आचाराध्यायः - वर्णजातिविवेकप्रकरणम्

चित्तशुद्धीनें विचाराची योग्यता येते आणि वेदान्तविचाराने संसारापासून मोक्ष होतो , हेच ठामपणे याज्ञवल्क्यस्मृतित सांगितले आहे .


सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।

अनिन्द्येषु विवाहेषु पुत्राःसन्तानवर्धनाः ॥९०॥

विप्रान्मूर्द्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ।

अम्बष्ठः शूद्र्य़ां निषादो जातः पारवोऽपि वा ॥९१॥

वैश्याशूद्रोस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ ।

वैश्यात्तु करणः शूद्रां विन्नास्वेव विधिः स्मृतः ॥९२॥

ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहिकस्तथा ।

शूद्राज्जातस्तु चाण्डालः सर्वधर्मबहिष्कृतः ॥९३॥

क्षत्रिया मागधं वैश्याच्छूद्रात्क्षत्तारमेव च ।

शूद्रादायोगवं वैश्या जनयामास वै सुतम् ॥९४॥

माहिष्येण करण्यां च रथकारः प्रजायते ।

असत्सन्तस्तु विज्ञेया प्रतिलोमानुलोमजाः ॥९५॥

जात्युकर्षे युगे ज्ञेयः पञ्चमे सप्तमेऽपि वा ।

व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम् ॥९६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP