रत्नावली - चतुर्थोङ्कः

‘ रत्नावली’ नाटकात हर्षाने प्राकृत भाषांपैकी शौरसेनीचा मुख्यत्वेंकरून उपयोग केला आहे.


( ततः प्रविशति रत्नमालामादाय सास्त्रा सुसंगता)

सुसंगता —— ( सकरुणं निःश्वस्य ) हा प्रियसखि सागरिके , हा लज्जालुके , हा सखीगणवत्सले , हा उदारशीले , हा सौम्यदर्शने , कुत्र गतेदानी त्वं मया प्रेक्षितव्याऽसि ।

( इति रोदिति । ऊर्ध्वमवलोक्य निःश्वस्य च) हंहो दैवहतक, अकरुण, असामान्यरूपशोभा तादृशी त्वया यदि निर्मिता तत् किमिति पुनरीदृशमवस्थान्तरं प्रापिता । इयं च रत्नमालाऽपि जीवितनिराशया तया कस्यापि ब्राह्मणस्य हस्ते प्रतिपादयेति भणित्वा मम हस्ते समर्पिता । तद् यावत् कमपि ब्राह्मणमन्विष्यामि । ( नेपथ्याभिमुखवलोक्य) अये, कथमेष खलु ब्राह्मणो वसन्तक इत एवाऽगच्छति । तदेतां तावदेतास्मिन्नेव प्रतिपादयिष्यामि । ( हा पिअसहि साअरिअ, हा लज्जालुए, हा सहीगणवच्छले, हा सोम्यदंसणे, कहि गदा दाणिं तुम मए पेक्खदव्वाहि । हंहो देव्वहदअ, अकरुण, असामण्णरुवसोहा तादिसी तुए जइ णिम्मिदा ता किंत्ति उण ईदिस अवत्थन्तरं पाविदा । इयं च रअणमालावि जीविदणिरासाए ताए कस्सवि बम्हणस्स हत्थे पडिवादेसुत्ति भणिअ मम हत्थे समप्पिदा । ता जाव कं पि बम्हणं अण्णेसामि । अए, कहं एसो खु बम्हणो वसंतओ इदो एव्व आअच्छदि । ता एवं ताव इमस्सिं एव्व पडिवादइस्सं ।)

( ततः प्रविशति हृष्टो वसन्तकः)

विदूषकः —— ही ही भो भोः ! अद्य खलु प्रियवयस्येन प्रसादितया वासवदत्तया बन्यधनान् मोचयित्वा स्वहस्तदत्तैर्मोदकलड्डुकैरुदरं मे सुपूरितं कृतम् । अन्यच् च । एतत्

पट्टांशुकयुगलं कर्णाभरणं च दत्तम् । तद् यावदिदानीं प्रियवयस्यं प्रेक्षिष्ये । ( ही ही भो भोः ! अज्ज खु पिअवअस्सेण पसादिदाए वासवदत्ताए बंधणादो मोचिअ सहत्थदिण्णेहि मोदअलड्डआहिं उदरं मे सुपूरिदं किदं । अण्णं च । एदं पट्टंसुअजुअलं कण्णाभरणं अ दिण्णं । ता जाव दाणिं पिअवअस्सं पेक्खिस्सं । ) ( इति परिक्रामति )

सुसंगता —— ( रुदती सहसोपसृत्य ) आर्य वसन्तक , तिष्ठ तावत् त्वं मुहूर्तम् । अज्ज वसंतअ , चिट्ठ दाव तुमं मुहूत्तअं ।

विदूषकः —— ( दृष्ट्वा ) कथं सुसंगता । सुसंगते , अत्र किंनिमित्तं रुद्यते । न खलु सागरिकाया अत्याहितं किमपि संवृत्तम् । कधं सुसंगदा । सुसंगदे , एत्थ किंणिमित्तं रोदीअदि । ण खु साअरिआए अच्चाहिदं किंवि संवुत्तम।

सुसंगता —— एतदेव निवेदयितुकामा । सा खलु तपस्विनी देव्योज्जयिनीं नीतेति प्रवादं कृत्वोपस्थितेऽर्धरात्रे न ज्ञायते कुत्र नीतेति । एदं ज्जेव्व णिवेदइदुकामा । सा खु

तवस्सिणी देवीए उज्जइणिं णीदेत्ति प्पवादं कदुअ उवत्थिदे अद्धरत्ते ण जाणीअदि कहि णीदेत्ति ।

विदूषकः —— ( सोद्वेगम् ) हा भवति सागरिके , अतिनिर्घुणमिदानी देव्या कृतम् । ततस्ततः । हा भोदि साअरिए , अदिणिग्घिणं दाणिं देवीए किदं । तदो तदो ।

सुसंगता —— एषा रत्नमाला तया जीवितनिराशयाऽऽर्यवसन्तकस्य हस्ते प्रतिपादयेत्युक्वा मम हस्ते समर्पिता । तनु ननु गृह्णात्वार्य एताम् । एसा रअणमाला तए

जीविदणिरासाए अज्ज वसंतअस्स हत्थे पडिवादेसित्ति भणिअ मम हत्थे समप्पिदा । ता णं गेण्हदु अज्जो एदं ।

विदूषकः —— ( सास्रं सकरुण कर्णो पिधाय ) भवति , न म ईदृशे प्रस्ताव इमा वोढु हस्तः प्रसरति । भोदि , ण मम ईदिसे पत्थावे एदं वोढुं हत्थो पसरदि । ( इत्युभौ रुदितः )

सुसंगता —— ( अञ्जलिं बद्ध्वा ) तस्या एवानुग्रहं कुर्वन्नङ्गीकरोत्वेतदार्यः ताए एव्व अणुग्गहं करतो अंगीकरेदु एदं अज्जो ।

विदूषकः —— ( विचिन्त्य ) अथवा उपनय । येनैतयैव सागरिकाविरहकुण्ठिते प्रियवयस्यं विनोदयामि । अहवा , उवणेहि । जेण इमाए ज्जेव्व साअरिआविरहकुंठिदं पिअवअस्सं विणोदेमि ।

( सुसंगता वसन्तकस्य हस्ते रत्नमालां ददाति ।)

विदूषकः —— ( गृहीत्वा निरूप्य सविस्मयम् ) भवति , कृतः पुनरीदृशस्यालकारस्य आगमः । भोदि , कुदो उण ईदिसस्स अलंकारस्स आगमो ।

सुसंगता —— आर्य , मयाऽऽपि सा कौतूहलेन पृष्टाऽऽसीत् । अज्ज , मए वि सा कोदूहलेण पुच्छिदा आसि ।

