द्वितीयप्रश्ने - एकादशोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


राजा सर्वस्येष्टे ब्राह्मनवर्जम् ॥१॥
साधुकारी साधुवादी ॥२॥
त्रय्यामान्वीक्षिक्यां वाऽभिविनीतः ॥३॥
शुचिर्जितेन्द्रियो गुणवत्सहायोपायसंपन्नः ॥४॥
समः प्रजासु स्यात् ॥५॥
हितमासां कुर्वीत ॥६॥
तमुपर्यासीनमधस्तादुपासीरन्नन्ये ब्राह्मणेभ्यः ॥७॥
तेऽप्येनं मन्येरन् ॥८॥
वर्णानाश्रमांश्च न्यायतोऽभिरक्षेत् ॥९॥
चलतश्चैतान्स्वधर्मे स्थापयेत् ॥१०॥
धर्मस्य ह्मंशभाग्भवतीति ॥११॥
ब्राह्मणं च पुरोदधीत विद्याभिजनवाग्रूपवयः -
शीलसंपन्नं न्यायवृत्तं तपस्विनम् ॥१२॥
तत्प्रसूतः कर्माणि कुर्वीत ॥१३॥
ब्रह्मप्रसूतं हि क्षत्रमृध्यते न व्यथत
इति च विज्ञायते ॥१४॥
यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस्तान्याद्रियेत ॥१५॥
तदधीनमपि ह्येके योगक्षेमं प्रतिजानते ॥१६॥
शान्तिपुण्याहस्वस्त्यनायुष्मन्मङगलसंयुक्तान्या -
भ्युदयिकानि विद्वेषणसंवननाभिचारद्विषद्‌व्यृ -
द्धियुक्तानि च शालाग्नौ कुर्यात् ॥१७॥
यथोक्तमृत्विजोऽन्यानि ॥१८॥
तस्य च व्यवहारो वेदो धर्मशास्त्रा -
ण्यङगान्युपवेदाः पुराणम् ॥१९॥
देशजातिकुलधर्माश्चाऽऽम्नायैरविरुद्धाः प्रमाणम् ॥२०॥
कर्षकवणिक्यपशुपालकुसीदिकारवः स्वे स्वे वर्गे ॥२१॥
तेभ्यो यथाधिकारमर्थान्प्रत्यवहृत्य धर्मव्यवस्था ॥२२॥
न्याय्याधिगमे तर्कोऽभ्युपायः ॥२३॥
तेनाभ्यूह्य यथास्थानं गमयेत् ॥२४॥
विप्रतिपत्तौ त्रैविद्यवृद्धेभ्यः प्रत्यवहृत्य निष्ठां गमयेत् ॥२५॥
तथा ह्यस्य निःश्रेयसं भवति ॥२६॥
ब्रह्म क्षत्र्त्रेण संपृक्तं देवपितृमनुष्यान्धारयतीति विज्ञायते ॥२७॥
दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत् ॥२८॥
वर्णाश्रमाः स्वस्वधर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय
ततः शेषेण विशिष्टदेशजातिकुलरुपायुःश्रुतचि -
त्रवित्तसुरवमेधसो जन्म प्रतिपद्यन्ते ॥२९॥
विष्वञ्चो विपरीता नश्यन्ति ॥३०॥
तानाचार्योपदेशो दण्डश्च पालयते ॥३१॥
तस्माद्राजाचार्यावनिन्द्यावनिन्द्यौ ॥३२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP