चतुर्थपरिच्छेदः - परिच्छेदः १०

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।
 

अम्बासमस्तजननी परदेवतासा ।
श्रीशारदामतिगतिप्रभव प्रभावा ॥
धन्यार्चिताङ्घ्रिकमला विमला जगत्याम् ।
वागीश्वरीविहित शास्त्रलताधिरूढा ॥१॥

अद्वैतशङ्करजगद्गुरु शिष्यशिक्षाम् ।
पित्र्युद्भवप्रवर पुत्र निबन्धचेष्टाम् ॥
आत्मांशकत्व कथनार्थ तयामदीयाम् ।
जानन्तुतेऽत्र सुधियो न परोत्रहेतुः ॥२॥

वेदोह्यनित्य इतिनो न चपौरुषेयः ।
मानं प्रसाध्य जगतां मन इन्द्रियंनो ॥
पूर्वं ततोऽत्र परमाणुमतं परास्तम् ।
वेदागमादिरहिता विहितं च तेषाम् ॥३॥


वेदान्तशास्त्रमकरन्द विरोधिनोये ।
चार्वाककापिलजिनादिनिरीश्र्वराद्याः ॥
साङ्ख्यप्रधान परिणाममतानियानि ।
नैय्यायिक प्रभृतयश्र्व जितानितानि ॥४॥

श्रुत्यामनर्थरचना न कदापियुक्ता ।
शिष्टस्मृतावपिताथात्र महत्प्रसादात् ॥
गद्यप्रबन्धरचना श्रुतिभाष्यकारा ।
ध्वानं विसृज्यपदमप्यगतिंननीता ॥५॥

शास्त्रार्थ कौशलमहत्वमहोऽत्रकीर्तिम् ।
वाञ्छामिनैव हिममाप्यनधीत शास्त्रः ॥
वेदान्तशास्त्रमकरन्द विधौ समर्थः ।
आचार्यपादकरुणा किरणप्रभावात् ॥६॥

वेदान्तशास्त्रमकरन्दगतंसुगीतम् ।
नीतं समस्तनिगमागमसुप्रकाशम् ॥
नेदंविवाद पर पक्षस्वपक्षकृत्यम् ।
मृत्युञ्जयस्यपरितोषकरन्तथास्तु ॥७॥

इति श्रीमत्परमहंसपरिव्राजकाचार्ययोगीन्द्रवर्य श्रीआत्मानन्दसरस्वतीस्वामिभिर्विरचितः
"वेदान्तशास्त्र मकरन्दे" श्रुतिसिद्धान्त चतुर्थपरिच्छेदः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP