TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

माहात्म्य - तृतीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


भक्तीच्या कष्टांची निवृत्ती

नारद उवाच

ज्ञानयज्ञं करिष्यामि शुकशास्त्रकथोज्ज्वलम् ।

भक्तीज्ञानविरागाणां स्थापनार्थं प्रयत्‍नतः ॥१॥

कुत्र कार्यो मया यज्ञः स्थलं तद्वाच्यतामिह ।

महिमा शुकशास्त्रस्य वक्तव्यो वेदपारगैः ॥२॥

कियद्भिर्दिवसैः श्राव्या श्रीमद्भागवती कथा ।

को विधिस्तत्र कर्तव्यो ममेदं ब्रुवतामितः ॥३॥

कुमारा ऊचुः

श्रृणु नारद वक्ष्यामो विनम्राय विवेकिने ।

गंगाद्वारसमीपे तु तटमानन्दनामकम् ॥४॥

नानाऋषिगणैर्जुष्ट देवसिद्धनिषेवितम ।

नानातरुलताकीर्ण नवाकोमलवालुकम ॥५॥

रम्यमेकान्तदेशस्थं हेमपद्मसुसौरभम ।

यत्समीपस्थजीवांना वैर चेतासि न स्थितम ॥६॥

ज्ञानयज्ञस्त्व्स्या तत्र कर्तव्यो ह्याप्रयत्‍नतः ।

अपूर्वरसरूपा च कथा तत्र भविष्यति ॥७॥

पुरःस्थं निर्बलं चैव जराजीर्णकलेवरम् ।

तद्‌द्वयं च पुरस्कृत्य भक्तिस्तत्रागमिष्यति ॥८॥

यत्र भागवती वार्ता तत्र भक्त्यांदिक व्रजेत ।

कथाशब्दं समाकर्ण्य तत्त्रिकं तरुणायते ॥९॥

सूत उवाच

एवमुक्त्वा कुमारास्ते नारदेन समं ततः ।

गंगातटं समाजग्मुः कथापानाय सत्वराः ॥१०॥

यदा यातास्तटं ते तु तदा कोलाहलोऽप्यभुत ।

भुर्लोके देवलोके च ब्रह्मालोके तथैव च ॥११॥

श्रीभागवतपीयुषपानाय रसलम्पटाः ।

धावन्तोऽप्याययुः सर्वे प्रथमं ये च वैष्णवाः ॥१२॥

भृगुर्वसिष्ठश्‍च्यवनश्च गौतमो मेधातिथिर्देवलदेवरातौ ।

रामस्तथा गाधिसुश्चशाकलो मृकण्डुपुत्रातित्रिजपिप्पलादाः ॥१३॥

योगेश्वरौ व्यासपराशरौ च छायाशुको जाजलिजह्रुमुख्याः ।

सरेऽप्यमी मुनिगणा ; सहपुत्रशिष्याः स्वस्त्रीभिराययुरतिप्रणयेन युक्ताः ॥१४॥

वेदान्तानि च वेदाश्च मन्त्रास्तन्त्रा ; समूर्तयः ।

दशसप्तपुराणानि षट्‍शास्त्राणि तथाऽऽययूः ॥१५॥

गंगाद्याः सरितास्तत्र पुष्करांदिसरांसि च ।

क्षेत्राणि च दिशः सर्वा दण्डकादिवनानि च ॥१६॥

नगादयो ययुस्तत्र देवगन्धर्वदानवाः ।

गुरुत्वात्तत्र नायातान्भृगुः सम्बोध्य चानयत ॥१७॥

दीक्षिता नारदेनाथ दत्तमासनमुत्तमम ।

कुमारा वन्दिताः सर्वैर्निषेदुः कृष्णतत्पराः ॥१८॥

वैष्णवाश्च विरक्ताश्च न्यासिनो ब्रह्माचारिणः ।

मुखभागे स्थितास्ते च तदग्रे नारदः स्थितः ॥१९॥

एकभागे ऋशिगणास्तदन्यत्र दिवैकसः ।

वेदोपनिषदोऽन्तत्र तीर्थान्यत्र स्त्रियोऽन्यतः ॥२०॥

जयशब्दो नमःशब्द शंखशब्दस्तथैव च ।

चूर्णलाजाप्रसुनाना निक्षेपः सुमहानभूत ॥२१॥

विमानानि समारुह्या कियन्तो देवनायकाः ।

कल्पवृक्षप्रसुनैस्तान सर्वास्तस्त्र समाकिरन ॥२२॥

सुत उवाच

एवं तेष्वेकचित्तेषु श्रीमद्भगवतस्य च ।

माहात्म्यमुचिरे स्पष्ट नारदाय महात्मने ॥२३॥

कुमारा ऊचुः

अथ ते वर्ण्यतेऽस्माभिर्महिमा शुकशास्त्रजः ।

यस्य श्रवणमात्रेण मुक्तिः करतले स्थिता ॥२४॥

सदा सेव्या सदा सेव्या श्रीमद्भागवती कथा ।

यस्याः श्रवणमात्रेण हरिश्चित्तं समाश्रयेत ॥२५॥

ग्रन्थोऽष्टादशसाहस्त्रो द्वादशस्कन्धसम्मितः ।

परिक्षिच्छुकसंवादःश्रृणु भागवंत च तत ॥२६॥

तावत्संसारचक्रेऽस्मिन भ्रमतेऽज्ञानतः पुमान ।

यावत्कर्णगता नास्ति शुकशास्त्रकथा क्षणम् ॥२७॥

किं श्रुवैर्बहुभिः शास्त्रैः पुराणैश्च भ्रमावहैः ।

एकं भागवतं शास्त्रं मुक्तिदानेन गर्जति ॥२८॥

कथा भागवतस्यापि नित्यं भवति यदगृहे ।

तदगृहं तीर्थरूपं हि वसतां पापनाशनम ॥२९॥

अश्वमे धाह्यस्त्राणि वाजपेयशतानि च ।

शुकशास्त्रकथायाश्च कलां नार्हन्ति षोडशीम ॥३०॥

तावत्पापानि देहेऽस्मिन्निवसन्ति तपोधनाः ।

यावन्न श्रुयते सम्यक श्रीमद्भागवतं नरैः ॥३१॥

न गंगा न गया काशी पुष्करं न प्रयागकम ।

शुकशास्त्रकथायाश्च फलेन समतां नयेत ॥३२॥

श्‍लोकार्धं श्‍लोकपादं वा नित्यं भागवतोद्भवम ।

पठस्व स्वमुखेनैव यदीच्छसि परां गतिम ॥३३॥

वेदादिर्वेदमाता च पौरुषं सुक्तमेव च ।

त्रयी भागवतं चैव द्वादशाक्षर एव च ॥३४॥

द्वादशात्मा प्रयागश्च कालः संवत्सरात्मकः ।

ब्राह्मणाश्चाग्र्निहोत्रं च सुरभिर्द्वदशी तथा ॥३५॥

तुलसी च वसन्तश्चपुरुषोत्तम एव च ।

एतेषां तत्वतः प्राज्ञैर्न पृथग्भाव इष्यते ॥३६॥

यश्च भागवंत शास्त्रं वाचयेदर्थतोऽनिशम ।

जन्मकोटिकृतं पापं नश्यते नात्र संशयः ॥३७॥

श्‍लोकार्धं श्‍लोकपादं वा पठेद्भागवतं च यः ।

नित्यं पुण्यमवाप्नोपि राजसुयाश्वमेधयोः ॥३८॥

उक्तं भागवंत नित्यं कृतं च हरिचिन्तनम ।

तुलसीपोषणं चैव धेनुनां सेवनं समम ॥३९॥

अन्तकाले त्य येनैव श्रुयते शुकशास्त्रवाक ।

प्रीत्या तस्यैव वैकुण्ठं गोविन्दोऽपि प्रयच्छति ॥४०॥

हेमसिंहयुतं चैतद्वैष्णवाय ददाति च ।

कृष्णेन सह सायुज्यं स पूमांल्लभते ध्रुवम ॥४१॥

आजन्ममात्रमपि येन शठेन किंचिच्चित्तं विधाय शुकशास्त्रकथा न पीता ।

चाण्डालवच्च खरवद्वत तेन नीतं मिथ्या स्वजन्न जननी जनिदुःखभाजा ॥४२॥

जीवच्छवो निगदितः स तु पापकर्मा येन श्रुतं शुककथावचनं किंचित ।

धिक तं नरं पशुसमं भुवि भाररुप मेवं वदन्ति दिवि देवसमाजमुख्याः ॥४३॥

दुर्लभैव कथा लोके श्रीमद्भागवतोद्भवा ।

कोटिजन्मसमुत्थेन पुण्यनैव तु लभ्यते ॥४४॥

तेन योगनिधे धीमन श्रोतव्या सा प्रयत्‍नतः ।

दिनानां नियमो नास्ति सर्वदा श्रवणं मतम ॥४५॥

सत्यने ब्रह्माचर्येण सर्वदा श्रवणं मतम ।

अशक्यत्वात्कलौ बोध्यो विशेषोऽत्रशुकाज्ञया ॥४६॥

मनोवृत्तिजयश्चैव नियमाचरण तथा ।

दीक्षां कर्तुमशक्यत्वात्सप्ताहश्रवणं मतम ॥४७॥

श्रद्धातः श्रवणे नित्यं माघे तावद्धि यत्फलम ।

तत्फलं शुकदेवेन सप्ताहश्रवणे कृतम ॥४८॥

मनसश्चांजयाद्रोगात्पुंसां चैवायुषः क्षयात ।

कलेर्दोषबहुत्वाच्च सप्ताहश्रवणं मतम ॥४९॥

यत्फलं नास्ति तपसा न योगेन समाधिना ।

अनायासेन तत्सर्व सागाहश्रवणे लभेत ॥५०॥

यज्ञाद्गर्जति सप्ताहः सप्ताहो गर्जति व्रतात ।

तपसो गर्जति प्रोच्चैस्तीर्थान्नित्यं हि गर्जति ॥५१॥

योगाद्गर्जति सप्ताहो ध्यानाज्ज्ञानाच्च गर्जति ।

किं ब्रूमो गर्जनं तस्य रे रे गर्जति गर्जति ॥५२॥

शौनक उवाच

साश्चर्यमेत्कथितं कथानकं ज्ञानादिधर्मान विगणय्य साम्प्रतम ।

निःश्रेयसे भागवतं पुराणं जातं कुतो योगविदादिसुचकम ॥५३॥

सुत उवाच

यदा कॄष्णो धरां त्यक्त्वा स्वपदं गन्तुमुद्यतः ।

एज्कादशं परिश्रुत्याप्युद्भवो वाक्यमब्रवीत ॥५४॥

उद्धव उवाच

त्वंतु यास्यसि गोविन्द भक्तकार्य विधाय च ।

मच्चित्ते महती चिन्ता तां श्रुत्वा सुखमावह ॥५५॥

आगातोऽयं कलिर्घोरों भविष्यन्ति पुनः खलाः ।

तत्सगेनैव सन्तोऽपि गमिष्यन्त्युग्रतां यदा ॥५६॥

तदा भारवती भूमीर्गोरूपेयं कमाश्रयेत ।

अन्यो न दृश्यते त्राता त्वत्तः कमललोचन ॥५७॥

अतः सत्सु दयां कृत्वा भक्तवत्सल मा व्रज ।

भक्तार्थं सगुणो जातो निराकारोऽपि चिन्मयः ॥५८॥

त्वद्वियोगेन ते भक्ताः कथं स्थास्यान्ति भूतले ।

निर्गुणोपासने कष्टमतः किंचिद्विचारय ॥५९॥

इत्युद्धववचः श्रुत्वा प्रभासेऽचिन्तयद्धरी ।

भक्तावलम्बनार्थाय किम विधेयं मयेचि च ॥६०॥

स्वकीयं यद्भवेत्तेस्तज्ज भागातेऽदधात ।

तिरोधाय प्रविष्टोऽयं श्रीमद्भागवतार्णवम ॥६१॥

तेनेयं वांगयी मूर्तीः प्रत्यक्षा वर्तते हरेः ।

सेवनाच्छ्रवणात्पाठाद्दर्शनात्पापनाशिनी ॥६२॥

सप्ताह श्रवणं तेन सर्वेभ्योऽप्यधिकं कृतम ।

साधनानि तिरस्कृत्य कलौ धर्मोऽयमीरितः ॥६३॥

दूखदाय्रिद्र्यदौर्भाग्यपापप्रक्षालनाय च ।

कामक्रोधजयार्थ हि कलौ धर्मोऽयमीरितः ॥६४॥

अन्यथा वैष्णवी माया देवैरपि सुदुस्त्यजा ।

कथं त्याज्या भवेत्पुम्भिः सप्ताहोऽतः प्रकीर्तितः ॥६५॥

सूत उवाच

एवं नगाहश्रवणोरुधर्मे प्रकाश्यमाने ऋषिभिः सभायाम ।

आश्चर्यमेकं समभूत्तदानीं तदुच्यते संश्रृणु शौनक त्वम ॥६६॥

भक्तिः सुतौ तौ तरूणौ गृहीत्वा प्रेमौकरूपा सहसाऽऽविरासीत ।

श्रीकृष्ण गोविन्द हरे मुरारे नाथेति नामानि मुहुर्वदन्ती ॥६७॥

तां चांगतां भागवतार्थभुषां सुचारुवेषां ददृशुः सदस्याः ।

कथं प्रविष्टा कथमागतेयं मध्ये मुनीनामिति तर्कयन्तः ॥६८॥

ऊचुः कुमारा वचनं तदानीं कथार्थतो निष्पतिताधुनेयम ।

एवं गिरः सा ससुता निशम्य सनत्कुमारं निजगाद नम्रा ॥६९॥

भक्तिरुवाच भवद्भद्यैव कृतास्त्मि पुष्टा कलिप्रणष्टापि कथारसेन ।

काहं तु तिष्ठाम्यधुना ब्रुवन्तु ब्राह्मा इदं तां गिरमुचिरे ते ॥७०॥

भक्तेषु गोविन्दसरुपकत्री प्रेमैकधत्रीं भवरोगहन्त्री ।

सा त्वं च तिष्ठस्व सुधैर्यसंश्रया निरन्तरं वैष्णवमानसानि ॥७१॥

ततोऽपि दोषोः कलिया इमे त्वां द्रष्टुं न शक्ताः प्रभवोऽपि लोके ।

एवं तदाज्ञावसरेऽपि भक्ति स्तदा निषण्णा हरिदासचित्ते ॥७२॥

सकलभुवनमध्ये निर्धनास्तेऽपि धन्या निवसाति हृदि येषां श्रीहरेर्भक्तिरेका ।

हरिरपि निजलोकं सर्वथातो विहाय प्रविशाति हृदि तेषां भक्तिसुत्रोपनब्द्धः ॥७३॥

ब्रुमोऽद्य ते किमधिकं महिमानमेवं ब्रह्मात्मकस्य भुवि भागवताभिधस्य ।

यत्संश्रयान्निगदिते लभते सुवत्का श्रोतापि कृष्णसमतामलमन्यधर्मैः ॥७४॥

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतामात्म्ये भक्तिकष्टनिवर्तनं नाम तृतीयोऽध्यायं ॥३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:32.8030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अक्कलदाढ

  • f  A wisdom molar. 
  • स्त्री. अगदीं शेवटच्या खालच्या व वरच्या दोन दाढांपैकीं प्रत्येक . या सगळ्यांच्या शेवटीं येतात . 
RANDOM WORD

Did you know?

मूल जन्मानंतर पांचव्या दिवशी सटवाई पूजन करतात, ते काय आहे?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.