विदूषकः —— ततस्तया किं भणितम् । तदा ताए कि भणिदं ।

सुसंगता —— ततः सा ऊर्ध्व प्रेक्ष्य दीर्घ निःश्वस्य , सुसंगते , किमिदानीं तवानया कथयेति भणित्वा रोदितुं प्रवृत्ता । तदो सा उद्धं पेक्खिअ दीहं णिस्ससिअ , सुसंगदे , किं दाणि तुह इमाए कधाएत्ति भणिअ रोदिदुं पउत्ता ।

विदूषकः —— ननु कथितमेव सामान्यजनदुर्लभेनानेन परिच्छदेन सर्वथा महाभिजनसमुत्पन्नया तया भवितव्यम् । सुसंगते , प्रियवयस्य इदानीं कुत्र । णं कधिदं एव्व सामण्णजणदुल्लहेण इमिणा परिच्छदेण सव्वधा महाभिजणसमुप्पणाए ताए होदव्वं । सुसंगदे , पिअवअस्सो दाणिं कहिं ।

सुसंगता —— आर्य , एष खलु भर्ता देवीभवनान् निष्क्रम्य स्फटिकशालामुपगतः । तद् गच्छत्वार्यः । अहमपि देव्या वासवदत्तायाः परिचारिणी भविष्यामि । अज्ज , एसो , खु भट्टा देवीभवणादो णिक्कमिअ फडिअसाला उवगदो ।

ता गच्छदु अज्जो । अहं वि देवीए वासवदत्ताए परिचारिणी भविस्सं ।

( इति निष्क्रान्तौ)

इति प्रवेशकः

( ततः प्रविशत्यासनस्थो राजा)

राजा —— ( विचिन्त्य )

सव्याजैः शपथैः प्रियेण वचसा , चित्तानुवृत्त्याऽधिकं

वैलक्ष्येण परेण पादपतनैर्वाक्यैः सखीनां मुहुः ।

प्रत्यासत्तिमुपगता न हि तथा देवी रुदत्या यथा

प्रक्षाल्येव तयैव बाष्पसलिलैः कोपोऽपनीतः स्वयम् ॥१॥

( सोत्कण्ठं निःश्वस्य) इदानीं देव्यां प्रसादितायां यागरिकाचिन्तैव केवलं मां बाधते । कुतः ।

अम्भोजगर्भसुकुमारतनुस्तदाऽसौ

कण्ठग्रहे प्रथमरागघने विलीय ।

सद्यःपतन्मदनमार्गणरन्ध्रमार्गैर्

मन्ये मम प्रियतमा हृदयं प्रविष्टा ॥२॥

( विचिन्त्य) योऽपि मे विश्रामस्थानं वसन्तकः सोऽपि देव्या संयतः । तत् कस्याग्रतो बाष्पमोक्षं करिष्ये । ( इति निःश्वसिति)

( ततः प्रविशति वसन्तकः)

विदूषकः —— ( परिक्रम्यावलोक्य च सविस्मयम् ) एष खलु प्रियवयस्यः निर्भरोत्कण्ठापरिक्षामामपि श्लाघनीयां तनुं समुद्वहन्नुदितो द्वितीयाचन्द्र इवाधिकतरं शोभते । तद् यावदेनमुपसर्पामि । ( उपसृत्य ) स्वस्ति भवते । भोः , दिष्ट्या वर्धसे । देवीहस्तगतेनापि मया पुनरप्येतैरक्षिभिर्यद् दृष्टोऽसि ।

एसो खु पिअवअस्सो णिरंतरोक्कंठापरिक्खामपि सलाहणिज्जां तणुं समुव्वहंतो उदिदो दुदिआचंदो विअ अहिअदरं सोहदि । ता जाव णं उसवप्पामि । सोत्थि भवदे । भोः , दिट्ठिआ वड्ढसे । देवीहत्थगदेणावि मए पुणोवि एदेहि अच्छीहिं जं दिट्ठोसि ।

राजा —— ( दृष्ट्वा सहर्षम् ) अये , वसन्तकः प्राप्तः । सखे , परिष्वजस्व माम् । ( विदूषकः परिष्वजति ) वेषेणैव निवेदितस्ते देव्याः प्रसादः । तत् कथ्यतामिदानीं सागरिकायाः का वार्तेति ( विदूषकः सवैलक्ष्यमघोमुखस्तिष्ठति )

राजा —— वयस्य , किं न कथयसि ।

विदूषकः —— अप्रियमिति निवेदयितुं ते न पारयामि । अप्पिअं त्ति णिवेदिदुं दे ण पारेमि ।

राजा —— ( सोद्वेग ससंभ्रमम् ) वयस्य , कथमप्रियम् । किं व्यक्तमेवोत्सृष्टं जीविति तया । हा प्रिये सागरिके ! ( इति मोहं नाटयति )

विदूषकः —— ( ससंभ्रमम् ) समाश्वसितु समाश्वसितु प्रियवयस्यः । समस्ससदु समस्ससदु पिअवअस्सो ।

प्राणाः परित्यजत कामदक्षिणं मां

रे दक्षिणा भवत मद्वचनं शृणुध्वम् ।

शीघ्रं न यात यदि तन् मुषितः स्थ मूढा

याता सुदूरमधुना गजगामिनी सा ॥३॥

विदूषकः —— भोः , माऽन्यथा संभावय । सा खलु तपस्विनी देव्योज्जयिनीं प्रेषितेति श्रूतये । अतो मयाऽप्रियमिति कृत्वा न भणितम् । भोः , मा अण्णधा संभावेहि । सा खु तवस्सिणी देवीए उज्जइणिं पेसिदत्ति सुणीअदि । तदो मए अप्पिअंत्ति करीअ ण भणिदं ।

राजा —— कथमुज्जयिनीं प्रेषितां । अहो निरनुरोधा मयि देवी । वयस्य , केन तवैतदाख्यातम् ।

विदूषकः —— भोः —— सुसंगतया । अन्यच् च । मम हस्ते तया केनापि कार्येणेयं रत्नमाला प्रेषिता । ( भोः , सुसंगदाए । अण्णं च । मम हत्थ ताए केणावि कङजेण इअं रअणमाला पेसिदा । )

राजा —— किमपरं मामाश्वासयितुम । तद् वयस्य , उपनय ।

( विदूषक उपनयति)

राजा —— ( गृहीत्वा रत्नमाला निर्वर्ण्य हृदये निधाय ) अहह !

कण्ठाश्लेषं समासाद्य तस्याः प्रभ्रष्टयाऽनया

तुल्यावस्था सखीवेयं तनुराश्वास्यते मम ॥४॥

वयस्य , त्वं परिधत्स्वैनाम् । येन वयमेनामपि तावद् दृष्ट्वा धृति करिष्यामः ।

विदूषकः —— भोः , यद् भवानाज्ञापयति । ( भो , जं भवं आण्णवेदि । ) ( इति परिदधाति )

राजा —— ( सास्त्रं निःश्वस्य ) वयस्य , दुर्लभ पुनदर्शनं प्रियायाः ।

विदूषकः —— ( सभयं दिशोऽवलोक्य ) भोः , मैवमत्रोच्चैर्मन्त्रय । कदापि केचिदत्र संचरन्ति । ( भो , मा एव्वं एत्थ उच्चं मंतेहि । कदावि केवि एत्थ संचारेदि । )

( ततः प्रविशति वेत्रहस्ता वसुंधरा)

वसुंधरा —— ( उपसृत्य ) जयतु जयतु भर्ता । एष खलु रुमण्वतो भागिनेयो विजयवर्मा प्रियमिव किमपि निवेदयितुकामो द्वारि तिष्ठति । ( जअदु जअदु भट्टा । एसो खु रुमण्णदो भाइणेओ विजअवम्मा पिअमिव किंपि णिवेदिदुकामो दुआरे चिट्ठदि । )

राजा —— वसुंधरे , अविलम्बितं प्रवेशय ।

वसुंधरा —— यद् देव आज्ञापयति । ( निष्क्रम्य विजयवर्मणा सह पुनः प्रविश्य च ) विजयवर्मन् , एष खलु भर्ता । उपसर्पतु आर्यः । ( ज देवो आण्णवेदि । विजअवम्म , एसो खु भट्टा । उपसप्पदु अज्जो । )

विजयवर्मा —— ( उपसृत्य ) जयतु जयतु देवः । देव , दिष्ट्या वर्धसे रुमण्वतो विजयेन ।

राजा —— साधु रुमण्वन् , साधु । अचिरान् महत् प्रयोजनमनुष्ठितम् । विजयवर्मन , इत आस्यताम् ( विजयवर्मा उपविशति )

राजा —— ( सपरितोषम् ) विजयवर्मन् , अपि जितः कोसलेश्वरः ।

विजयवर्मा —— देवस्य प्रभावेण ।

राजा —— विजयवर्मन् , तत् कथय कथामतिविस्तरतः श्रोतुमिच्छामि ।

विजयवर्मा —— देव , श्रूयताम् । इतो देवादेशात् कतिपयैरेवाहोभिरनेककरितुगपत्तिदुर्निवारेण महता बलसमूहेन गत्वा रुमण्वान् विन्ध्यदुर्गाविस्थितस्य कोसलनृपतेद्वरिमवष्टभ्य सेनाः समावासयितुं समारब्धवान् ।

राजा —— ततस्ततः ।

विजयवर्मा —— ततः कोसलेश्वरोऽप्यतिदर्पात् परिभवमसहमानो हास्तिकप्रायमशेषमात्मसैन्यं सज्जीकृतवान् ।

विदूषकः —— भोः , लघ्वाचक्ष्व । वेपते मे हृदयम् । ( भो , लहुं आचक्ख । वेवदि मे हिअअं । )

राजा —— ततस्ततः ।

विजयवर्मा —— देव , कृतानिश्चयश्चासौ

योद्धं निर्गत्य विन्ध्यादभवदभिमुखस्तत्क्षणं दिग्विभागान्

विन्ध्येनेवापरेण द्विपपतिपृतनापीडबन्धेन रुन्धन् ।

वेगाद् बाणान् विमुञ्चन् समदगजघटोत्पिष्टपत्तिर्निपत्य

प्रत्यैच्छद् वाञ्छिताप्तिद्विगुणितरभसस्तं रुमण्वान् क्षणेन ॥५॥

अपि च

अस्त्रव्यस्तशिरस्त्रशस्त्रकषणैः कृत्तोमाङ्गे क्षणं

व्यूढासुक्सरिति स्वनत्प्रहरणे वर्मोद्गमद्वह्रिनि ।

आहूयाऽजिमुखे स कोसलपतिर्भग्ने प्रधान बले

एकेनैव रुमण्वता शरशतैर्मत्तद्विपस्थो हतः ॥६॥

विदूषकः —— जयतु जयतु भवान् । जितमस्माभिः । ( जेदु जेदु भवं । जिदं अम्हेहि । ) ( इति नृत्याति )

राजा —— साधू कोसलपते , साधु । मृत्युरपि ते श्लाघ्यः यस्य हि रिपवोऽपि पुरुषकारमेवं वर्णयन्ति । ततस्ततः ।

विजयवर्मा —— देव , ततो रुमण्वानपि कोसलेषु मद्भ्रातरं ज्यायासं जयवर्माणं स्थापयित्वा प्रहारव्रणिताहास्तिकप्रायमशेषसैन्यमनुवर्तमानः शनैःशनैरागच्छत्येव ।

राजा —— वसुंधरे , उच्यतां यौगन्धरायणः । प्रदर्शतां मत्प्रसादस्य विभव इति ।

वसुंधरा —— यद् देव आज्ञापयतीति । ( जं देवो आण्णवेदित्ति । ) इति विजयवर्मणा सह निष्क्रान्ता । )

( ततः प्रविशति काञ्चनमाला)

काञ्चनमाला —— आज्ञाप्ताऽस्मि देव्या यथा । गच्छ हञ्जे काञ्चनमाले , एतमैन्द्रजालिकमार्यपुत्रस्य दर्शय । ( इति परिक्रम्यावलोक्य च ) एष खलु भर्ता । तद् यावेदनमुसर्पामि । ( उपसृत्य ) जयतु जयतु भर्ता । भर्तः , देवी विज्ञापयति ।

एष खलूज्जयिनीतः संवरणसिद्धनामैन्द्रजालिक आगतः । तत् प्रेक्षतु भर्ता । ( आण्णत्तम्हि देवीए जह । गच्छ हंजे कंचणमाले , एदं इंदजालिअं अज्जउत्तस्स दंसेहि । एसो खु भट्टा । ता जावणं उवसप्पामि । जेदु जेदु भट्टा । भट्टा , देवी विण्णवेदि । एसो खु उज्जयिणीदो संवरणासिद्धि णाम इंदजालिओ आअदो । ता नेक्खदु भट्टा । )

राजा —— अस्ति नः कौतुकमिन्द्रजाले । ततः शीघ्रं प्रवेशय ।

काञ्चनमाला —— यद् भर्ताऽऽज्ञापयति । ( इति निष्क्रम्य पिच्छिकाहस्तेनैन्द्रजालिकेन सह प्रविशति । ) भर्तः , एष ऐन्द्रजालिकः । ( जं भट्टा आण्णवेदि । भट्टा एसो इंदजालिओ । )

ऐन्द्रजालिकः —— ( उपसृत्य ) जयतु जयतु महाराजः ( पिच्छिकां भ्रामयित्वा )

प्रणमत चरणे इन्द्रस्यैन्द्रजालिकपिनद्धनाम्नः ।

तथैवापि शम्बरस्य सुपारिस्थितयशसः ॥७॥

( जअदु जअदु महाराओ ।)

पणमह चलणे इंदस्स इन्दजालिअपिणद्धणामस्स ।

तह जेव्व वि संबरस्स सुपरिट्ठिदजसस्स ॥ )

महाराज कौशाम्बीपते , किं बहुना ।

किं धरण्यां मृगाङ्क आकाशे महीधरो जले ज्वलनः ।

मध्याह्ने प्रदोषो दर्शयामि देह्याज्ञप्तिम् ॥८॥

( महाराज कोसंबीपते किं बहुणा किं धरणिए मिअंको आआसे महिअओ जले जलणो । मज्झण्हम्हि पओसो दाविज्जइ देहि आण्णत्ति ॥॥)

विदूषकः —— भो वयस्य , अवहितो भव ईदृशोऽस्यावष्टम्भो येन सर्वमपि संभाव्यते । ( भो वअस्स , अवहिदो होहि । ईदिसो से अवट्ठंभो जेण सव्वं सम्भाविअदि । )

ऐन्द्रजालिकः —— देव ,

किं जल्पितेन बहुना यद् यद् हृदये समीहितं द्रष्टुम् ।

तत् तद् दर्शयाम्यहं गुरोर्मन्त्रप्रभावेण ॥

देव , जप्पिदेण बहुणा जं जं हिअए समीहिदं दट्ठुं ।

तं तं दावेमि गुरुणो मंतप्पहावेण ॥९॥

राजा —— भद्र , तिष्ठ तावत् । काञ्चनमाले , उच्यतां देवी । युष्मदीय एवायमैन्द्रजालिकः । विजनीकृतश्चायमुद्देशः । तदागच्छ । सहितावेव पश्यावः ।

काञ्चनमाला —— यद् भर्ताऽऽज्ञापयति । जं भट्टा आण्णवेदि । ( इति निष्क्रम्य वासवदत्तया सह प्रविशति )

वासवदत्ता —— काञ्चनमाले , उज्जयिनीत आगत इत्यस्ति मे तस्मिन्नैन्द्रजालिके पक्षपातः । कांचनमाले , उज्जइणीदो आअदेत्ति अत्थि मे तस्सि इंदजाणेंलए वक्खवादो ।

काञ्चनमाला —— नाभिकुलबहुमानः खलु एष देव्याः । तदेतु एतु भट्टिनी । ( णभिउलबहुमाणो खु एसो देवीए । ता एदु एदु भट्टिणी । )

( इति परिक्रामतः)

काञ्चनमाला —— भट्टिनि , एष भर्ता । तदुसर्पतु देवी । भट्टिणे , एसो भट्टा । ता उवसप्पदु देवी

वासवदत्ता —— ( उपसृत्य ) जयत्वार्यपुत्रः जेदु अज्जउत्तो ।

राजा —— देवि , बहुतरमनेन गर्जितम् । तदिहस्थावेव पश्यावस्तावत् ।

( वासवदत्ता उपविशति)

राजा —— भद्र , प्रस्तूयतां बहुविधमिन्द्रजालम् ।

ऐन्द्रजालिकः —— यद् देव आज्ञापयति । ( बहुविधं नाट्यं कृत्वा पिच्छिकां भ्रामयन् ) जं देवो आण्णवेदि ।

हरिहरब्रह्मप्रमुखान् देवान् दर्शयामि देवराजं च ।

गगनेऽपि सिद्ध विद्याधरवधूसार्थ च नृत्यन्तम् ॥१०॥

हरिहरबम्हप्पमुहं देव दावेमि देवराअं अ ।

गअणे वि सिद्धविज्जाहरवहुसत्थं ण णच्चंतं ॥१०॥

( सर्वे सविस्मयं पश्यन्ति)

राजा —— ( ऊर्ध्व दृष्ट्वाऽऽसनादवतरन् ) आश्चर्यमाश्चर्यम् । देवि , पश्य ।

एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शंकरोऽयं

दोर्भिदैत्यान्तकोऽसौ सधनुरसिगदाचक्रचिह् नैश्चतुर्भिः ।

एषोऽप्यै रावतस्थस्त्रिदशपतिरमी देवि , देवास्तथाऽन्ये

नृत्यन्ति व्योम्नि चैताश्चलचरणरणन्नूपुरा दिव्यनार्यः ॥११॥

वासवदत्ता —— आश्चर्यम् आश्चर्यम् । ( अच्चरिअं अच्चरिअं । )

विदूषकः ( अपवार्य ) आः दास्याःपुत्र ऐन्द्रजालिक , किमेतैर्देवैरप्सरोभिश्च दर्शितैः । यदि ते अनेन परितुष्टेन कार्यं तद् दर्शय सागरिकाम् ।

( हा दासीए उत्त इंदजालिअ, किं एदेहि देवेहि अच्छराहिं च दंसिदाहिं । जइ दे इमिणा परितुठ्ठेण कज्जं ता दंसेहि साअरिअं ।)

( ततः प्रविशति वसुंधरा)

वसुंधरा —— जयतु जयतु भर्ता । अमात्ययौगन्धरायणो देवस्य चरणयुगल इदं विज्ञापयति । एष खलु विक्रमबाहुना प्रधानामात्यो वसुभूतिः कञ्चुकिना सहानुप्रेषितः । तदेनमर्हसि देवः अस्मिन्नेव सुमुहूर्ते प्रेक्षितुम् । अहमपि कार्यशेषं समाप्याऽगत एव । जेदु जेदु भट्टा । अमच्चजोअंधराअणो देवस्स चलणजुअले इदं विण्णवेदि । एसो खु विक्कमबाहुणा पहाणमंचो वसुभूदी कच्चुइणा सह अणुप्पेसिदो । ता णं अरिहदि देवो इमस्सि एव्व सुमुहुत्तए पेक्खिदुं । अहंपि कज्जसेसं समप्पिअ आअदो जेव्व ।

वासवदत्ता —— आर्यपुत्र , तिष्ठतु तावदिन्द्रजालम् । मातुलकुलादर्योऽमात्यप्रधानो वसुभूतिरागतः । तदेनं तावत् प्रेक्षतामर्यपुत्रः । अज्जउत्त , चिटठदु दाव इंदजाल । माउलकुलादो अज्जो अमच्चपधाणो वसुभूदी आअदो । ता एदं दाव पेक्खदु अज्जउत्तो ।

