मयि ज्ञाते नृणां भवेत् ॥३॥

त्रिगुणात्मिकां मायां  कार्यद्धारैव निर्विशति न हि रज्जुसर्पादिकारणमज्ञानमिदंतया
निर्देष्टुं शक्यं प्रमाणगोचरत्वात्। अतस्तत्कार्यमेवैकदशविधमाह-
क्वनलौ खमहंकारः कं चित्तं धीः समीरणः ।
रवीन्दू यागकृच्चैकादशधा प्रकृतिर्मम ॥४॥

एवं जडां प्रकृतिमुक्त्वा चेतनां जीवरुपां प्रकृतिमाह-
अन्यां मत्प्रकृतिं वृद्धां मुनयः संगिरन्ति  च ।
तया त्रिविष्टपं व्याप्तं जीवत्वं गतयाऽनया ॥५॥

एवं प्रकृतिद्धयमुक्त्वा तत्कार्यमाह-
आभ्यामुत्पद्यते सर्वं चराचरमयं जगत्।
सङगाद्विश्र्वस्य संभूतिः परित्राणं लयोऽप्यहम् ॥६॥

अस्यां चिदेकरसस्य बुद्धावधिकदौर्लभ्यमाह-
तत्त्वमत्र निबोद्‍धुं मे यतते कश्र्विदेव हि ।
वर्णाश्रमवतां पुंसां पुराचीर्णेन कर्मणा ॥७॥

एतदेवोभयमाह-
साक्षात्करोति मां कश्र्विद्यत्नवत्स्वपि तेषु च ।
मत्तोऽन्यन्नेक्षते किंचिन्मयि सर्वं च वीक्षते ॥८॥

एवं परमसिद्धान्तमुक्त्वा तदधिगमोपायं विभूतीनां चिन्तनं संक्षेपेणाऽऽह द्धाभ्याम्‍-
क्षितौ सुगन्धरुपेण तेजोरुपेण चाग्निषु ।
प्रभारुपेण पूष्ण्यब्जे रसरुपेण चाप्सु च ॥९॥

धीतपो बलिनां चाह धीस्तपो बलमेव  च ।
त्रिविधेषु विकारेषु मदुत्पन्नेष्वहं स्थितः ॥१०॥

एतज्ज्ञानं सुदुर्लभमित्याह-
न मां विन्दन्ति पापिष्ठा मायामोहितचेतसः ।
त्रिविकारा मोहयति प्रकृतिर्मे जगत्रयम् ॥११॥

मायानिवृत्त्युपायमाह-
यो मे तत्त्वं विजानाति मोहं त्यजति सोऽखिलम्।
अनेकैर्जन्मभिश्र्वैवं ज्ञात्वा मां मुच्यते ततः ॥१२॥

ज्ञाननिष्ठारहिताः कामनावन्तोऽपि मदन्यस्य यष्टव्यस्याभावान्मामेव तत्तद्देवतारुपं यजन्तं इत्याह-
अन्ये नानाविधान्देवान्यजन्ते तान्व्रजन्ति ते ।
यथा यथा मतिं कृत्वा भजते मां जनोऽखिलः ॥१३॥

ततः किमित्यत आह-
तथा तथाऽस्य तं भावं पूरयाम्यहमेव तम्।
अहं सर्वं विजानामि मां न कश्र्विद्विबुध्यते ॥१४॥

कुतो न बुध्यत इत्याह-
अव्यक्तं व्यक्तिमापन्नं न विदुः  काममोहिताः ।
नाहं प्रकाशतां यामि अज्ञानां पापकर्मणाम् ॥१५॥

ननु काममोहितास्त्वां न भजन्ते । त्वं च तेषां प्रकाशो न भवसि तर्हि का तेषां गतिरित्यत आह-
यः स्मृत्वा त्यजति प्राणमन्ते मां श्रध्दयाऽन्वितः ।
स यात्यपुनरावृत्तिं प्रसादान्मम भूभुज ॥१६॥

अयमेव न्यायो देवतान्तरध्यानेऽपि समान इत्याह-
यं यं देवं स्मरन्भक्त्या त्यजति स्वं कलेवरम्।
तत्तत्सालोक्यमायाति तत्तद्भक्त्या नरोत्तम ॥१७॥

भावनाविधायिशास्त्रमुपसंहरति-

सर्वेषामप्यहं गम्यः स्त्रोतसामर्णवो यथा ॥१८॥

अन्यदेवताभक्तोऽपि मां क्रममुक्तिन्यायेन मां न प्राप्नोति। अपि तु जन्मान्तरलाभपूर्वकमेव मां प्राप्नोतीत्याशयेनाऽऽह-
ब्रह्मविष्णुशिवेन्द्राढ्याँल्लोकान्प्राप्य पुनः पतेत्।
यो मामुपैत्यसंदिग्धः पतनं तस्य न क्वचित् ॥१९॥

नन्वेवमहर्निशं त्वां ध्यायतो देहयात्रा कथं स्यादित्यत आह-
अनन्यशरणो यो मां भक्या भजति भूमिप ।
योगक्षेमौ च तस्याहं सर्वदा प्रतिपादये ॥२०॥

अथ योगिनां ज्ञानहीनानां प्राप्यौ दौ मागौ कर्मिणां धूमदिमार्गः पुनरावृत्तिहेतुः । योगिनामर्चिरादिमार्गः पुनरावृत्तिवर्जितः  । तत्र योगिना मार्गोऽपि चिन्तनीयः । उपकोसलविद्यायामग्नय उपकोसलाय ब्रह्मविद्यां दत्त्वाऽऽचार्यस्तु ते गतिक्तेति आचार्याधीनां गतिभगमवशेपयति तच्छेषगत्यनुस्मृतियोगाच्चेतिसूत्रावयवेन गत्यनुस्मृतोर्विद्याशेषत्वावगमादुपासक्स्याऽऽतिवाहिकदेवतानुचिन्तनार्थमर्चिरादिमार्ग उपदिश्यते । धूमदिमार्गस्तु निन्दामुखेन तस्यैव स्तुत्यर्थ उपन्यस्यत इत्याशयेनाऽऽह
व्दिविधा गतिरुद्दिष्टा शुक्ला कृष्णा नृणां नृप ।
एकया परमं ब्रह्म परया याति संसृतिम् ॥२१॥

ॐ तत्सदिति श्रीमध्दणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादिगणेशपुराणे श्रीगजाननवरेण्यसंवादे बुद्धियोगो नाम षष्ठोऽध्यायः ॥६॥

श्रीचातुर्धरभणितौ गणेशगीताटीकायां गणपतिभावदीपिकायाम्  ।  
गम्भीरप्रततसदर्थदर्शिकायामध्यायः स्फुटह्रदयो बभूव षष्ठः ॥
इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरंधरचतुर्धरवंशावतंसगोविन्दसूरिसूनोर्नीलकण्ठस्य कृतौ गणेशगीताटीकायां बुध्दियोगो नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : February 13, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP