TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

माहात्म्य - षष्ठोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सप्ताहयज्ञाचा विधी

कुमारा ऊचुः

अथ ये सम्र्पवक्ष्यामः सप्ताहश्रवणे विधिम ।

सहायैर्वसुभिश्चैव प्रायः साध्यो विधिः स्मृतः ॥१॥

दैवज्ञं तु समाअहुय मुहुर्तं पृच्छय यत्‍नतः ।

विवाहे यादृशं वित्तं तादृशं परिकल्पयेत ॥२॥

नभस्य आश्वोनेर्जी च मार्गशीर्षः शुचिर्नभाः ।

एते मासाः काथारम्भे श्रोतृणां मोक्षसुचकाः ॥३॥

मासानां विप्र हेयानि तानि त्याज्यानि सर्वथा ।

सयायाश्चेतरे तत्र कर्वव्याः सोद्यमाश्च ये ॥४॥

देशे देशे तथा सेयं वार्ता प्रेष्या प्रयत्नतः ।

भविष्यति कथा चात्र आगन्तव्यं कुटुम्बिभिः ॥५॥

दुरेहरिकथाः केचिद्दुरेचाच्युतकीर्तनाः ।

स्त्रियः शुद्रादयो ये च तेषां बोधो यतो भवेत ॥६॥

देशे देशे विरक्ता ये वैष्णवाः कीर्तनोत्सुकाः ।

तेष्वेव पत्रं प्रेष्यं च तल्लेखनमितीरितम ॥७॥

सतां समाजो भविता सत्परात्रं सुदुर्लभः ।

अपूर्वरसरूपैवा कथा चात्र भविष्यति ॥८॥

श्रीभागवतपीयुषपानाय रसलम्पटाः ॥९॥

नावकाशः कदचिच्चेद्दिनमात्रं तथापि तु ।

सर्वथाऽऽगमनं कार्यं क्षणोऽत्रैव सुदुर्लभः ॥१०॥

एवमाकारणं तेषां कर्तव्यं विनयेन च ।

आगन्तुकांना सर्वषां वासस्थानानि कल्पयेत ॥११॥

तीर्थे वापि वने वापि गृहे वा श्रवणंमतम ।

विशाला वसुधा यत्र कर्तव्यं तत्कथास्थलम ॥१२॥

शोधनं मार्जनं भूमेर्ल्पनं धातुमण्दनम ।

गृहोपस्करमुदधुत्य गुहकोणे निवेशयेत ॥१३॥

अर्वाक्पचांहतो यत्‍नादास्तीर्णानि प्रमेलयेत ।

कर्तव्यो मण्दपः प्रोच्चैः कदलीखण्डमण्डितः । \१४॥

फलपुष्पदलैर्विष्वग्वितानेन विराजितः ।

चतुर्दिक्षु ध्वजारोपो बहुसम्पद्विराजितः ॥१५॥

ऊर्ध्व सप्तैव लोकाश्च कल्पनीयाः सविस्तरम ।

तेषु विप्रा विरक्ताश्च स्थापनीयाः प्रबोध्य च ॥१६॥

पुर्व तेषामासनानि कर्तव्यानि यथोत्तरम ।

वक्तश्चापि तदा दिव्यमासनं परिकल्पयेत ॥१७॥

उदडमुखो भवेद्वक्ता श्रोता वै प्राडमुखस्तदा ।

प्राडमुखश्चैद्भद्वक्ता श्रोत चोदडमुखस्तदा ॥१८॥

अथव पूर्वदिग्ज्ञेया पुज्यपुजकमध्यतः ।

श्रोतृणामागमे प्रोक्ता देशकालादिकोविदैः ॥१९॥

विरको वैष्णवो विप्रो वेदशास्त्रविशुद्धिकृत ।

दृष्टान्तकुशलो धीरो वक्ता कर्योऽतिनिःस्पृहः ॥२०॥

अनेकधर्मविभ्रान्ताःस्त्रैणाः पाखण्डवादिनः ।

शुकशास्त्रकथोच्चारे त्याज्यास्त्रे यदि पण्डिताः ॥२१॥

वक्तुः पार्श्वैसहायार्थमन्यः स्थाप्यस्तथाविधाः ।

पण्डितः संशयच्छेत्ता लोकबोधनतत्परः ॥२२॥

वक्त्रा क्षौरं प्रकर्तव्यं दिनादर्वाग्व्रताप्तये ।

अरुणोदयेऽसौ निर्वर्त्य शौच स्नान समाचरेत ॥२३॥

नित्यं संक्षेपतः कृत्वा संध्याद्यं स्वं प्रयत्‍नतः ।

कथाविघ्नविघाताय गणनाथं प्रपुजयेत ॥२४॥

पितृन संतर्प्य शुद्धर्थं प्रायश्चित्तं समाचरेत ।

मण्डलं च प्रकर्तव्य तंत्र स्थाप्यो हरिस्तथा ॥२५॥

कृष्णमुद्दिश्य मन्त्रेण चरेत्पूजाविधिं क्रमात ।

प्रदक्षिननमस्कारान पूजान्ते स्तुतिमाचरेत ॥२६॥

संसारसागरे मग्नं दीनं मां करुणनिधे ।

कर्ममोहगृहीतांग मामुद्धार भवार्णवात ॥२७॥

श्रीमद्भागवतस्यापि ततः पूजा प्रयत्‍नतः ।

कर्तव्या विधिना प्रीत्या धूपदीपसमन्विता ॥२८॥

ततस्तु श्रीफलं धृत्वा नमस्कारं समाचरेत ।

स्तुतिः प्रसन्नचित्तेनं कर्तव्या केवलं तदा ॥२९॥

श्रीमद्भागवताख्योऽयं प्रत्यक्षः कृष्न एव ही ।

स्वीकृतोऽसि मय नाथ मुक्त्यर्थ भवसागरे ॥३०॥

मनोरथो मदीयोऽयं सफलं सर्वथा त्वया ।

निर्विघ्नेनैव कर्तव्यो दासोऽहं तव केशव ॥३१॥

एवं दीनवचः प्रोच्य वक्तारं चाथ पूजयेत ।

सम्भूष्य वस्त्रभूषाभिः पुजान्ते तं च संस्तवेत ॥३२॥

शुकरूपप्रबोधन सर्वशास्त्रविशारद ।

एतत्कथाप्रकाशेन मदज्ञानं विनाशय ॥३३॥

तदग्रे नियमः पश्चात्कर्तव्यः श्रेयसे मुदा ।

सत्परात्रं यथाशक्त्या धारणीयः स एव ही ॥३४॥

वरणं पंचविप्राणां कथाभंगनिवृत्तये ।

कर्तव्य तैर्हरेर्जाप्यं द्वादशाक्षरविद्यया ॥३५॥

ब्राह्मणान वैष्णवांश्चान्यास्तथा कीर्तनकारिणः ।

नत्वा सम्पूज्य दत्ताज्ञः स्वयमासनमविशेत ॥३६॥

लोकवित्तधनागापुत्रचिन्तां व्यदस्य च ।

कथाचित्तः शुद्धमतिः स लभेत्फलमुत्तमम ॥३७॥

आसुर्योदयमारभ्य सार्धत्रिप्रहरान्तकम ।

वाचनीया कथा सम्यग्धीरकण्ठं सुधीमता ॥३८॥

कथाविरामः कर्तव्यो मध्याह्ने घटिकाद्वयम ।

तत्कथामनु कार्यं वै कीर्तनं वैष्णवैस्तदा ॥३९॥

मलमूत्रजयार्थ ही लघ्वाहार ; सुखावहः ।

हविष्यान्नेन कर्तव्यो होकवारं कथार्थिना ॥४०॥

उपोष्य सत्परात्रं वै शक्तिश्चेच्छृणुयात्तदा ।

घृतपानं पयः पानं कृत्वा वै श्रृणुयात्सुखम ॥४१॥

फलाहारेण व भाव्यमेकभुक्तेन वा पुनः ।

सुखसाध्यं भवेद्यतु कर्तव्यं श्रवणाय तत ॥४२॥

भोजनं तु वरं मन्ये कथा श्रवणकारकम ।

नोपवासो वरः प्रोक्तः कथाविघ्नकरो यदि ॥४३॥

सप्ताहव्रतिनं पुंसां नियमात्र्छुणू नारद ।

विष्णुदीक्षविहीनानां नाधिकारः कथाश्रवे ॥४४॥

ब्रह्माचर्यमधः सुप्तिः पत्रावल्यां च भोजनम ।

कथासमाप्तौ भुक्तीं च कुर्यान्नित्यं कथाव्रती ॥४५॥

द्विदलं मधु तैलं च गरिष्ठान्नां तथैव च ।

भावदृष्य पर्युषिअ जहन्नित्यं कथावृत्ती ॥४६॥

कामं क्रोधं मंदमान मत्सरं लोभमेव च ।

दम्भं मोहं तथा द्वेषं दुरयेच्च कथाव्रती ॥४७॥

वेदवैष्णविप्राणां गुरुगोव्रतिनां तथा ।

स्त्रीराजमहतां निन्दां वर्जयेद्यः कथाव्रती ॥४८॥

रजस्वलान्त्यजम्लेच्छप्तिव्रात्यकैस्तथा ।

द्विजाद्विडवेदबाम्हौश्च न वदैद्यः कथाव्रती ॥४९॥

सत्यं शौचं दयां मौनमार्जवं विनयं तथा ।

उदारमानसं तद्वदेवं कुर्यात्कथाव्रती ॥५०॥

दरिद्रश्च क्षयी रोगी निर्भाग्यः पापकर्मवान ।

अनपत्यो मोक्षकामः श्रृणुयाच्च कथामिमाम ॥५१॥

अपुष्पा काकवन्ध्या व वन्ध्या या च मृतार्भका ।

स्नवद्गर्भा च या नारी तया श्राव्या प्रयत्‍नतः ॥५२॥

एतेषु विधिना श्रावे तदक्षयतरं भवेत ।

अत्युत्तमा कथा दिव्या कोटियज्ञफलप्रदा ॥५३॥

एवं कृत्वा व्रतविधिमुद्यापनमथाचरेत ।

जन्माष्टमीव्रतमिव कर्तव्य फलकांक्षिभिः ॥५४॥

अकिंचनेषु भक्तेषु प्रायो नोद्यापनाग्रह ।

श्रवणेनैव पुतास्ते निष्कामा वैष्णवा यतः ॥५५॥

एवं नगाहयज्ञेऽ‍स्मिन समाप्ते श्रोतुभिस्तदा ।

पुस्तकस्य च वक्तुश्च पूजा कार्यातिभक्तितः ॥५६॥

प्रसादतुलसीमाला श्रोतुभ्यश्चाथ दीयताम ।

मृदगंतालललित कर्तव्य कीर्तन ततः ॥५७॥

जयशब्द नमः शब्दं शंखशब्दं च कारयेत ।

विप्रेभ्यो याचकेभ्यश्च वित्तमन्नं च दीयताम ॥५८॥

विरक्तश्चेद्भवेच्छ्रोता गीता वाच्या परेऽहनि ।

गृहस्थश्चेत्तदा होमः कर्तव्य कर्मशान्तये ॥५९॥

प्रतिश्‍लोकंतु जुहुयाद्विधिना दशमस्य च ।

पायसं मधु सर्पिश्च तिलान्नादिकसंयुतम ॥६०॥

अथवा हवणं कुर्याद्रायत्र्या सुसमाहितः ।

तन्मयत्वापुराणस्य परमस्य च तत्त्वतः ॥६१॥

होमशक्तौ बुधो हौम्यं दद्यात्तत्फलसिद्धये ।

नानाच्छिद्रनिरोधार्थं न्युनतधिकतानयोः ॥६२॥

दोषयोः प्रशमार्थं च पठेन्नामसहस्रकम ।

तेन स्यात्सफलं सर्व नास्त्यस्मादधिकं यतः ॥६३॥

द्वाद्श ब्राह्मणानु पश्चाद्भोजयेन्मधुपायसैः ।

दद्योआत्सुवर्ण धेनु च व्रतपूर्णत्वहेतवे ॥६४॥

शक्तौ पलतयमितं स्वर्णसिंहं विधाय च ।

तत्रास्य पुस्तकं स्थाप्य लिखित ललिताक्षरम ॥६५॥

सम्यपुज्यवाहनाद्यैस्तदुपचारैः सदक्षिणम ।

वस्त्रभुषणगन्धद्यैः पुजिताय यतात्मने ॥६६॥

आचार्याय सुधीर्दत्वा मुक्तः स्याद्भवबन्धनैः ।

एवं कृते विधाने च सर्वपापनिवारणे ॥६७॥

फलदं स्थात्पुराणं तु श्रीमद्भागवतं शुभम ।

धर्मकामार्थमोक्षाणां साधनं स्यान्न संशयः ॥६८॥

कुमारा ऊचुः

इति ते कथितं सर्वं किं भुयः श्रोतुमिच्छसि ।

श्रीमद्भागवतेनैव भुक्तिमुक्ती करे स्थिते ॥६९॥

सुत उवाच

इत्युक्त्वा ते महात्मानः प्रोचुर्भागवतीं कथाम ।

सर्वपापहरं पुण्यां भुक्तीमुक्तिप्रदायिनीम ॥७०॥

श्रृण्वतां सर्वभुतांना सप्ताहं नियतात्मनाम ।

यथाविधि ततो देवं तुष्टुवः पुरुषोत्तमम ॥७१॥

तदन्ते ज्ञानवैरग्यभक्तीनां पुष्टता परा ।

तारुण्यं परमं चाभूत्सर्वभूतमनोहरम ॥७२॥

नारदश्च कृतार्थोऽभुत्सिद्धे स्वीये मनोरथे ।

पुलकीकृतसर्वांगः परमानन्दसम्भॄतः ॥७३॥

एवं कथां समाकर्ण्य नारदो भगवत्प्रियः ।

प्रेमगद्गदया वाचा तानुवाच कृतात्र्जलिः ॥७४॥

नारद उवाच

धन्योऽस्म्तनुगृहीतोऽस्मि भवद्भिः करुणापरै ।

अद्य मे भगवाँल्लब्धः सर्वपपहरो हरिः ॥७५॥

श्रवनं सर्वधर्मेभ्यो वरं मन्ये तपोधनाः ।

वैकुण्ठस्थो यतः कृष्णः श्रवणद्यस्य लभ्यते ॥७६॥

सूत उवाच

एवं ब्रुवति वै तत्र नारदे वैष्णवोत्तमे ।

परिभ्रमन समायातः शुको योगेश्वरस्तदा ॥७७॥

तत्राययौ षोडशवार्षिस्तदा व्यासात्मजो ज्ञानमहाब्धिचन्द्रमाः ।

कथावसाने निजलाभपुर्णः प्रेम्ना पठन भागवतं शनैः शनैः ॥७८॥

दृष्ट्वा सदस्याः परमोरुतेजसं सद्यः समुत्थायं ददुर्ममहासनम ।

प्रीत्या सुरर्षिस्तमपुजयत्सुखं स्थितोऽवदत्संश्रुणुतामलां गिरम ॥७९॥

श्रीशुक उवाच

निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम ।

पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः ॥८०॥

धर्म प्रोज्झितकैतवोऽत्रपरमो निर्मत्सराणां सतां वेद्य वास्तवमत्र वस्तु शिवदं तापत्रयोन्मुलनम ।

श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शूश्रूषुभिस्तत्क्षणात ॥८१॥

श्रीमद्भागवतं पुराणातिलकं यद्वैष्णवानां धनं यस्मिन पारमहंस्यमेवममल ज्ञानं परं गीयते ।

यत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविष्कृतं तच्छृण्वन प्रपठन विचारणपरो भक्त्या विमुच्येन्नरः ॥८२॥

स्वर्गे सत्ये च कैलासे विकुण्ठे नास्त्ययं रसः ।

अतः पिबन्तु सभ्दाग्या मा मा मुत्र्चत कर्हिचिंत्त ॥८३॥

सुत उवाच

एवं ब्रुवाणे सति वादारायणौ मध्ये सभायां हरिराविरसीत ।

प्रह्लादबल्युद्धवपालुग्नादिभि र्वृत्तः सुरर्षिस्तमपुजयच्च तान ॥८४॥

दृष्ट्चा प्रसंन्नं महदासने हरिं ते चक्रिरे कीर्तनमग्रतस्तदा ।

भवो भवान्या कमलासनस्तु तत्रागमत्कीर्तनदर्शनाय ॥८५॥

प्रह्लादस्तालधारी तरलगतितया चोद्धवः कांस्यधारी वीणाधारी सुरर्षिः स्वरकुशलतया रागकर्तार्जुनोऽभूत ।

इन्द्रोऽवादी न्मृदंड जयजयसुकराः कीर्तने ते कुमारा यत्राग्रे भाववक्ता सरसरचनया व्यासपुत्रो बभुव ॥८६॥

ननर्त मध्ये त्रिकमेव तत्र भक्त्यादिकानां नटवत्सुतेजसाम ।

अलौकिकं कीर्तनमेतदीक्ष्य हरिः प्रयन्नोऽपि वचोऽब्रवीत्तत ॥८७॥

मत्तो वरं भाववृताद वृणुध्वं प्रीतः कथाकीर्तनतोऽस्मि साम्प्रतम ।

श्रुत्वेति तद्वाक्यमतिप्रसन्नाः प्रेमार्द्रचित्ता हरिमुचिरे ते ॥८८॥

नगाहगाथासु च सर्वभक्तै रेभिस्त्वया भाव्यमिति प्रयत्नात ।

मनोरथोऽयं परिपुरणीय स्तथेति चोक्त्वान्तरधीयताच्युतः ॥८९॥

ततोऽनमत्तच्चरणेषु नारद स्तथा शुकादीनपि तापसांश्च ।

अथ प्रह्लष्टा परिनाष्टमोहाः सर्वे ययुः पीतकथामृतास्ते ॥९०॥

भक्तिः सुताभ्यांसह रक्षिता सा शास्त्रे स्वकीयेऽपि तदा शुकेन ।

अतो हरिर्भागवतस्य सेवना चित्तं समायाति हि वैष्णवानाम ॥९१॥

दारिद्रयदुःखज्वरदाहितानां मायपिशाचीपरिमर्दितानाम ।

संसारसिन्धी परिपातितानां क्षेमाय वै भागवतं प्रगर्जति ॥९२॥

शौनक उवाच

शुकेनोक्तं कदा राज्ञे गोकर्णेन कदा पुनः ।

सुरर्षये कदा ब्राह्मोश्‍च्छिन्धि मे संशय त्विमम ॥९३॥

सूत उवाच

आकृष्णनिर्गमात्त्रिंशद्वर्षाधिकगते कलौ ।

नवमीतो नभस्ये च कथारम्भं शुकोऽकरोत ॥९४॥

परीक्षिच्छ्रवणान्ते च कलौ वर्षशतद्वये ।

शुद्धे शुचौ नवम्यां च धेनुजोऽकथयत्कथाम ॥९५॥

तस्मादपि कलौ प्राप्ते त्रिंशद्वर्षगते सति ।

ऊचुरूर्जे सिते पक्षे नवम्यां ब्रह्माणः सुताः ॥९६॥

इत्येतत्ते समाख्यांत यत्पुष्टऽहं त्वयानघ ।

कलौ भागवती वार्ता भवरोगविनाशिनी ॥९७॥

कृष्णप्रियं सकलकल्मषनाशंनं च मुक्त्येकहेतुमिह भक्तिविलासकरि ।

सन्तः कथानकमिदं पिबतादरेण लोके हि तीर्थपरिशीलनसेवया किम ॥९८॥

स्वपुरुषमपि वीक्ष्य पाशह्स्तं वदति यमः किल तस्य कर्णमुले ।

परिहर भगवत्कथासु मत्तन प्रभुरहमन्यनृणां न वैष्णवानाम ॥९९॥

असारे संसारे विषयविषसंगांकुलधियः क्षणार्धं क्षेमार्थं पिबत शुकगाथातुलसुधाम ।

किमर्थं व्यर्थं भो व्रजत कुपथे कुत्सितकथे परिक्षित्साक्षी यच्छ्रवणगतमुक्त्युक्तिकथने ॥१००॥

रसप्रवाहसंस्थेन श्रीशुकेनेरिताकथा ।

कण्ठ सम्बध्यते येन स वैकुण्ठप्रभूर्भवेत ॥१०१॥

इति च परमगुह्नां सर्वसिद्धान्तसिद्धं सपदि निगदितं ते शास्त्रपुंच विलोक्य ।

जगति शुककथातो निर्मलं नास्ति किंचित पिब परसुखहेतोर्द्वादशस्कन्धासारम ॥१०२॥

एतां यो नियततया श्रृणोति भक्त्या यश्चैनां कथयति शुद्धवैष्णवाग्रे ।

तौ सम्यग्विधिकरणात्फलं लभेते याथार्थ्यान्न ही भुवने किमप्यसाध्यम ॥१०३॥

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये श्रवणविधिकथनं नाम षष्ठोऽ‍ध्यायः ॥६॥

॥ समाप्तमिदं श्रीमद्भागवतमाहात्म्यम् ॥

॥ हरिः ॐ तत्सत् ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:32.9600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कवलुं

  • कौ . खालीं पहा . 
RANDOM WORD

Did you know?

I want Ganesh Puran marathi book which is on your site by Balbheem Bhat.
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.