राजा —— यथाऽऽह देवी । ( ऐन्द्रजालिकं प्रति ) भद्र , विश्राम्यतामिदानीम् ।

ऐन्द्रजालिकः —— ( पुनः पिच्छिकां भ्रामयति ) यद् देव आज्ञापयति । ( निष्क्रामन् ) एकः पुनर्मम खेलोऽवश्यं देवेन प्रेक्षितव्यः । जं देवी आण्णवेदि । एक्को उण मह खेलओ अवस्सं देवेण पेक्खिदव्वो ।

राजा —— भद्र , एवं द्रक्ष्यामः ।

वासवदत्ता —— काञ्चनमाले , गच्छ त्वम् । देह्यस्य पारितोषिकम् । कंचणमाले , गच्छ तुमं । देहि से पारितोसिअं ।

काञ्चनमाला —— यद् देव्याज्ञापयति । जं देवी आण्णवेदि ( ऐन्द्रजालिकेन सह निष्क्रान्ता )

राजा —— वसन्तक , प्रत्युद्गम्य प्रवेश्यतां वसुभूतिः ।

विदूषकः —— यद् भर्ता आज्ञापयति । जं भट्टा आण्णवेदि । ( इति निष्कान्तः )

( ततः प्रविशति वसन्तकेन प्रत्युगम्यमानो वसुभूतिर्बाभ्रव्यश्च)

वसुभूतिः —— ( समन्तादवलोक्य । ) अहो वत्सेश्वरस्यानुभावः । तथाहि

आक्षिप्तो जयकुञ्जरेण तुरगान् निर्वर्णयन् वल्लभान्

संगीतध्वनिना हृतः क्षितिभृतां गोष्ठीषु तिष्ठन् क्षणम् ।

सद्यो विस्मृतसिंहलेशविभवः कक्ष्याप्रदेशेऽप्यहो

द्वाःस्थेनैव कुतूहलेन महता ग्राम्यो यथाऽहं कृतः ॥१२॥

बाभ्रव्यः —— वसुभूते , अद्य खलु चिरात् स्वामिनं द्रक्ष्यामीति यत्त्यसमानन्दातिशयेन किमप्यवस्थान्तरमनुभवामि । कृतः

विवृद्धिं कम्पस्य प्रथयतितरां साध्वसवशा

दविस्पष्टां दृष्टिं तिरयतितरां बाष्पसलिलैः ।

स्खलद्वर्णां वाणीं जडयतितरां गद्गदतया

जरायाः साहाय्यं मम हि परितोषोऽद्य कुरुते ॥१३॥

विदूषकः —— ( अगे्र भूत्वा ) एतु एतु अमात्यः । एदु एदु अमच्चो ।

वसुभूतिः —— ( विदूषकस्य कण्ठे रत्नमालां दृष्ट्वा अपवार्य ) बाभ्रव्य , जाने सैवेयं रत्नमाला या देवेन राजपुत्र्यै प्रस्थानसमये दत्तेति ।

बाभ्रव्यः —— अमात्य , अस्ति सादृश्यम् । तत् किं वसन्तकादवगच्छामि प्रभवमस्याः ।

वसुभूतिः —— बाभ्रव्य , मर मैवम् । महति राजकुले रत्नबाहुल्यान् न दुर्लभो भूषणानां संवादः ।

विदूषकः —— ( राजानमुद्दिश्य ) एष महाराजः । तदुपसर्पत्वमात्यः । ( एसो महाराओ । ता उवसप्पदु अमच्चो । )

वसुभूतिः —— ( उपसृत्य ) जयतु देवः ।

राजा —— ( उत्थाय ) अभिवादये ।

वसुभूतिः —— अतिश्रेयांस्त्वं भूयाः ।

राजा —— आसनमासनमार्याय ।

विदूषकः —— ( आसनमादाय ) भोः , इदमासनम् । उपविशत्वमात्यः । ( भोः एदमासणं । उवविसदु अमच्चो । )

( वसुभूतिरूपविशति)

बाभ्रव्यः —— देव , बाभ्रव्यः प्रणमति ।

राजा —— ( पृष्ठे हस्तं दत्त्वा ) बाभ्रव्य , इत आस्यताम् ।

विदूषकः —— अमात्य , एषा देवी वासवदत्ता प्रणमति । ( अमच्च , एसा देवी वासवदत्ता पणमदि । )

वासवदत्ता —— आर्य , प्रणमामि । ( अज्ज पणमामि । )

वसुभूतिः —— आयुष्मति , वत्सराजेसदृशं पुत्रमाप्नुहि ।

( सर्व उपविशन्ति)

राजा —— आर्य वसुभूते , अपि कुशलं तत्रभवतः सिंहलेश्वरस्य ।

वसुभूतिः —— ( ऊर्ध्वमवलोक्य निःश्वस्य च ) देव , न जाने किं विज्ञापयामि मन्दभाग्यः । ( अधोमुखस्तिष्ठति )

वासवदत्ता —— ( सविषादमात्मगतम् ) हा धिक् हा धिक् । किमिदानीं वसुभूतिः कथयिष्यति । ( हद्धी । किं दाणिं वसुभूदी कथइस्सादि । )

राजा —— वसुभूते , कथय । किमेव मा पर्याकुलयसि ।

बाभ्रव्यः —— ( अपवार्य ) चिरमपि स्थित्वा यत् कथनीयं तदिदानीमेव कथ्यताम् ।

वसुभूतिः —— ( सास्रम् ) देव न शक्यं निवेदयितुम् । तथाऽप्येष कथयामि मन्दभाग्यः । याऽसौ सिंहलेश्वरेण स्वदुहिता रत्नावली नामाऽयुष्मती वासवदत्तां दग्धामुपश्रुत्य देवाय पूर्वप्रार्थिता सती दत्ता ।

राजा —— ( अपवार्य ) देवि , किमिदमिदानीमलीकं त्वदीयमातुलामात्यः कथयति ।

वासवदत्ता —— ( विमृश्य ) आर्यपुत्र , अहमपि न जानामि कोऽत्रालीकं मन्त्रयते । अज्जउत्त , अहं विण जाणामि को एत्थ अलिदं मतेदि ।

विदूषकः —— तस्याः किं संवृत्तम् । ( ताए किं संवृत्तं । )

वसुभूतिः —— सा च युष्मदन्तिकमस्माभिरानीयमाना समुद्रे यानभङ्गान् निमग्ना । ( इति रुदन्नधोमुखस्तिष्ठति । )

वासवदत्ता —— ( सास्रम् ) हा हताऽस्मि मन्दभागिनी । हा भगिनिके रत्नावलि ! क्वेदानीमसि । देहि मे प्रतिवचनम् । हा हदम्हि मंदभाइणी । हा बहिणिए रअणावलि !

कहिं दाणिं सि । देहि मे पडिवअणं ( इति मूर्च्छिता पतति । )

राजा —— समाश्वसिहि समाश्वसिहि । दुरवगाहा गतिर्देवस्य । वाहनभङ्गपतितोत्थितौ नन्वेतोवेव मे निदर्शनम् । ( इति वसुमतिबाभ्रव्यौ दर्शयति )

वासवदत्ता —— आर्यपुत्र , युज्यत एवम् । परं कुतो ममैतावद् भागधेयम् । अज्जउत्त , जुज्जदि एव्वं । परं कुदो मम एत्तिअ भाअधेअं ।

राजा —— ( अपवार्य ) बाभ्रव्य , किमेवमिति सर्वथा नावगच्छामि ।

बाभ्रव्यः —— देव , श्रूयताम् ।

( नेपथ्ये महान् कलकलः)

हर्म्याणां हेमशृङगश्रियमिव निचयैरचिंषामादधानः

सान्द्रोद्यानद्रुमाग्रग्लपनपिशुनितात्यन्ततीव्राभितापः ।

कुर्वन् क्रीडामहीघ्रं सजलजलधरश्यामलं धूमपातै -

रेष प्लोषार्तयोषिज्जन इह सहसैवोत्थितोऽन्तःपुरेऽग्निः ॥१४॥

( सर्वे संभ्रान्ताः पश्यन्ति)

राजा —— कथमन्तःपुरेऽग्निः । ( संसभ्रममुत्थाय ) कष्टं , देवी वासवदत्ता दग्धा ।

देवीदाहप्रवादोऽयं योऽभूल् लावाणके पुरा ।

करिष्यन्निव तत् सत्यमत्राग्निरयमुत्थित ॥१

वासवदत्ता —— आर्यपुत्र , मयाऽऽमनः कृते न भणितम् । कि पुनरेषा खलु मया निर्घुणयेह निगडे यंयमिता सागरिका विपद्यते । तत् परित्रायतामार्यपुत्रा । ( अज्जउत्त , मए अत्तणो किदे ण भणिदं । किं उण एसा खु मए णिग्घिणाए इह णिअडे संजमिदा साअरिआ विवज्जेदि । ता परित्ताअदु अज्जउत्तो । )

राजा —— कथं देवि , सागरिका विपद्यते । एष गच्छामि ।

वसुभूतिः —— देव , किमिदमकारणमेव पतङ्गवृत्तिः क्रियते ।

बाभ्रव्यः —— ( राजानमुत्तरीये गृहीत्वा ) भोः , मा खलु साहसं कुरु । भो , मा खु साहसं करेहि ।

राजा —— ( उत्तरीयमाकर्षन् ) अरे धिङ मूर्ख , सागरिका विपद्यते । किमद्यापि प्राणाः परिरक्ष्यन्ते । ( ज्वलनप्रवेशं नाटयित्वा धूमाभिभवं नाट्यति )

विरम विरम वह् ने मुञ्च धूमानुबन्धं

प्रकटयासि किमुच्चरैरचिषां चक्रवालम् ।

विरहहुतभुजाऽहं यो न दग्धः पियायाः

प्रलयदहनभासा तस्य किं त्वं करोषि ॥१६॥

वासवदत्ता —— कथं मम दुःखारिण्या वचनादेवं व्यवसितमार्यपुत्रेण । तदहमपि आर्यपुत्रमेवानुगामिष्यामि । ( कधं दमम दुक्खआइणीए वअणादो एव्वं व्यवसिदं अज्जउत्तेण । ता अहंपि अज्जउत्तं जेव्व अणुगमिस्सं । )

विदूषकः —— ( परिक्रामन्नगतो भूत्वा ) भवति , अहमपि ते पथ्युपदेशको भवामि । ( भोदि , अहंवि दे पंथोवदेसको होमि । )

वसुभूतिः —— कथं प्रविष्ट एव ज्वलनं वत्सराजः । तन् ममापि दृष्टराजपुत्रीविपत्तेर्युक्तमिहैवाऽत्मानमाहुतीकर्तुम् ।

बाभ्रव्यः —— ( सास्रम् ) हा महाराज , किमिदमकारणमेव भरतकुलं संशयतुलामारोपितम् । अथवा कि प्रलापेन । अहमपि भक्तिसदृशमाचरामि । ( इति सर्वेऽग्निप्रवेशं नाट्यन्ति )

राजा —— ( दक्षिणबाहुस्पन्दं निरूप्य ) एतदवस्थस्य मम कुत एतत्फलम् । ( अग्रतोऽवलोक्य सहर्षोद्वेगम् ) कथमासन्नहुतवहा वर्तते सागरिका । त्वरितमेनां संभावयामि ।

( ततः प्रविशति निगडसंयता सागरिका)

सागरिका —— ( समन्तादवलोक्य , हा धिक् । आसमन्ततः प्रज्वलितो हुतवहः अद्य हुतवहो दिष्ट्या करिष्यति मे दुःखातवसानम् । हद्धी । आसमंतदो प्पज्जलिदो हुदवहो । अज्ज हुदवहो दिटिआ करिस्सादि मे दुक्खावसाणं । )

राजा —— ( त्वरितमुपसृत्य ) अयि प्रिये , किमद्यापि मध्यस्थतया वर्तसे ।

सागरिका —— ( राजानं दृष्ट्वा आत्मगतम् ) कथमार्यपुत्रः । तदेन प्रेक्ष्य पुनरपि मे जिविताशा संवृत्ता । प्रकाशम् ) भर्तः परित्रायस्व । ( कथं उज्जउत्तो । ता एदं पेक्खिअ पुणोवि मे जीविदासा संवुत्ता । भट्टा , परित्ताहि ।

राजा —— भीरु , अलं भयेन ।

मुहूर्तमपि सह्यतां बहुल एष धूमोद्गमो

( अग्रतो विलोक्य) हहा धिगिदमंशुकं ज्वलति ते स्तनात् प्रच्युतम् ।

( विलोक्य) मुहुः स्खलसि किं कथं निगडसंयताऽसि द्रुतं

नयामि भवतीमितः प्रियतमेऽवलम्बस्व माम् ॥१७॥

( कण्ठे गृहीत्वा निमीलिताक्षः स्पर्शसुख नाट्यन्) अहो क्षणादपगतोऽयं मे संतापः । प्रिये, समाश्वसिहि ।

व्यक्तं लग्नोऽपि भवतों न धक्ष्यति हुताशनः ।

यतः संतापमेवायं स्पर्शस्ते हरति प्रिये ॥१८॥

( अक्षिणी समुन्मील्य निरीक्ष्य च ।) अहो महदाश्चर्यम् । क्वासो प्रज्वलनो हुताशनः । तदवस्थमेतदन्तःपुरम । कथमचित्यरूपमेवम् ।

वासवदत्ता —— ( राज्ञः शरीरं परामृशन्ती सहर्षम् ) दिष्ट्या अक्षतशरीर आर्यपुत्रः । ( दिट्टिआ अक्खदसरीरो अज्जउत्तो । )

राजा —— बाभ्रव्य एषः ।

बाभ्रव्यः —— पुनरुच्छ्वसिताः स्मः ।

राजा —— वसुभूतिरयम् ।

वसुभूतिः —— देव , दिष्ट्या वर्धसे ।

राजा —— वसन्तकोऽयम् ।

विदूषकः —— जयतु जयतु भवान् । ( जेदु जेदु भवम् । )

राजा —— ( विचिन्त्य सवितकर्म् ) स्वप्नोऽमिति भाति । किं न्विदमिन्द्रजालम् ।

विदूषकः —— भोः , मा संदेह कुरु । इन्द्रजालं खल्वेतत् । भणितं तेन दास्यापुत्रेण ऐन्द्रजालिकेन यथाऽवश्यमेव ममैकः खेलनको देवेन प्रेक्षितव्य इति । तत् तदेवैतत् ।

( भो, मा संदेह करेहि । इंद्रजाल खु एदं । भणिदं तेण दासीए पुत्तएण इंदिआलिएण जधा अवस्सं ज्जेव्व मम एक्को खेलणओ देवेण पेक्खिदव्वोत्ति । ता तं ज्जेव्व एदं ।)

राजा —— देवि , इयं त्वद्वचनादस्माभिरिहाऽनीता सागरिका ।

वासवदत्ता —— ( विहस्य ) आर्यपुत्र , ज्ञातं ते सर्वम् ।

वसुभूतिः —— ( सागरिकां दृष्ट्वा अपवार्य ) बाभ्रव्य , सदृशीयं राजपुत्र्या ।

बाभ्रव्यः —— अमात्य , ममाप्येतदेव मनसि वर्तते ।

वसुभूतिः —— ( प्रकाश राजानमुद्दिश्य ) देव , कुत इयं कन्यका ।

राजा —— देवी जानाति ।

वसुभूतिः —— देवि , कुतः पुनरियं कन्यका ।

वासवदत्ता —— अमात्य , एषा खलु सागरात् प्राप्तेति भणित्वाऽमात्ययौगन्धरायणेन मम हस्ते निक्षिप्ता । अत एव सागरिकेति शब्दायते । अमच्च , एसा खु साअरदो पाविदेत्ति भणिअ अमच्चजोअंधराअणेण मम हत्थे णिक्खित्ता । अदो एव्व साअरिआत्ति सद्दाईअदि ।

राजा —— ( स्वागतम् ) कथं यौगन्धरायणेन न्यस्ता । कथमसौ मामनिवेद्य किंचित् करिष्यति ।

वसुभूतिः —— ( अपवार्य ) बाभ्रव्य , यथा सुसदृशी वसन्तकस्य कण्ठे रत्नमाला , अस्या अपि सागरात् प्राप्तिः , तथा व्यक्तं सिंहलेश्वरस्य दुहिता रत्नावलीयम् । ( इत्युपसृत्य प्रकाशम् ) आयुष्मति रत्नावलि राजपुत्रि , त्वमीदृशीमवस्थां गताऽसि ।

सागरिका —— ( वसुभूतिं दृष्ट्वा सास्रम् । ) कथममात्यो वसुभूतिः । कहं अमच्चो वसुभूदी ।

वसुभूतिः —— हा हतोऽस्मि मन्दभाग्यः । ( इति भूमौ पतति )

सागरिका —— हा हताऽस्मि मन्दभागिनी ! हा तात , हा अम्ब ! कुत्रासि । देहि मे प्रतिवचनम् । हा हदम्मि मंदभाइणी ! हा ताद हा अंब ! कहिं सि । देहि मे पडिवअणं ।

( इत्यात्मानं पातयन्ती मोहमुपगता)

वासवदत्ता —— ( ससंभ्रमम् ) कञ्चुकिन् , इयं सा मम भगिनिका रत्नावली । कंचुइ , हयं सा मम बहिणिआ रअणावली ।

बाभ्रव्यः —— देवि , इयमेव सा ।

वासवदत्ता —— ( रत्नावलीमालिङ्ग्य़ ) भगिनि , समाश्वासिहि समाश्वसिहि । बहिणि , समस्स समस्सस ।

राजा —— कथमुदात्तवंशप्रभवस्य सिंहलेश्वरस्य विक्रमबाहोरात्मजेयम् ।

विदूषकः —— ( स्वागतम् ) रत्नावलीं दृष्टवा प्रथममेव ज्ञातं मया न खलु सामान्यजनस्येदृशपरिच्छदो भवतीति । रअणावलीं दिट्ठअ पढमे एव्व जाणिदं मए ण खु सामण्णजणस्स ईदिसो परिच्छदो होदित्ति ।

वसुभूतिः —— ( उत्थाय ) राजपुत्रि , समाश्वसिहि समाश्वसिहि । नन्वियं ज्यायसी ते भगिनी दुःखमास्ते । तत् परिष्वजस्वैनाम् ।

रत्नावली —— ( समाश्वस्य राजानं तिर्यगवलोक्य स्वगतम् ) कृतापराधा खल्वहं देव्या न शक्नोमि मुखं दर्शयितुम् । किदाबराधा खु अहं देवीए ण सक्कणोमि मुहं दंसिदुं ।

( इत्यघोमुखी तिष्ठति)

वासवदत्ता —— ( सास्रं बाहू प्रसार्य ) एहि । अतिनिष्ठुरे , इदानी प्रियभगिनिके , स्नेहं दर्शय । एहि । अदिणिठुरे , दाणिं पिअबहिणिए , सिणेहं दंसेहि । ( इति कण्ठे गृहएति )

( रत्नावली स्खलितं नाटयति)

वासवदत्ता —— ( अपवार्य ) आर्यपुत्र , लज्जेऽहमेतेनाऽत्मनो नृशंसत्वेन । तल् लघ्वपनयास्या एतद् बन्धनम् । अज्जउत्त , लज्जेमि अहं इमिणा अत्तणो णिसंसत्तेण । ता लहुं अवणेहि से एदं बंधणं ।

राजा —— ( सपरितोषम् ) यथाऽऽह देवी । ( इति सागरिकाया बन्धनमपनयति )

वासवदत्ता —— आर्यपुत्र , अमात्ययौगन्धरायणेनैतावत्कालं दुर्जनीकृताऽस्मि । येन जानताऽपि न मे निवेदितम् । अज्जउत्त , अमच्चजोअंधराअणेन एत्तिअकालं

दुज्जणीकिदम्हि । जेण जाणंतेवि ण मे णिवेदिदं ।

( ततः प्रविशति यौगन्धरायणः)

यौगन्धरायणः ——

देव्या मद्वचनात् प्रथामुपगतः पत्युर्वियोगस्तदा

सा देव्यन्यकलत्रसंघटनया दुःखं परं प्रपिता ।

तस्याः प्रीतिमयं करिष्यति जगत्स्वामित्वलाभेः प्रभोः

सत्यं दर्शयितुं तथाऽपि वदनं शक्नोमि नो लज्जया ॥१९॥

अथवा किं क्रियते । ईदृशमत्यन्तमाननीयेष्वपि निरनुरोधवृत्ति स्वामिभक्तिव्रतम् । ( निरूप्य ) अयं देवो महाराजः । यावदुपसर्पामि । ( उपसृत्य ) जयतु जयतु देवः । ( पादयोर्निपत्य ) देव , क्षम्यतां यन् मयाऽनिवेद्य कृतम् ।

राजा —— कथय , किमनिवेद्य कृतम् ।

यौगन्धरायणः —— करोत्वासनपरिग्रहं देवः । सर्व विज्ञापयामि ।

( सर्वे राज्ञा सह यथास्थानमुपविशन्ति)

यौगन्धरायणः —— देव , श्रूयताम् । येयं सिंहलेश्वरस्य दुहिता सा सिद्धेनाऽदिष्टा यथाः योऽस्याः पाणिग्रहणं करिष्यति स सार्वभौमो राजा भविष्यति । ततस्तत्प्रत्ययादस्माभिः स्वामिनोऽर्थे बहुशः प्रर्थ्यमानेनापि सिंहलेश्वरेण देव्या वासवदत्तायाश्चित्तखेदं परिहरता यदा न दत्ता ——

राजा —— तदा किम् ।

यौगन्धरायणः —— ( सलज्जम् ) तदा लावाणकेन वह्निना देवी दग्धेति प्रसिद्धिमुत्पाद्य तदन्तिकं बाभ्रव्यः प्रहितः ।

राजा —— यौगन्धरायण , तः परं श्रुतं मया । अथेय देवीहस्ते किमित्यनुचिन्त्य स्थापिता ।

विदूषकः —— भोः , एतस्याभिप्रायो मया ज्ञातः । अनाख्यातमप्येतज् ज्ञायत एव यथाऽन्तःपुरगता सुखेन ते दर्शनपथं गमिष्यतीति । भो , एदस्य अभिप्पाओ मए जाणिदो ।

अणाचक्खिदं वि एदं जाणीअदि एव्व , जधा अंतेउरगदा सुहेण दे दंसणपधं गमिस्सदित्ति ।

राजा —— यौगन्धरायण , गृहीतस्तेऽभिप्रायो वसन्तकेन ।

यौगंधरायणः —— यदाज्ञापयति देवः ।

राजा —— ऐन्द्रजालिकवृत्तान्तोऽपि मन्ये त्वत्प्रयोग एव ।

यौगन्धरायणः —— अन्यथाऽन्तःपुरे बद्धाया अस्याः कुतो देवेन दर्शनम् । अदृष्टायाश्च वसुभूतिना कृतः परिज्ञानम् । ( विहस्य ) परिज्ञातायाश्च भगिन्याः संप्रति यथा करणीयं तत्र देवी प्रमाणम् ।

वासवदत्ताः —— ( सस्मितम् ) आर्य अमात्य , स्फुटमेव किं न भणसि यथाऽऽर्यपुत्रे प्रतिपादय रत्नावलीमिति । ( इति रत्नावलीं स्वकीयैराभरणैरलंकृत्यं हस्ते गृहीत्वा राजानमुपसृत्य ) देव , प्रतीच्छैतां रत्नावलीम् । ( अज्ज अमच्च , फुडं एव्व किं ण भणासि जहा अज्जउत्ते पडिवादेहि रअणावलिंत्ति । देव , पडिच्छ एदं रअणावली )

राजा —— ( सहर्ष हस्तौ प्रसार्य ) को देव्याः प्रसादो न बहु मन्यते । ( इति सागरिकां गृहूणाति )

वासवदत्ता —— आर्यपुत्र , दूरे खल्वेतस्या नाभिकुलम् । तत् तथा कुरू यथा बन्धुजनं न स्मरति । अज्जउत्त , दूरे खु एदाए ण्णाभिउलं । ता तह करेदु जह बंधुजणं ण सुमरेदि । ( इति समर्पयति )

राजा —— यथाऽऽज्ञापयति देवी ।

विदूषकः —— ( सहर्ष नृत्यति ) पृथ्वी खल्विदानीं हस्ते गता प्रियवयस्यस्य । पुहवी खु दाणिं हत्थे गदा पिअवअस्सस्स ।

वसुभूतिः —— राजपुत्रि , वासवदत्तां प्रणामेनार्चय ।

( रत्नावली तथा करोति)

बाभ्रव्यः —— देवि , स्थाने देवीशब्दमुद्वहसि । इदानीं सफलपरिश्रमोऽस्मि संवृत्तः ।

यौगन्धरायणः —— देव , तदुच्यतां कि ते भूयः प्रियं करोमि ।

राजा —— किमतःपरमपि प्रियमस्ति । यतः

नीतो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले

सारं सागरिका तथा च भुवनप्राप्यैकहेतुः प्रिया ।

देवी प्रीतिमतुपागता च भगिनीलाभाज् जिताः कोसलाः

किं नास्ति त्वयि सत्यमात्यवुषभे यस्मै विधेयं स्पृहाम् ॥२०॥

तथापीदमस्तु । ( भरतवाक्यम् )

उर्वीमुद्दामस्यां जनयतु विसृजन् वासवो वृष्टिमिष्टा -

मिष्टैस्त्रैविष्टपानां विदधतु विधिवत् प्रीणनं विप्रमुख्याः ।

आकल्पान्तं च भूयात् समुपचितसुखः संगमः सज्जनानां

निःशेषं यान्तु शान्ति पिशुनजनगिरो दुर्जया वज्रलेपाः ॥२१॥

( इति निष्क्रान्ताः सर्वे)

इति ऐन्द्रजालिको नाम चतुर्थोऽङ्कः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP