द्वितीयपरिच्छेदः - परिच्छेदः ३

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


अर्थवादत्वं विघ्यपेक्षितार्थबोधकत्वं प्रमाणांतरसिद्धार्थबोधकत्वं प्रमाणांतरसिद्धत्वं वा तच्च न वेदांतानां
तत्प्रतिपादितप्रमेयानां वा संभवति । एवमर्धवैनाशिकानां वैशेषिकानां मते निरस्ते
संपूर्णवैनाशिकानां मुक्तकच्छानां बौद्धानां विवसनानामार्हतानां च स्मृतत्वात् स्मृतत्वे
सत्युपेक्षानर्हत्वरूपप्रसंगसंगत्या बुद्धिस्थं मतं निराक्रियते ।
‘बुद्धेरात्मा महान्परः’ ‘असंगो ह्ययं पुरुषः’ इत्यादिश्रुतिषु बुद्धिसाक्षित्वप्रतिपादनादसंगस्य
परिणामासंभवाच्च क्षणिकविज्ञानवाद आर्हतपरिणामानैकांतिकवादश्र्चाप्रामाणिको वेदितव्यः
तेषां बुद्धिधर्मेणाज्ञानेनावृतज्ञानत्वादन्यथा प्रतिपत्तिर्मुमुक्षूणा मनुपादेया ।
तथाचोक्तं भगवता’ अज्ञानेनावृतं ज्ञानं तेन मुह्यंति जंतवः ‘अत्र भगवता
मिथ्याज्ञानावरणकार्यमोहपिशाचिकयापह्यताद्वैतात्मतत्त्वस्वयंप्रकाशस्फुरणाः
प्रजल्पंत्युन्मत्तवत्सर्वेपि द्वैतवादिनः स्वपरविनाशकाः भविष्यन्तीत्युक्तम् ।
तत्र जडकारणतावादसाम्येन निरीश्र्वरवादिनो कापिलाः सांख्या अपि भ्रांता एव तेषां
मतेऽचेतनस्यैव प्रधानस्य स्वर्गापवर्गार्थं स्वतंत्राप्रवृत्तिरित्यंगीकारः सच सर्वथा लोकप्रसिद्धानुभवविरुद्धः
तथाहि लोके रथादेरचेतनस्य चेतनाद्यधिष्ठितस्यैव प्रवृत्तिर्दृश्यते एवमचेतनस्यापि प्रधानस्याधिष्ठात्रा
चेतनेनावश्यं भवितव्यामिति केवलप्रधानकारणतावादः पराकृतो वेदितव्यः ।
अस्तु तावत् अस्मदादीनां श्रुतवेदांतपरमोदारचित्तानामद्वैताचार्य
कृपापात्रत्वादद्वैतब्रह्मानिष्ठापरत्वमिव सर्वेषां भारतीयानामद्वैतपरब्रह्माणिसमर्पितांतरत्वमित्यभ्यर्थयामो
महेश्र्वरं सांजलिबंधमन्यथा ‘यथा गुरुस्तथा शिष्य’ इति न्यायेनाधःपातो दुष्परिहार एवावगंतव्यः
तथात्र नैय्यायिकाभिमतसाधनसमानाधिकरणात्यंताभावप्रतियोगितानवच्छेदकं
तदवच्छिन्नसामानाधिकरण्यमिति सिद्धांतव्याप्तिलक्षणे साध्यतावच्छेदकहेतुतावच्छेदकसम्बन्धप्रतियोगिवैय्यधिकरण्यादि
प्रवेशवाग्जालजटिलाटवीप्रवेशनं ब्रह्मजिज्ञासूनां मोहायैव भवेदित्यनादरणीयमेवांतर्मुखैरात्मनिष्ठैः
पुनरनुमानत्रैविघ्यं कल्पयति तार्किकः तद्धि केवलान्वयि केवलव्यतिरेकि अन्वयव्यतिरेकि च
तन्न संगच्छते यतः वृत्तिमदत्यंताभावाप्रतियोगित्वं केवलान्वयित्वं तच्च सर्वथा श्रुतिविरोधाकुलं
ब्रह्मभिन्नस्य सर्वस्यैवानित्यत्वेन कल्पितत्वात्
कल्पितस्य चाधिष्ठाननिष्ठात्यंताभावप्रतियोगित्वमेवेति केवलान्वयित्वमसिद्धम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP