TransLiteral Foundation

चतुर्थपरिच्छेदः - परिच्छेदः ९

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


परिच्छेदः ९
अन्यत्रापि सूत्रकारभाष्यकाराभ्यामुदाहृतनामधेयलक्षणाभ्यां "प्रत्यक्षानुमानागमाः प्रमाणानी"
ति प्रदर्श्य प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपपंचवृत्तिनिरोधसाधनं सूत्रयति स्म भगवान्पतञ्जलिः
"अभ्यासवैराग्याभ्यां तन्निरोधः" अस्मिन्सूत्रे यथा तीव्रवेगोपेतं नदीप्रवाहं सेतुबन्धनेन निवार्य
कूल्याप्रणयनेन क्षेत्राभिमुखं यस्तियक्प्रवाहांतर उत्पाद्यते तथा वैराग्येण चित्तनद्या विषयप्रवाहं
निवार्य समाध्यायासेन प्रशान्तः प्रवाहः सम्पाद्यते ।
मंत्रजपदेवताध्यानादीनां क्रियारूपत्वेनावृत्तिलक्षणोभ्यासः संभाव्यते स एव पूर्वाभ्यासः ।
तेन दृढीकृतचित्तानां पूर्वसाधननिरपेक्षया सर्वव्यापारोपरतस्य
दृढभूमिकायां स्वयमेव समाधिर्भवेत् अस्मिन्पक्षे ज्ञानयोगप्रामाण्यसिद्धिः ।
तथाचोक्तं "संशान्तदुःखमजडात्मकमेकरूपमानन्दमन्थरमपेतरजस्तमो यत् ॥
आकाशकोशतनवोतनवो महान्तस्तस्मिन्पदे गलिताचित्तलवा भवन्ति" ॥
अन्यत्र स्मृतौ "जीवन्मुक्ता न मुह्यन्ति सुखदुःखरसस्थितौ । प्राकृतेनार्थकारेण किञ्चित्कुर्वन्ति वा न वा ।
इत्यादिषु स्पष्टमेव प्रदर्शितं तस्मादिदानीन्तनकाले योगाभ्यासशीलिनां ज्ञानसाधनत्वेन
वासनाक्षयमनोनाशप्रसक्त्या बहुकालाभ्यासेन जीवन्मुक्तिसिद्धौ प्रारब्धकर्मभोगक्षये कालान्तरेण
कैवल्यप्राप्तिरिति व्यवस्था वर्णिता अनेनैवाशयेनाह श्रुतिः "तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः ।
प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा" इत्यादि स्पष्टमेव ननु "वेदान्ताः कर्त्तृदेवादिपरा ब्रह्मपरा उत ।
अनुष्ठानोपयोगित्वात्कर्त्रादिप्रतिपादकाः ॥"
इत्यधिकरणे वेदान्तानां कर्त्तृदेवतादिप्रतिपादकत्वेन कर्मप्रतिपादकत्वमेव कुतो न
ततश्र्च ब्रह्मबोधकत्वं कथमिति स्पष्टमभिहितत्वात् किंच "प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा ।
पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते" इति वेदान्तानामपि शास्त्रत्वात्प्रवृत्तिनिवृत्तिपरतयैव प्रामाण्यं
न प्रवृत्तिनिवृत्तिशून्यसिद्धब्रह्मपरतया "तद्भूतानां क्रियार्थेन समाम्नायः"
"आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थाना" मिति सूत्राभ्यां प्रतिपादनात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं
ब्रह्माभ्युपगन्तव्यमिति चेन्न वेदान्ताः न विधिपराः स्वार्थे फलवत्त्वे सति नियोज्यविधुरत्वान्नायं
सर्प इति वाक्यवदित्यनुमानेन विधिपरत्वस्य निराकरणात् "तत्त्वमसि" "अहं ब्रह्मास्मि"
"अयमात्मा ब्रह्म" इत्यादि ब्रह्मात्मैकत्ववस्तुपराणां श्रुतीनां समन्वयानुपपत्तेश्र्च तस्माद्विधिवाक्यवन्न
पुरुषव्यापारतन्त्रा ब्रह्मविद्या किन्तु प्रत्यक्षादिप्रमाणविषयवस्तुज्ञानवद्वस्तुतन्त्रेति सिद्धं ब्रह्मणः
शास्त्रैकप्रमाणकत्वं यस्माद्योहि बहिर्मुखः प्रवर्त्तते पुरुषः नच तत्रात्यान्तिकं पुरुषार्थ लभते
तमात्यन्तिकपुरुषार्थवाञ्छिनं स्वाभाविककार्यकरणासंघात् प्रवृत्तिगोचराद्विमुखीकृत्य
प्रत्यगात्मस्रोतस्तया प्रवर्त्तयन्ति विधिच्छायानि "आत्मावारे द्रष्टव्यः"
इत्यादिवाक्यानि अन्तर्मुखेन कृतवेदान्तविचारः सर्वानर्थहानाय जीवन्मुक्तिसुखावाप्तये च भवति ।
तत्त्वज्ञानमनो नाशवासनाक्षयैर्जीवन्मुक्तस्तदुक्तं "जीवन्नेव हि विद्वान्मर्षामर्षाभ्यां विमुच्यते
इति ब्रह्मसाक्षात्कारपर्यन्तायां तत्त्वनिष्ठायामसमर्थास्ते निर्गुणब्रह्मतत्त्वोपास्त्या मुच्यन्ते तथाच पारमर्षसूत्रं
‘स्मृतेश्र्च’ इति अत्र हि "ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्पान्ते कृतात्मानःप्रविशन्ति परं पद" मिति निर्गुणब्रह्मतत्त्वोपासका
महाप्रलये तत्रोत्पन्नसम्यग्धियो मुच्यमानेन ब्रह्मणा सह परम्पदं प्रविशन्तीत्यर्थः ।
तस्मात्सिद्धं केवलाद्ब्रह्मतत्त्वज्ञानान्मोक्ष इति ।
अत्र प्रमाणश्रुतयः सहस्रशः ‘ज्ञानादेव तु कैवल्यं’ ‘कर्मणा बध्यते’ ‘न कर्मणा न प्रजया’ इत्याद्याः
संति विस्तरभयान्नेहोपन्यस्यन्ते विद्वद्भिरत्रानुसन्धेयानि ।
ननु तत्पदप्रतिपादितवेदान्तानां प्रामाण्यप्रयोजनत्वोपत्तेर्ज्ञानविधिपरत्वे ज्ञानसाध्यस्य
मोक्षस्यस्वर्गादेरिवानित्यत्वं प्रसज्येतअदृष्टजन्यभावका र्यस्यानित्यत्वानियमान्नचतदिष्टं
सर्वे मोक्षवादिनो मोक्षं नित्यमभ्युपगच्छन्ति ततश्र्च सर्वतन्त्रविरोधः ‘अनावृत्तिः शब्दा’
दिति सूत्रविरोधश्र्चापि च मोक्षो नाम ब्रह्मभावो वाऽज्ञाननिवृत्तिर्वा सर्वथापि तस्य ज्ञानै
कसाध्यत्वेन विधेयज्ञानजन्या पूर्वस्यानुपयोगित्वान्मोक्षस्योत्पत्त्याद्यन्यतमस्य
विधिफलत्वादभिव्यक्तिश्र्च प्रमाणजन्या श्रवणादिजन्या वा न सम्भवति ब्रह्मणो
विधेयज्ञानविषयत्वायोगादिति चेन्न ‘तत्त्वमसी’ त्यादिमहावाक्यस्थतत्त्वंपदलक्ष्यार्थब्रह्मणो
ज्ञानविषय तया तदनुसन्धानस्यैव यथार्थस्मरणतया विधानाद्विरोधाप्रसक्तेः ।
"प्रकृतिश्र्च प्रतिज्ञादृष्टान्तानुरोधादि" ति सूत्रव्याख्यानावसरे
उक्तलक्षणब्रह्मणोऽभिन्ननिमित्तोपादानत्वं समर्थितं तद्यथा-ब्रह्म तु मायोपहितं
सत्प्रपञ्चस्योपाधिप्राधान्येनोपादानकारणं सवप्राधान्येन च निमित्तकारणं
च भवति तत्र श्रुतिप्रमाणं यथा "तदैक्षत बहुस्यां प्रजायेय" "जन्माद्यस्य यतः"
इत्यस्मिन्नधिकरणे च ब्रह्मणस्तटस्थलक्षणप्रतिपादनपरे जगतस्तथा कारणतया
निर्णीतमेतावता स्वरूपतटस्थलक्षणकं ब्रह्म जगतोऽभिन्ननिमित्तोपादानकारणतया
प्रतिपादकप्रमाणभूतश्रुतौ "यथोर्णनाभिः सृजते गृह्यते च"
इत्याद्युक्ततयोर्णनाभ्यादेरभिन्ननिमित्तोपादानकारणदृष्टान्ततया
प्रसिद्धत्वाल्लोके बहुश उपवर्णितं भवतीति विरम्यते ।

विस्तारितं श्रुतिशिरः प्रणवप्रमाणम् ।
कैवल्यकन्दपरिचिन्तनमद्वितीयम् ॥
वेदान्तशास्त्रमकरन्दचतुर्थभागे ।
संचिन्त्यातां सपदि सन्ततमन्तरंगे ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:11.3970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

directivity factor

  • (of a transducer used for sound emission etc.) दिशिकता गुणक 
RANDOM WORD

Did you know?

’ श्रीदुर्गासप्तशती’ ग्रंथातील कांही मंत्र जीवनातील संकटे दूर करतात काय? असे कोणते मंत्र आहेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.