द्वितीयप्रश्ने - त्रयोदशोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था ॥१॥
बहवः स्युरनिन्दिताः स्वकर्मसु प्रात्ययिका
राज्ञां निष्प्रीत्यनभितापाश्चान्यतरस्मिन् ॥२॥
अपि शूद्राः ॥३॥
ब्राह्मणस्त्वब्राह्मणवचनादनवरोध्योऽनिबद्धश्चेत् ॥४॥
नासमवेतापृष्टाः प्रबूयुः ॥५॥
अवचनेऽन्यथावचने च दोषिणः स्युः ॥६॥
स्वर्गः सत्यवचने विपर्यये नरकः ॥७॥
अनिबद्धैरपि वक्तव्यम् ॥८॥
न पीडाकृते निबन्धः ॥९॥
प्रमत्तोक्ते च ॥१०॥
साक्षिसभ्यराजकर्तृषु दोषो धर्मतन्त्रपीडायाम् ॥११॥
शपथेनैके सत्यकर्म ॥१२॥
तद्देवराजब्राह्मणसंसदि स्यादब्राह्मणानाम् ॥१३॥
क्षुद्रपश्वनृते साक्षी दश हन्ति ॥१४॥
गोश्वपुरुषभूमिषु दशगुणोत्तरान् ॥१५॥
सर्वं वा भूमौ ॥१६॥
हरणे नरकः ॥१७॥
भूमिवदप्सु ॥१८॥
मैथुनसंयोगे च ॥१९॥
पशुवन्मधुसर्पिषोः ॥२०॥
गोवद्वस्त्रहिरण्यधान्यब्रह्मसु ॥२१॥
यानेष्वश्‍ववत् ॥२२॥
मिथ्यावचने याप्यो दण्डयश्च साक्षी ॥२३॥
नानृतवचने दोषो जीवनं चेत्तदधीनम् ॥२४॥
न तु पापीयसो जीवनम् ॥२५॥
राजा प्राङ्‌विवाको ब्राह्मणो वा शास्त्रवित् ॥२६॥
प्राड्‌विवाकमध्याभवेत् ‌ ॥२७॥
संवत्सरं प्रतीक्षेताप्रतिभायाम् ॥२८॥
धेन्वनुडुत्त्रीप्रजननसंयुक्ते च शीघ्रम् ॥२९॥
आत्ययिके च ॥३०॥
इति श्रीहरदत्तविरचितायां गौतमसूत्रविवृतौ मिताक्षरायां
त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP