चतुर्थपरिच्छेदः - परिच्छेदः ४

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


अन्ये नु ‘तमेवं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेने’ त्यादिश्रुतिभ्यस्तत्तत्फलाय चोदितानामपि
कर्मणां संयोगपृथक्त्वे ब्रह्मभावानां ज्योतिष्टोमादिकर्मणां निश्र्चितवेदान्तस्य स्वर्गाद्यल्पफलकामनाया
निराकरणं निश्र्चित्य ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ वेदान्तविज्ञानसुनिश्र्चितार्थाः
संन्यासयोगाद्यतयः शुद्धसत्त्वाः’ इत्याद्याः श्रुतिस्मृतयः ज्ञानकाले ब्रह्माभ्यासप्रवृत्तानां मुमुक्षूणां त्याग एव कर्मणां
स्वल्पकालसुखदातृत्वेन तुच्छत्वादित्यत्र पूर्वोक्तप्रमाणानीति वदन्ति ।
अतएव आनंद ब्रह्मणो विद्वान्न बिभेति कुतश्रने’ त्यादिश्रुतेः
साक्षात्कारप्रमाणमंगीकृत्य परविद्याविषब्रह्मविज्ञानार्थमुत्तरो ग्रन्थ आरश्र्यते ननु
‘ऋणानि त्रीण्यपाकृत्ये’ ति मनुवचने कर्मज्ञानयोरपाकृत्योति ल्यबन्तेन पौर्वापर्यभावो द्योत्यते
तथा च ऋणमोचनकर्त्तृणां कर्मणां पूर्वापेक्षितत्वे भाष्यकारेणेदं प्रागधीतवेदान्तस्य
ब्रह्मजिज्ञासोपपत्तेरिह क्रमविवक्षा नास्तीत्युक्तं तन्न सङ्गच्छेतेति चेन्न शुकादिजीवन्मुक्तादीनां
कर्मादिकस्य गुरुवेदान्तश्रवणादिकस्य वातीतजन्मनि समाप्तन्नास्मिञ्जन्मनि ऋणानुबन्धनं
केवलात्मनिष्ठया तल्लाभादिति तद्विषये तथात्वेपि सर्वत्रैवं
वक्तुमशक्यत्वादन्तःकरणशुद्धिद्वारा पूर्वं कर्मण उपयोगात्तदनन्तरं ज्ञानप्राप्तेश्र्च ।
"आत्मक्रीडा आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः" "तरति शोकमात्मवित्"
"तत्र को मोहः कः शोक एकत्वमनुपश्यतः" इत्यादिश्रुतिप्रामाण्येन शेषशेषित्वाधिकृते
फलजिज्ञास्यभेदाच्चेत्यादिनानुगृहीता महान्तो ज्ञानिनस्तथापि कर्मब्रह्मविद्या
फलयोर्वैलक्षण्येपि शरीरं वाचिकं मानसं च कर्मश्रुतिस्मृतिसिद्धं धर्माख्यं यद्विषया
जिज्ञासा ब्रह्मणि पर्यवसितेत्युक्तत्वात् "अविद्यापनयमन्तरेणानाविर्भावा"
दितिश्रुत्युक्तेश्र्च कर्मज्ञानप्रतिपादनपरयोः श्रुत्योर्विरोधपरिहारः सुस्पष्ट एवेति विदाङ्कुर्वन्तु
किंच ब्रह्मोपासनपरत्वं वेदान्तानामभ्युपगच्छता नित्यशुद्धबुद्धत्वादिब्रह्मात्मता जीवस्य स्वाभाविकीत्यवगतेपि
"मुने तथैव तिष्ठामि कृपणः किं करोम्यह" मिति योगवासिष्ठे उपशमप्रकरणस्यावसाने
वसिष्ठं प्रति रामचन्द्रेणोक्ते "परव्यसनिनी नारी व्यग्रा हि गृहकर्मणि ।
तदेवास्वादयत्यन्तः परसंगरसायनम् ॥
 एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिमागतः । तदेवास्वादयत्यन्तर्बहिर्व्यवहरन्नपि" ॥
इति वसिष्ठोक्तिमवलम्ब्य ज्ञानकालेपि तथैव व्यवहरन्नपि न
दोषभागित्यनुसन्धेयम् तत्र परतत्त्वज्ञानं द्विविधं स्थितमस्थितं चेति
"स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्" इत्यर्जुनोक्ते "प्रजहाति यदा कामान्सर्वान्पार्थमनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते" इति भगवतोक्ते बुद्धेः परमानन्दरूपेणात्माभिमुखत्वात्तथा वगन्तव्यम् ।
न चात्र संप्रज्ञातसमाधाविव आत्मानन्दो मनोवृत्त्युपाख्यालभ्यः किन्तु
स्वप्रकाशचिद्रूपेणात्मना सन्तोषश्र्च न वृत्तिरूपः अपि तु तत्संस्काररूपस्तथा
चैवंविधैर्लक्षणवाचकैः शब्दैः समाहितं भगवता भाष्यते-"दुःखेष्वनुद्विग्नम नाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥"

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP