संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामावलिः|
शंकराचार्य अष्टोत्तरसहस्रनामावलिः

शंकराचार्य अष्टोत्तरसहस्रनामावलिः

अष्टोत्तरशतनामावलिः म्हणजे देवी देवतांची एकशे आठ नावे, जी जप करताना म्हणावयाची असतात. नावे घेताना १०८ मण्यांची जपमाळ वापरतात.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


॥ श्रीमत् शङ्करचार्य अष्टोत्तरसहस्रनामावलिः ॥

ॐ गाढध्वान्तनिमज्जनप्रमुषितप्रज्ञानेत्रं परम्

नष्टप्रायमपास्तसर्वकरणं श्वासावशेषं जनम् ।

द्राक्कारुण्यवशात्प्रबोधयति यो बोधांशुभिः प्राम्शुभिः

सोऽयं शङ्करदेशिकेन्द्रसविताऽस्माकं परं दैवतम् ॥

अद्वैतेन्दुकलावतम्सरुचिरो विज्ञानगङ्गाधरो

हस्ताब्जाधृत दण्ड खण्ड परशू रुद्राक्षभूषोज्वलः ।

काषायामलकृत्तिवाससुभगः सम्सारमृत्युञ्जयो

द्वैताख्योग्रहलाहलाशनपटुः श्रीशङ्करः पातु नः ॥

गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।

निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥

जयतु जयतु नित्यं शङ्कराचार्यवर्यो

जयतु जयतु तस्याद्वैतविद्यानवद्या ।

जयतु जयतु लोके तच्चरित्रं पवित्रं

जयतु जयतु भक्तिस्तत्पदाब्जे जनानाम् ॥

ॐ श्री श्रीमत्कैलासनिलयाय नमः ॥१॥

ॐ पार्वतीप्राणवल्लभाय नमः ।

ॐ ब्रह्मादिसुरसम्पूज्याय नमः ।

ॐ भक्तत्राणपरायणाय नमः ।

ॐ बौद्धाक्रान्तमहीत्राणासक्तहृदे नमः ॥५॥

ॐ सुरसम्स्तुताय नमः ।

ॐ कर्मकाण्डाविष्करणदक्षस्कन्दानुमोदकाय नमः ।

ॐ नरदेहादृतमतये नमः ।

ॐ संचोदितसुरावलये नमः ।

ॐ तिष्याब्धत्रिकसाहस्रपरतो लब्धभूतलाय नमः ॥१०॥

ॐ कालटीक्षेत्रनिवसदार्याम्बागर्भसंश्रयाय नमः ।

ॐ शिवादिगुरुवंशाब्धिराकापूर्णसुधाकराय नमः ।

ॐ शिवगुर्वात्मजाय नमः ।

ॐ श्रीमते नमः ।

ॐ सच्छिवांशावतारकाय नमः ॥१५॥

ॐ पितृदत्तान्वर्थभूतशङ्कराख्यसमुज्वलाय नमः ।

ॐ ईश्वराब्धवसन्तर्तुराधाशुक्लसमुद्भवाय नमः ।

ॐ आर्द्रानक्षत्रसंयुक्तपञ्चमीभानुसंजनये नमः ।

ॐ विद्याधिराजसत्पौत्राय नमः ।

ॐ विद्वन्मानसहर्षदाय नमः ॥२०॥

ॐ प्रथमाब्धसमभ्यस्ताशेषभाषालिपिक्रमाय नमः ।

ॐ वत्सरत्रितयादर्वाग्जनकावाप्तमुन्डनाय नमः ।

ॐ तृतीयवत्सरप्राप्ततातविश्लेषकर्दमाय नमः ।

ॐ मातृशोकापहारिणे नमः ।

ॐ मातृशुश्रूषणादराय नमः ॥२५॥

ॐ मातृदेवाय नमः ।

ॐ मातृगुरवे नमः ।

ॐ मातृताताय नमः ।

ॐ बाललीलादर्शनोत्थहर्षपूरितमातृकाय नमः ।

ॐ सनाभिजनतो मात्राकारितद्विजसंस्कृतये नमः ॥३०॥

ॐ विद्यागुरुकुलावासाय नमः ।

ॐ गुरुसेवापरायणाय नमः ।

ॐ त्रिपुण्ड्रविलसद्भालाय नमः ।

ॐ धृतमौन्जीमृगाजिनाय नमः ।

ॐ पालाशदण्डपाणये नमः ॥३५॥

ॐ पीतकौपीनवासिताय नमः ।

ॐ बिसतन्तुसदृक्षाग्र्यसूत्रशोभितकंधराय नमः ।

ॐ संध्याग्निसेवानिरताय नमः ।

ॐ नियमाध्यायतत्पराय नमः ।

ॐ भैक्ष्याशिने नमः ॥४०॥

ॐ परमानन्दाय नमः ।

ॐ सदा सर्वानन्दकराय नमः ।

ॐ द्वित्रिमासाभ्यस्तविद्यासमानीकृतदेशिकाय नमः ।

ॐ अभ्यस्तवेदवेदाङ्गाय नमः ।

ॐ निखिलागपारगाय नमः ॥४५॥

ॐ दरिद्रब्राह्मणीदत्तभिक्षामलकतोषिताय नमः ।

ॐ निर्भाग्यब्राह्मणीवाक्यश्रवणाकुलमानसाय नमः ।

ॐ द्विजदारिद्र्यविश्रांतिवाञ्छासंस्मृतभार्गवये नमः ।

ॐ स्वर्णधारास्तुतिप्रीतरमानुग्रहभाजनाय नमः ।

ॐ स्वर्णामलकसद्वृष्टिप्रसादानन्दितद्विजाय नमः ॥५०॥

ॐ तर्कशास्त्रविशारदाय नमः ।

ॐ सांख्यशास्त्रविशारदाय नमः ।

ॐ पातञ्जलनयाभिज्ञाय नमः ।

ॐ भाट्टघट्टार्थतत्वविदे नमः ।

ॐ सम्पूर्णविद्याय नमः ॥५५॥

ॐ सश्रीकाय नमः ।

ॐ दत्तदेशिकदक्षिणाय नमः ।

ॐ मातृसेवनसंसक्ताय नमः ।

ॐ स्ववेश्मनिलयाय नमः ।

ॐ सरिद्वर्तातपविश्रांतमातृदुःखापनोदकाय नमः ।

ॐ वीजनाद्युपचाराप्तमातृसौख्यसुखोदयाय नमः ।

ॐ सरिद्वेश्मोपसदनस्तुतिनन्दितनिमज्ञाय नमः ॥६०॥

ॐ पूर्णादत्तवरोल्लासिगृहान्तिकसरिद्वराय नमः ।

ॐ आनन्दाश्चर्यभरितचित्तमातृप्रसादभुवे नमः ।

ॐ केरलाधिपसत्पुत्रवरदानसुरद्रुमाय नमः ।

ॐ केरलाधीशरचितनाटकत्रयतोषिताय नमः ॥६५॥

ॐ राजोपनीतसौवर्णतुच्छीकृतमहामतये नमः ।

ॐ स्वनिकेतसमायातदधीच्यत्र्यादिपूजकाय नमः ।

ॐ आत्मतत्वविचारेण नन्दितातिथिमण्डलाय नमः ।

ॐ कुम्भोद्भवज्ञातवृत्तशोकविह्वलमातृकाय नमः ॥७०॥

ॐ सुतत्वबोधानुनयमातृचिन्तापनोदकृते नमः ।

ॐ तुच्छसंसारविद्वेष्ट्रे नमः ।

ॐ सत्यदर्शनलालसाय नमः ।

ॐ तुर्याश्रमासक्तमतये नमः ।

ॐ मातृशासनपालकाय नमः ।

ॐ पूर्णानदीस्नानवेळा नक्रग्रस्तपदाम्बुजाय नमः ।

ॐ सुतवात्सल्यशोकार्तजननीदत्त शासनाय नमः ।

ॐ प्रैषोच्चारसंत्यक्तनक्रपीडाय नमः ।

ॐ जितेन्द्रियाय नमः ॥८०॥

ॐ जननीपादपाथोजरजःपूतकलेवराय नमः ।

ॐ गुरूपसदानाकाङ्क्षिणे नमः ।

ॐ अर्थिताम्बानुशासनाय नमः ।

ॐ प्रतिज्ञातप्रसूदेहसंस्कारौजस्विसत्तमाय नमः ।

ॐ चिन्तनामात्रसानिध्यबोधनाश्वासिताम्बकाय नमः ॥८५॥

ॐ सनाभिजनविन्यस्तमातृकाय नमः ।

ॐ ममतापहृते नमः ।

ॐ लब्धमात्राशीर्वचस्काय नमः ।

ॐ मातृगेहाद्विनिर्गताय नमः ।

ॐ सरित्तरङ्गसंत्रासानङ्गवाणीविबोधिताय नमः ॥९०॥

ॐ स्वभुजोद्धृतगोपालमूर्तिपीडापहारकाय नमः ।

ॐ ईतिबाधाविनिर्मुक्तदेशाधिष्ठितमूर्तिकाय नमः ।

ॐ गोविन्दभगवत्पाददर्शनोद्यतमानसाय नमः ।

ॐ अतिक्रान्तमहामार्गाय नमः ।

ॐ नर्मदातटसंश्रिताय नमः ॥९५॥

ॐ त्वङ्गत्तरङ्गसन्दोहरेवास्नायिने नमः ।

ॐ धृताम्बराय नमः ।

ॐ भस्मोद्धूलितसर्वाङ्गाय नमः ।

ॐ कृतसायह्निकक्रियाय नमः ।

ॐ गोविन्दार्यगुहान्वेषतत्पराय नमः ॥१००॥

ॐ गुरुभक्तिमते नमः ।

ॐ गुहादर्शनसंजातहर्षपूर्णाश्रुलोचनाय नमः ।

ॐ प्रदक्षिणीकृतगुहाय नमः ।

ॐ द्वारन्यस्तनिजाङ्गकाय नमः ।

ॐ बद्धमूर्धाञ्जलिपुटाय नमः ॥१०५॥

ॐ स्तवतोषितदेशिकाय नमः ।

ॐ विज्ञापितस्वात्मवृत्ताय नमः ।

ॐ अर्थितब्रह्मदर्शनाय नमः ।

ॐ स्तवप्रीतगुरुन्यस्तपादचुम्बितमस्तकाय नमः ।

ॐ आर्यपादमुखावाप्तमहावाक्यचतुष्टयाय नमः ॥११०॥

ॐ आचार्यबोधितात्मार्थाय नमः ।

ॐ आचार्यप्रीतिदायकाय नमः ।

ॐ गोविन्दभगवत्पादपाणिपङ्कजसंभवाय नमः ।

ॐ निश्चिन्ताय नमः ।

ॐ नियताहाराय नमः ॥११५॥

ॐ आत्मतत्वानुचिन्तकाय नमः ।

ॐ प्रावृत्कालिकमार्गस्थप्राणिहिंसाभयार्दिताय नमः ।

ॐ आचार्याङ्घ्रिकृतावासाय नमः ।

ॐ आचार्याज्ञानुपालकाय नमः ।

ॐ पञ्चाहोरात्रवर्षाम्बुमज्जज्जनभयापहृते नमः ॥१२०॥

ॐ योगसिद्धिगृहीतेन्दुभवापूरकमण्डलाअय नमः ।

ॐ व्युत्थितार्यश्रुतिचरस्ववृत्तपरितोषिताय नमः ।

ॐ व्याससूक्तिप्रत्यभिज्ञाबोधितात्मप्रशंसनाय नमः ।

ॐ देशिकादेशवशगाय नमः ।

ॐ सूत्रव्याकृतिकौतुकिने नमः ॥१२५॥

ॐ गुर्वनुज्ञातविश्वेशदिदृक्षागमनोत्सुकाय नमः ।

ॐ अवाप्तचन्द्रमौळीशनगराय नमः ।

ॐ भक्तिसंयुताय नमः ।

ॐ लसद्दण्डकराय नमः ।

ॐ मुण्डिने नमः ॥१३०॥

ॐ धृतकुण्डाय नमः ।

ॐ धृतव्रताय नमः ।

ॐ लज्जावरककौपीनकंथाच्छादितविग्रहाय नमः ।

ॐ स्वीकृताम्बुपवित्राय नमः ।

ॐ पादुकालसदङ्घ्रिकाय नमः ॥१३५॥

ॐ गङ्गावारिकृतस्नानाय नमः ।

ॐ प्रसन्नहृदयाम्बुजाय नमः ।

ॐ अभिषिक्तपुरारातये नमः ।

ॐ बिल्वतोषितविश्वपाय नमः ।

ॐ हृद्यपद्यावलीप्रीतविश्वेशाय नमः ॥१४०॥

ॐ नतविग्रहाय नमः ।

ॐ गन्ङ्गापथिकचण्डालविदूरगमनोत्सुकाय नमः ।

ॐ देहात्मभ्रमनिर्हारिचण्डालवचनादृताय नमः ।

ॐ चण्डालाकारविश्वेशप्रश्नानुप्रश्नहर्षिताय नमः ।

ॐ मनीषापञ्चकस्तोत्रनिर्माणनिपुणाय नमः ॥१४५॥

ॐ महते नमः ।

ॐ निजरूपसमायुक्तचन्द्रचूडालदर्शकाय नमः ।

ॐ तद्दर्शनसमाह्लादनिर्वृतात्मने नमः ।

ॐ निरामयाय नमः ।

ॐ निराकाराय नमः ॥१५०॥

ॐ निरातङ्काय नमः ।

ॐ निर्ममाय नमः ।

ॐ निर्गुणाय नमः ।

ॐ विभवे नमः ।

ॐ नित्यतृप्ताय नमः ॥१५५॥

ॐ निजानन्दाय नमः ।

ॐ निरावरणाय नमः ।

ॐ ईश्वराय नमः ।

ॐ नित्यशुद्धाय नमः ।

ॐ नित्यबुद्धाय नमः ॥१६०॥

ॐ नित्यबोधघनात्मकाय नमः ।

ॐ ईशप्रसादभरिताय नमः ।

ॐ ईश्वराराधनोत्सुकाय नमः ।

ॐ वेदान्तसूत्रसद्भाष्यकरणप्रेरिताय नमः ।

ॐ प्रभवे नमः ॥१६५॥

ॐ इश्वराज्ञानुसरणपरिनिश्चितमानसाय नमः ।

ॐ ईशान्तर्धानसंदर्शिने नमः ।

ॐ विस्मयस्फरितेक्षणाय नमः ।

ॐ जाह्नवीतटिनीस्नानपवित्रतरमूर्तिकाय नमः ।

ॐ आह्निकानन्तध्यातगुरुपादसरोरुहाय नमः ॥१७०॥

ॐ श्रुतियुक्तिस्वानुभूतिसामरस्यविचारणाय नमः ।

ॐ लोकानुग्रहणैकान्तप्रवणस्वान्तसंयुताय नमः ।

ॐ विश्वेशानुग्रहावाप्तभाष्यग्रथननैपुणाय नमः ।

ॐ त्यक्तकाशीपुरीवासाय नमः ।

ॐ बदर्याश्रमचिन्तकाय नमः ॥१७५॥

ॐ तत्रत्यमुनिसन्दोहसंभाषणसुनिर्वृताय नमः ।

ॐ नानातीर्थकृतस्नानाय नमः ।

ॐ मार्गगामिने नमः ।

ॐ मनोहराय नमः ।

ॐ बदर्याश्रमसंदर्शनानन्दोद्रेकसंयुताय नमः ॥१८०॥

ॐ करबिल्वीफलीभूतपरमाद्वैततत्वकाय नमः ।

ॐ उन्मत्तकजगन्मोहनिवारणविचक्षणाय नमः ।

ॐ प्रसन्नगम्भीरमाहाभाष्यनिर्माणकौतुकिने नमः ।

ॐ श्रीमते नमः ।

ॐ उपनिषद्भाष्यग्रथनप्रथनोत्सुकाय नमः ॥१८५॥

ॐ गीताभाष्यामृतासारसन्तोषितजगत्त्रयाय नमः ।

ॐ श्रीमत्सनत्सुजातीयमुखग्रन्थनिबन्धकाय नमः ।

ॐ नृसिंहतापनीयादिभाष्योद्धारकृतादराय नमः ।

ॐ असंख्यग्रन्थनिर्मात्रे नमः ।

ॐ लोकानुग्रहकृते नमः ॥१९०॥

ॐ सुधिये नमः ।

ॐ सूत्रभाष्यमहायुक्तिखण्डिताखिलदुर्मताय नमः ।

ॐ भाष्यान्तरान्धकारौघनिवारणदिवाकराय नमः ।

ॐ स्वकृताशेषभाष्यादिग्रन्थाध्यापनतत्पराय नमः ।

ॐ शान्तिदान्त्यादिसंयुक्तशिष्यमण्डलमण्डिताय नमः ।

ॐ सनन्दनादिसच्छिष्यनित्याधीतस्वभाष्यकाय नमः ॥१९५॥

ॐ त्रिरधीतात्मभाष्यश्रीसनन्दनसमाश्रिताय नमः ।

ॐ जाह्नवीपरतीरस्थसनन्दनसमाह्वायिने नमः ।

ॐ गङ्गोत्थकमलव्रातद्वारायातसनन्दनाय नमः ।

ॐ आचार्यभक्तिमाहात्म्यनिदर्शनपरायणाय नमः ॥२००॥

ॐ आनन्दमन्थरस्वान्तसनन्दनकृतानतये नमः ।

ॐ तदीयाश्लेषसुहिताय नमः ।

ॐ साधुमार्गनिदर्शकाय नमः ।

ॐ दत्तपद्मपदाभिख्याय नमः ॥२०५॥

ॐ भाष्याध्यापनतत्पराय नमः ।

ॐ तत्तत्स्थलसमायातपण्डिताक्षेपखण्डकाय नमः ।

ॐ नानाकुमतदुर्ध्वान्तध्वंसनोद्यतमानसाय नमः ।

ॐ धीमते नमः ।

ॐ अद्वैतसिद्धान्तसमर्थनसमुत्सुकाय नमः ।

ॐ वेदान्तमहारण्यमध्यसञ्चारकेसरिणे नमः ॥२१०॥

ॐ त्रय्यन्तनलिनीभृङ्गाय नमः ।

ॐ त्रय्यन्ताम्भोजभास्कराय नमः ।

ॐ अद्वैतामृतमाधुर्यसर्वस्वानुभवोद्यताय नमः ।

ॐ अद्वैतमार्गसन्त्रात्रे नमः ।

ॐ निर्द्वैतब्रह्मचिन्तकाय नमः ॥२१५॥

ॐ द्वैतारण्यसमुच्छेदकुठाराय नमः ।

ॐ निःसपत्नकाय नमः ।

ॐ श्रौतस्मार्ताध्वनीनानुग्रहणैहपरायणाय नमः ।

ॐ वावदूकबुधव्रातविस्थापनमहावचसे नमः ।

ॐ स्वीयवाग्वैखरीलीलाविस्मापितबुधव्रजाय नमः ॥२२०॥

ॐ श्लाघासहस्रसंश्रोत्रे नमः ।

ॐ निर्विकाराय नमः ।

ॐ गुणाकराय नमः ।

ॐ त्रय्यन्तसारसर्वस्वसङ्ग्रहैकपरायणाय नमः ।

ॐ त्रय्यन्तगूढपरमात्माख्यरत्नोद्धृतिक्षमाय नमः ॥२२५॥

ॐ त्रय्यन्तभाष्यशीतांशुविशदीकृतभूतलाय नमः ।

ॐ गङ्गाप्रवाहसदृशसूक्तिसाराय नमः ।

ॐ महाशायाय नमः ।

ॐ वितण्डिकाख्यवेतण्डखण्डाद्भुतपण्डिताय नमः ।

ॐ भाष्यप्रचारनिरताय नमः ॥२३०॥

ॐ भाष्यप्रवचनोत्सुकाय नमः ।

ॐ भाष्यामृताब्धिमथनसंपन्नज्ञानसारभाजे नमः ।

ॐ भाष्यसारग्रहासक्तभक्तमुक्तिप्रदायकाय नमः ।

ॐ भाष्याकारयशोराशिपवित्रितजगत्त्रयाय नमः ।

ॐ भाष्यामृतास्वादलुब्धकर्मन्दिजनसेविताय नमः ॥२३५॥

ॐ भाष्यरत्नप्रभाजालदेदीपितजगत्त्रयाय नमः ।

ॐ भाष्यगङ्गाजलस्नातनिःशेषकलुषापहायाय नमः ।

ॐ भाष्यगाम्भीर्यसंद्रष्टृजनविस्मयकारकाय नमः ।

ॐ भाष्याम्भोनिधिनिर्मग्नभक्तकैवल्यदायकाय नमः ।

ॐ भाष्यचन्द्रोदयोल्लासविद्वस्तध्वान्तदक्षिणाय नमः ॥२४०॥

ॐ भाष्याख्यकुमुदव्रातविकासनसुचन्द्रमसे नमः ।

ॐ भाष्ययुक्तिकुठारौघनिकृत्तद्वैतदुर्द्रुमाय नमः ।

ॐ भाष्यामृताब्धिलहरीविहारापरिखिन्नधिये नमः ।

ॐ भाष्यसिद्धान्तसर्वस्वपेटिकायितमानसाय नमः ।

ॐ भाष्याख्यनिकषग्रावशोधिताद्वैतकाञ्चनाय नमः ॥२४५॥

ॐ भाष्यवैपुल्यगाम्भीर्यतिरस्कृतपयोनिधये नमः ।

ॐ भाष्याभिधसुधावृष्टिपरिप्लावितभूतलाय नमः ।

ॐ भाष्यपीयूषवर्षोन्मूलितसंतापसन्ततये नमः ।

ॐ भाष्यतन्तुपरिप्रोतसद्युक्तिकुसुमावलये नमः ॥२५०॥

ॐ वेदान्तवेद्यविभवाय नमः ।

ॐ वेदान्तपरिनिष्ठिताय नमः ।

ॐ वेदान्तवाक्यनिवहायार्थ्यपरिचिन्तकाय नमः ।

ॐ वेदान्तवाक्यविलसद्दैदम्पर्यप्रदर्शकाय नमः ।

ॐ वेदान्तवाक्यपीयूषस्यादिमाभिज्ञमानसाय नमः ॥२५५॥

ॐ वेदान्तवाक्यकुसुमरसास्वादनबम्भराय नमः ।

ॐ वेदान्तसारसर्वस्वनिधानायितचित्तभुवे नमः ।

ॐ वेदान्तनलिनीहंसाय नमः ।

ॐ वेदान्ताम्भोजभास्कराय नमः ।

ॐ वेदान्तकुमुदोल्लाससुधानिधये नमः ॥२६०॥

ॐ उदारधिये नमः ।

ॐ वेदान्तशास्त्रसाहाय्यपराजितकुवादिकाय नमः ।

ॐ वेदान्ताम्बोधिलहरीविहारपरिनिर्वृताय नमः ।

ॐ शिष्यशङ्कापरिच्छेत्रे नमः ।

ॐ शिष्याध्यापनतत्पराय नमः ॥२६५॥

ॐ वृद्धवेषप्रतिच्छन्नव्यासाचार्यावलोकनाय नमः ।

ॐ अध्याप्यमानविषयजिज्ञासुव्यासचोदिताय नमः ।

ॐ शिष्यौघवर्णितस्वीयमाहात्म्याय नमः ।

ॐ महिमाकराय नमः ।

ॐ स्वसूत्रभाष्यश्रवणसंतुष्टव्यासनन्दिताय नमः ॥२७०॥

ॐ पृष्टसूत्रार्थकाय नमः ।

ॐ वाग्मिने नमः ।

ॐ विनयोज्वलमानसाय नमः ।

ॐ तदन्तरेत्यादिसूत्रप्रश्नहर्षितमानसाय नमः ।

ॐ श्रुत्युपोद्बलितस्वीयवचोरञ्जितभूसुराय नमः ॥२७५॥

ॐ भूतसूक्ष्मोपसृष्टजीवात्मगतिसाधकाय नमः ।

ॐ ताण्डिश्रुतिगतप्रश्नोत्तरवाक्यनिदर्शकाय नमः ।

ॐ शतधाकल्पितस्वीयपक्षाय नमः ।

ॐ सर्वसमाधिकृते नमः ।

ॐ वावदूकमहाविप्रपरमाश्चर्यदायकाय नमः ॥२८०॥

ॐ तत्तत्प्रश्नसमाधानसन्तोषितमहामुनये नमः ।

ॐ वेदावसानवाक्यौघसामरस्यकृते नमः ।

ॐ अव्ययाय नमः ।

ॐ दिनाष्टककृतासंख्यवादाय नमः ।

ॐ विजयभाजनाय नमः ॥२८५॥

ॐ विस्मयानन्दभरितश्रोतृश्लाघितवैभवाय नमः ।

ॐ विष्णुशङ्करतावाचिपद्माङ्घ्रिप्रतिबोधिताअय नमः ।

ॐ पद्माङ्घ्रिप्रार्थितस्वीयवाग्व्यपारविरामकाय नमः ।

ॐ तदीयवाक्यसारज्ञाय नमः ।

ॐ नमस्कारसमुद्यताय नमः ॥२९०॥

ॐ व्यासमाहात्म्यविज्ञात्रे नमः ।

ॐ व्यासस्तुतिपरायणाय नमः ।

ॐ नानापद्यावलीप्रीतव्यासानुग्रहभाजनाय नमः ।

ॐ निजरूपसमायुक्तव्याससंदर्शनोत्सुकाय नमः ।

ॐ तापिच्छमञ्जरीकान्तव्यासविग्रहदर्शकाय नमः ॥२९५॥

ॐ शिष्यावलीपरिवृताय नमः ।

ॐ प्रत्युद्गतिविधायकाय नमः ।

ॐ स्वीयापराधशमनसमभ्यर्थनतत्पराय नमः ।

ॐ बादरायणपादाब्जयुगलीस्पर्शनोद्यताय नमः ॥३००॥

ॐ व्यासदर्शनजस्वीयकार्तार्थ्यप्रतिपादकाय नमः ।

ॐ अष्टादशपुराणौघदुष्करत्वनिबोधकाय नमः ।

ॐ तत्तादृशपुराणौघनिर्मातृत्वाभिनन्दकाय नमः ।

ॐ परोपकारनैरत्यश्लाघकाय नमः ।

ॐ व्यासपूजकाय नमः ।

ॐ भिन्नशाखाचतुर्वेदविभागश्लाघकाय नमः ।

ॐ महते नमः ।

ॐ कलिकालीनमन्दात्मानुग्रहीतृत्वप्रदर्शकाय नमः ।

ॐ नानाप्रबन्धकर्तृत्वजनिताश्चर्यबोधकाय नमः ।

ॐ भारताख्यमहाग्रन्थदुष्करत्वप्रदर्शकाय नमः ॥३१०॥

ॐ नारायणावतारत्वप्रदर्शिने नमः ।

ॐ प्रार्थनोद्यताय नमः ।

ॐ स्वानुग्रहैकफलकव्यासागमनशम्सकाय नमः ।

ॐ स्वकीयभाष्यालोकार्थव्याससंप्रार्थकाय नमः ।

ॐ मुनये नमः ।

ॐ निजभाष्यगगाम्भीर्यविस्मापितमहामुनये नमः ।

ॐ भाष्यसर्वांशसंद्रष्टृव्यासाचार्याभिनन्दिताय नमः ।

ॐ निजसिद्धान्तसर्वस्वद्रष्टृव्यासाभिपूजिताय नमः ।

ॐ श्रुतिसूत्रसुसाङ्गत्यसंद्रष्टृव्यासपूजिताय नमः ।

ॐ श्लाघावादसहस्रैकपात्रभूताय नमः ॥३२०॥

ॐ महामुनये नमः ।

ॐ गोविन्दयोगीशिष्यत्वश्लाघकव्यासपूजिताय नमः ।

ॐ स्वशङ्कर्रम्शतावादिव्यासवाक्यानुमोदकाय नमः ।

ॐ व्यासाशयाविष्करणभाष्यप्रथनतत्पराय नमः ।

ॐ सर्वसौभाग्यनिलयाय नमः ।

ॐ सर्वसौख्यप्रदायकाय नमः ।

ॐ सर्वज्ञाय नमः ।

ॐ सर्वदृशे नमः ।

ॐ साक्षिणे नमः ।

ॐ सर्वतोमुखनैपुण्याय नमः ॥३३०॥

ॐ सर्वकर्त्रे नमः ।

ॐ सर्वगोप्त्रे नमः ।

ॐ सर्ववैभवसंयुताय नमः ।

ॐ सर्वभावविशेषज्ञाय नमः ।

ॐ सर्वशास्त्रविशारदाय नमः ।

ॐ सर्वाभीष्टप्रदाय नमः ।

ॐ देवाय नमः ।

ॐ सर्वदुःखनिवारणाय नमः ।

ॐ सर्वसंशयविच्छेत्रे नमः ।

ॐ सर्वसम्पत्प्रदायकाय नमः ॥३४०॥

ॐ सर्वसौख्यविधात्रे नमः ।

ॐ सर्वामरकृतानतये नमः ।

ॐ सर्वर्षिगणसम्पूज्याय नमः ।

ॐ सर्वमङ्गलकारणाय नमः ।

ॐ सर्वदुःखापहाय नमः ।

ॐ सौम्याय नमः ।

ॐ सर्वान्तर्यमणाय नमः ।

ॐ बलिने नमः ।

ॐ सर्वाधाराय नमः ।

ॐ सर्वगामिने नमः ॥३५०॥

ॐ सर्वतोभद्रदायकाय नमः ।

ॐ सर्वदुर्वादिदुर्गर्वखर्वीकरणकौतिकिने नमः ।

ॐ सर्वलोकसुविख्यातयशोराशये नमः ।

ॐ अमोघवाचे नमः ।

ॐ सर्वभक्तसमुद्धर्त्रे नमः ।

ॐ सर्वापद्विनिवारकाय नमः ।

ॐ सार्वभौमादिहैरण्यगर्भान्तानन्दचिन्तकाय नमः ।

ॐ भूयोग्रग्रन्थनिर्माणकृतव्यासार्यचोदनाय नमः ।

ॐ भेदवादिनिराशार्थिव्यासवाक्यानुमोदकाय नमः ।

ॐ यथागतस्वगमनबोधकव्यासचोदिताय नमः ॥३६०॥

ॐ वेदान्तभाष्यरचनप्रचारादिविबोधकाय नमः ।

ॐ स्वकीयकृतकृत्यत्वबोधकाय नमः ।

ॐ प्रार्थनापराय नमः ।

ॐ मणिकर्णीमहाक्षेत्रव्याससानिध्ययाचकाय नमः ।

ॐ आत्मीयदेहसंत्यागप्रवृत्ताय नमः ।

ॐ व्यासचोदकाय नमः ।

ॐ निषिद्धदेहसंत्यागव्यासाज्ञापरिपालकाय नमः ।

ॐ अनिर्जितानेकवादिजयसंप्रेरिताय नमः ।

ॐ सुखिने नमः ।

ॐ अवतारमहाकार्यसम्पूर्णत्वानुचिन्तकाय नमः ॥३७०॥

ॐ स्वसूत्रभाष्यमाधुर्यप्रीतव्यासकृतादराय नमः ।

ॐ वरदानकृतोत्साहव्याससम्चोदिताय नमः ।

ॐ कवये नमः ।

ॐ विधिदत्तष्टसंख्याकवयसे नमः ।

ॐ सन्न्याससंग्रहिणे नमः ।

ॐ स्ववैदग्ध्याभिनिष्पन्नवयोष्टककृताश्रयाय नमः ।

ॐ व्यासाज्ञावैभवोत्पन्नषोडशाब्दाय नमः ।

ॐ शिवङ्कराय नमः ।

ॐ श्रुतिसूत्रमहाभाष्यत्रिवेण्युत्पत्तिभुवे नमः ।

ॐ शिवाय नमः ॥३८०॥

ॐ वेदव्यासपदाम्भोजयुगलीस्पर्शनिर्वृताय नमः ।

ॐ भक्तिगर्भितवाक्यौघकुसुमाञ्जलिदायकाय नमः ।

ॐ व्यासदत्तवरग्राहिणे नमः ।

ॐ व्यासान्तर्धानदर्शकाय नमः ।

ॐ बादरायणविश्लेषव्यसनातुरमानसाय नमः ।

ॐ व्याससंचोदिताशेषदिग्विजयैककृतोद्यमाय नमः ।

ॐ कुमारिलावलोकेच्छवे नमः ।

ॐ दक्षिणाशागमोद्यताय नमः ।

ॐ भट्टपादापराभिख्यकुमारिलजयोत्सुकाय नमः ।

ॐ प्रयागगमनोद्युक्ताय नमः ॥३९०॥

ॐ त्रिवेणीसङ्गमस्नानपवित्रतरमूर्तिकाय नमः ।

ॐ गङ्गातुङ्गतरङ्गौघदर्शनप्रीतमानसाय नमः ।

ॐ हृद्यानवद्यपद्यौघसंस्तुताभ्रसरिद्वराय नमः ।

ॐ भूयोभूयःकृतस्नानाय नमः ।

ॐ दण्डालङ्कृतहस्तकाय नमः ।

ॐ नानाघमर्षमन्त्रानुपाठकाय नमः ।

ॐ ध्यानतत्पराय नमः ।

ॐ नानामन्त्रजपप्रीताय नमः ।

ॐ मन्त्रसारज्ञाय नमः ।

ॐ उत्तमाय नमः ॥४००॥

ॐ मन्त्रार्थव्याकृतिक्षमाय नमः ।

ॐ मन्त्रमाणिक्यमन्जूषायितचेतःप्रदेशकाय नमः ।

ॐ मन्त्ररत्नाकराय नमः ।

ॐ मानिने नमः ।

ॐ मन्त्रवैभवदर्शकाय नमः ।

ॐ मन्त्रशास्त्रार्थतत्वज्ञाय नमः ।

ॐ मन्त्रशास्त्रप्रवर्तकाय नमः ।

ॐ मान्त्रिकाग्रेसराय नमः ॥४१०॥

ॐ मान्याय नमः ।

ॐ मन्त्राम्भोरुहषट्पदाय नमः ।

ॐ मन्त्रकाननसञ्चारकेसरिणे नमः ।

ॐ मन्त्रतत्पराय नमः ।

ॐ मन्त्राभिधसुकासारकलहंसाय नमः ।

ॐ महामतये नमः ।

ॐ मन्त्रसंशयविच्छेत्रे नमः ।

ॐ मन्त्रजातोपदेशकाय नमः ।

ॐ स्नानकालसमायातमातृस्मृतये नमः ।

ॐ अमोघधिये नमः ॥४२०॥

ॐ आह्निकानुष्ठितिव्यग्राय नमः ।

ॐ यतिधर्मपरायणाय नमः ।

ॐ एकान्तमतये नमः ।

ॐ एकान्तशीलाय नमः ।

ॐ एकान्तसंश्रिताय नमः ।

ॐ भट्टपादतुषाङ्गारावेशवृत्तनिशामकाय नमः ।

ॐ भाष्यवार्तिकनिर्माणमनोरथसमीरिताय नमः ।

ॐ भट्टपादीयवृत्तान्तप्रत्यक्षीकरणोत्सुकाय नमः ।

ॐ कुमारिलसमालोकलालसाय नमः ।

ॐ गमनोत्सुकाय नमः ॥४३०॥

ॐ तुषाग्निराशिमध्यस्थभट्टपादावलोकनाय नमः ।

ॐ प्रभाकरादिसच्छिष्यावृततन्मूर्तिदर्शकाय नमः ।

ॐ तुषाग्निस्थिततद्वक्त्रप्रसादालोकविस्मिताय नमः ।

ॐ अतर्कितागतप्रीतभट्टपादाभिनन्दिताय नमः ।

ॐ भट्टपादीयसच्छिष्यकृतनानोपचारकाय नमः ।

ॐ अन्त्यकालस्वसानिध्यसन्तोषितकुमारिलाय नमः ।

ॐ निजदर्शनसन्तुष्टभट्टपादाभिनन्दिताय नमः ।

ॐ सत्सङ्गमनमाहत्म्यवादिभट्टाभिपूजिताय नमः ।

ॐ संसारानित्यतावाचिभट्टशोकानुशोचकाय नमः ।

ॐ कालानैय्यत्यसंबोधिभट्टपादोक्तिशम्सनाय नमः ॥४४०॥

ॐ ईशापह्नवजात्यन्तदोषवादसुसंश्रविणे नमः ।

ॐ बौद्धान्तेवासिताबोधिभट्टवाक्यप्रशम्सकाय नमः ।

ॐ भट्टपादीयसौधाग्रपतनाकर्णनातुराय नमः ।

ॐ वेदभक्तिप्रयुक्त्यैतत्क्षताभावनिशामकाय नमः ।

ॐ एकचक्षुःक्षतप्राप्तिशोचद्भट्टानुशोचकाय नमः ।

ॐ गुरुद्रोहाख्यदुरितसम्भवाकर्णनातुराय नमः ।

ॐ प्रायश्चित्तार्थरचिततुषाग्न्यावेशदर्शकाय नमः ।

ॐ स्वदर्शनजकार्तार्थ्यबोधिभट्टोक्तिपूजिताय नमः ।

ॐ स्वभाष्यवृत्तिरचनभाग्याभावोक्तिसम्श्रविणे नमः ।

ॐ तत्प्रयुक्तयशोऽभावबोधिभट्टानुशोचकाय नमः ॥४५०॥

ॐ निजावताराभिज्ञप्तिबोधिभट्टोक्तिशम्सनाय नमः ।

ॐ सुब्रह्मण्यावतारत्वबोधकाय नमः ।

ॐ श्लाघनापराय नमः ।

ॐ कर्मकाण्डप्रतिष्ठार्थतदीयागमबोधकाय नमः ।

ॐ साधुमार्गानुशिक्षार्थतदीयव्रतबोधकाय नमः ।

ॐ करकाम्बुकणासेकजीवनोत्सुकमानसाय नमः ।

ॐ लोकापवादासह्यत्वबोधिभट्टानुसारकृते नमः ।

ॐ आगमोक्तव्रतैकान्तनिष्ठभट्टानुमोदकाय नमः ।

ॐ आगमोक्त्यतिलङ्घित्वदुष्कीर्तिपरिहारकृते नमः ।

ॐ स्वकीयकृतकृत्यत्वाकाञ्क्षिभट्टानुसेविकाय नमः ॥४६०॥

ॐ तारकाख्यब्रह्मविद्यापेक्षिभट्टाभिलाषकृते नमः ।

ॐ मण्डनाख्यमहासूरिविजयप्रेरिताय नमः ।

ॐ सुहृदे नमः ।

ॐ तत्पाण्डित्यगुणश्लाघिभट्टपादप्रणोदिताय नमः ।

ॐ प्रवृत्तिमार्गनिरततद्वृत्तान्तनिशामकाय नमः ।

ॐ मण्डनार्यजयोद्योगकर्तव्योक्तिसुसूचकाय नमः ।

ॐ दुर्वासःशापसंजातवाणीस्थितिनिशामकाय नमः ।

ॐ भट्टान्तेवासिमुख्यत्वाभिज्ञाय नमः ।

ॐ विज्ञानसागराय नमः ।

ॐ भारतीसाक्षिकानेकविवादकरणेरिताय नमः ॥४७०॥

ॐ तदीयजयमात्रान्यजयप्राप्तिनिशामकाय नमः ।

ॐ वार्तिकग्रन्थकरणयोग्यताश्रवणादृताय नमः ।

ॐ मुहूर्तमात्रसानिध्यप्रार्थिभट्टानुमोदकाय नमः ।

ॐ तारकब्रह्मकथनकृतार्थितकुमारिलाय नमः ।

ॐ परमाद्वैततत्वज्ञभट्टपादानुचिन्तिताय नमः ।

ॐ भट्टानुग्रहणोद्युक्ताय नमः ।

ॐ विष्णुधामप्रवेशकाय नमः ।

ॐ आकाशमार्गसम्प्राप्तमण्डनीयनिवेशनाय नमः ।

ॐ माहिष्मत्याख्यनगरीरामणीयकदर्शनाय नमः ।

ॐ रेवावारिकणोन्मिश्रवातधूताखिलाश्रमाय नमः ॥४८०॥

ॐ रेवानदीकृतस्नानाय नमः ।

ॐ नित्याह्नीकपरायणाय नमः ।

ॐ दृगध्वनीनतद्दासीदर्शनाय नमः ।

ॐ महिमान्विताय नमः ।

ॐ मण्डनीयमहासद्ममार्गप्रष्ट्रे नमः ।

ॐ महायशसे नमः ।

ॐ विस्मयाकुलतद्दासीदत्तोत्तराय नमः ।

ॐ उदारवाचे नमः ।

ॐ स्वतःप्रामाण्यादिवादिशुकसूचिततद्गृहाय नमः ।

ॐ कर्मेश्वरादिसम्वादिशुकसूचिततद्गृहाय नमः ॥४९०॥

ॐ जगद्धृवत्वादिवादिशुकसूचितसद्मकाय नमः ।

ॐ द्वारस्थनीडसंरुद्धशुकोक्तिश्लाघनापराय नमः ।

ॐ यथोक्तचिह्नविज्ञातमण्डनीयनिवेशनाय नमः ।

ॐ कवाटगुप्तिदुर्वेशगृहान्तर्गतिचिन्तकाय नमः ।

ॐ योगमाहात्म्यरचितव्योममार्गातिलंघनाय नमः ।

ॐ अङ्गणान्तःसमुत्पातिने नमः ।

ॐ परितो दृष्टसद्मकाय नमः ।

ॐ अभ्रंलिहमहासद्मरामणीयकदर्शनाय नमः ।

ॐ पद्मजन्माम्शसम्भूतमण्डनार्यावलोकनाय नमः ।

ॐ निमन्त्रितव्यासजैमिन्यञ्घ्रिक्षालनदर्शकाय नमः ॥५००॥

ॐ व्यासजैमिनिसाङ्गत्यदर्शनात्यन्तविस्मिताय नमः ।

ॐ तत्कालकृतसान्निध्यव्यासजैमिनिमानिताय नमः ।

ॐ अकस्माद्यतिसम्प्राप्तिकृद्धमण्डनवीक्षिताय नमः ।

ॐ प्रवृत्तिमार्गनिरतमण्डनार्यविमानिताय नमः ।

ॐ सोपालम्भतदीयोक्तिसमाधानविचक्षणाय नमः ।

ॐ मण्डनीयाखिलप्रश्नोत्तरदानविदग्धधिये नमः ।

ॐ वक्रोक्तिजालचातुर्यनिरुत्तरितमण्डनाय नमः ।

ॐ यतिनिन्दादोषबोधिव्यासवाक्यनिशामकाय नमः ।

ॐ साक्षाद्विष्णुस्वरूपत्वबोधकव्यासदर्शकाय नमः ।

ॐ व्यासाज्ञावाक्यवशगमण्डनार्यनिमन्त्रिताय नमः ॥५१०॥

ॐ मण्डनार्यकृतानेकसपर्याविधिभाजनाय नमः ।

ॐ भैक्षार्थरचिताह्वानाय नमः ।

ॐ वादभिक्षैकयाचकाय नमः ।

ॐ विवादभिक्षामात्रार्थिस्वागमप्रतिबोधकाय नमः ।

ॐ अन्योन्यशिष्यताप्राप्तिपणबन्धप्रदर्शकाय नमः ।

ॐ अनादृताहारभिक्षाय नमः ।

ॐ वादभिक्षापरायणाय नमः ।

ॐ श्रुत्यन्तमार्गविस्तारमात्राकङ्क्षित्वबोधकाय नमः ।

ॐ विस्मयानन्दभरितमण्डनार्यप्रशम्सिताय नमः ।

ॐ चिराकाङ्क्षितसद्वादकथातोषितमण्डनाय नमः ॥५२०॥

ॐ वादभिक्षाकृतोद्योगमण्डनार्यप्रशम्सकाय नमः ।

ॐ विवादसाक्षिशून्यत्वबोधिमण्डनचोदिताय नमः ।

ॐ मुनिद्वयीसाक्षितार्थिमण्डनार्यप्रशम्सकाय नमः ।

ॐ भारतीकृतमाध्यस्थ्यवादलोलुपमानसाय नमः ।

ॐ प्रतिज्ञापणबन्धादिजिज्ञासुत्वप्रदर्शकाय नमः ।

ॐ मण्डनार्यकृतासंख्यवीजनाद्युपचारकाय नमः ।

ॐ व्यासजैमिनिसान्निध्यसम्भाषणपरायणाय नमः ।

ॐ मुनिद्वयान्तर्धिदर्शिने नमः ।

ॐ द्विजेन्द्रालयनिर्गताय नमः ॥५३०॥

ॐ रेवानदीसमीपस्थदेवालयनिवासकृते नमः ।

ॐ निजशिष्यजनैकान्तसम्भाषणपरायणाय नमः ।

ॐ श्राविताशेषविषयशिष्यावलिसमाश्रिताय नमः ।

ॐ व्यासजैमिनिसान्निध्यदुरापत्वानुचिन्तकाय नमः ।

ॐ त्रियामानिर्गमाकाङ्क्षिणे नमः ।

ॐ प्रातःस्नानपरायणाय नमः ।

ॐ कृताह्निकक्रियाय नमः ।

ॐ शिष्यमण्डलीपरिमण्डिताय नमः ।

ॐ मण्डनार्यमहासद्ममण्डनायितमूर्तिकाय नमः ।

ॐ विवादार्थकृतैकान्तनिश्चयाय नमः ॥५४०॥

ॐ मण्डनादृताय नमः ।

ॐ सदस्यभावविलसद्वाणीसान्निध्यदर्शकाय नमः ।

ॐ विवादकृतिसन्नद्धमण्डनार्यप्रशम्सकाय नमः ।

ॐ सदस्यवादिसम्योगसमाह्लादितमानसाय नमः ।

ॐ प्रतिज्ञाकरणोत्साहिने नमः ।

ॐ वेदान्ताशयसूचकाय नमः ।

ॐ विश्वाकारसमाभातब्रह्म्यैकत्वप्रदर्शकाय नमः ।

ॐ शुक्तिरूप्यादिदृष्टान्तप्रत्यायितमृषात्मकाय नमः ।

ॐ ब्रह्मज्ञानैकसम्प्राप्यस्वात्मसंस्थितिबोधकाय नमः ॥५५०॥

ॐ पुनर्जन्मापरामृष्टकैवल्यप्रतिपादकाय नमः ।

ॐ त्रयीमस्तकसन्दोहप्रामाण्योद्घाटनापराय नमः ।

ॐ पराजितस्वसंप्राप्यशुक्लवस्त्रत्वबोधकाय नमः ।

ॐ जयापजयपक्षीयवाणीसाक्षित्वबोधकाय नमः ।

ॐ विश्वरूपीयसकलप्रतिज्ञाश्रवणोत्सुकाय नमः ।

ॐ वेदान्तामानताबोधितद्वाक्यश्रवणातुराय नमः ।

ॐ कर्मकाण्डीयवचनप्रामाण्याकर्णनाकुलाय नमः ।

ॐ क्रियायोगिवचोमात्रप्रामाण्याकर्णनक्षमाय नमः ।

ॐ कर्मसंप्राप्यकैवल्यबोधिमण्डनदर्शकाय नमः ॥५६०॥

ॐ यावदायुःकर्मजालकर्तव्यत्वोक्तिसंश्रविणे नमः ।

ॐ पराजितस्वकाषायग्रहवाक्यानुमोदकाय नमः ।

ॐ भारतीसाक्षिकासंख्यवादोद्युक्ताय नमः ।

ॐ यतीश्वराय नमः ।

ॐ दैनन्दिनाह्निकोपान्तसमारब्धविवादकाय नमः ।

ॐ भारतीनिहितस्वीयगलालम्बिसुमालिकाय नमः ।

ॐ मण्डनीयगलालम्बिमालालालित्यदर्शकाय नमः ।

ॐ मालामालिन्यनिर्णेयपराजयनिशामकाय नमः ।

ॐ गृहकर्मसमासक्तवाणीदत्तसुभैक्ष्यकाय नमः ।

ॐ भिक्षोत्तरक्षणारब्धविवादापरिखिन्नधिये नमः ॥५७०॥

ॐ ऊर्ध्वोपविष्टब्रह्मादिपीतस्वीयवचोऽमृताय नमः ।

ॐ क्रोधवाक्फलजात्यादिदोषशून्यमहावचसे नमः ।

ॐ अद्वैतखण्डनोद्युक्तमण्डनीयोक्तिखण्डनाय नमः ।

ॐ जीवेश्वरजगद्भेदवादभेदनलालसाय नमः ।

ॐ उद्धालकश्वेतकेतुसम्वादादिनिदर्शकाय नमः ।

ॐ तत्त्वमस्यादिवाक्यौघस्वारस्यप्रतिपादकाय नमः ।

ॐ विधिशेषत्ववचननिर्मूलत्वप्रदर्शकाय नमः ।

ॐ भिन्नप्रकरणोपात्ततत्तात्पर्यप्रदर्शकाय नमः ।

ॐ उपासनार्थतावादनिर्मूलनपरायणाय नमः ।

ॐ केवलाद्वैतविश्रान्तवाक्यतात्पर्यदर्शकाय नमः ।

ॐ सच्चिदानन्दरूपात्मप्रतिपादनतत्पराय नमः ॥५८०॥

ॐ जपमात्रोपयोगित्वनिर्युक्तित्वानुदर्शकाय नमः ।

ॐ अभेदबोधिवाक्यौघप्राबल्यपरिदर्शकाय नमः ।

ॐ भेदबुद्धिप्रमाणत्वसर्वांशोन्मूलनक्षमाय नमः ।

ॐ भेदसंदर्शिवाक्यौघप्रामाण्याभावसाधकाय नमः ।

ॐ भेदप्रत्यक्ष्यदौर्बल्यप्रतिपादनतत्पराय नमः ।

ॐ भेदनिन्दासहस्रोक्तितात्पर्यप्रतिपादकाय नमः ।

ॐ लोकप्रसिद्धभेदानुवादकत्वप्रदर्शकाय नमः ।

ॐ अप्रसिद्धाद्वैतबोधिवाक्यप्रामाण्यसाधकाय नमः ।

ॐ नानादृष्टान्तसंदर्शिने नमः ।

ॐ श्रुतिवाक्यनिदर्शकाय नमः ॥५९०॥

ॐ युक्तिसाहस्रघटितस्वानुभूतिप्रदर्शकाय नमः ।

ॐ श्रुतियुक्तिसुसौहार्ददर्शकाय नमः ।

ॐ वीतमत्सराय नमः ।

ॐ हेतुदोषांशसंदर्शिमण्डनाक्षेपखण्डनाय नमः ।

ॐ भेदौपाधिकताबोधिने नमः ।

ॐ सत्याद्वैतानुदर्शकाय नमः ।

ॐ असम्सारिपरब्रह्मसाधनैकान्तमानसाय नमः ।

ॐ क्षेत्रज्ञपरमात्मैक्यवादिगीतादिनिदर्शकाय नमः ।

ॐ अद्यारोपापवादाप्तनिष्प्रपञ्चत्वदर्शकाय नमः ।

ॐ युक्तिसाहस्ररचितदुर्वादिमतखण्डनाय नमः ॥६००॥

ॐ मण्डनीयगलालम्बिमालामालिन्यदर्शकाय नमः ।

ॐ पुष्पवृष्टिसंछन्नाय नमः ।

ॐ भारतीप्रतिनन्दिताय नमः ।

ॐ भिक्षाकालोपसंप्राप्तभारतीपरिदर्शकाय नमः ।

ॐ उभयाह्वानकृद्वाणीवैदग्ध्यश्लाघनापराय नमः ।

ॐ भारतीबोधितस्वीयदुर्वासःशापसंश्रविणे नमः ।

ॐ जयावधिकतच्छापवृत्तान्ताकर्णनाय नमः ।

ॐ वशिने नमः ।

ॐ स्वधामगमनोद्युक्तभारतीप्रतिरोधकाय नमः ।

ॐ वनदुर्गामहामन्त्रकृतवाणीसुबाधनाय नमः ॥६१०॥

ॐ सरस्वत्यवतारत्वबोधकाय नमः ।

ॐ वेदविद्वराय नमः ।

ॐ भक्तिमत्परतन्त्रत्वबोधकाय नमः ।

ॐ विनयोज्वलाय नमः ।

ॐ स्वानुज्ञावधिभूलोकनिवासप्रार्थनापराय नमः ।

ॐ मण्डनीयाशयज्ञानप्रवृत्ताय नमः ।

ॐ विगतस्पृहाय नमः ।

ॐ कर्मजाड्यपराभूततत्सन्देहापनोदकाय नमः ।

ॐ निजापजयसंजातदुःखाभावोक्तिसंश्रविणे नमः ।

ॐ जैमिन्युक्तिनिराशानुशोचन्मण्डनबोधकाय नमः ॥६२०॥

ॐ कामनावदनुग्राहिजैमिन्याशयबोधकाय नमः ।

ॐ कर्मप्रणाडीमात्रत्वबोधिने नमः ।

ॐ जैमिनिसम्मताय नमः ।

ॐ साक्षान्मोक्षैकफलकज्ञानवाचिने नमः ।

ॐ महावचसे नमः ।

ॐ कर्मौघफलदातृत्वानुपपत्तिप्रपञ्चकाय नमः ।

ॐ ईशैकफलदातृत्वसाधकाय नमः ।

ॐ युक्तिबोधकाय नमः ।

ॐ जैमिनीयवचोजालतात्पर्योद्घाटनक्षमाय नमः ।

ॐ अनुमेयेश्वराभावमात्रतात्पर्यसूचकाय नमः । ॥६३०॥

ॐ वेदैकगम्येशवादिजैमिन्याशयसूचकाय नमः ।

ॐ डोलायमानहृदयमण्डनार्यावलोकनाय नमः ।

ॐ तत्सन्देहापनोदार्थागतजैमिनिशम्सकाय नमः ।

ॐ स्वोक्तसर्वांशसाधुत्वबोधिजैमिनिशम्सकाय नमः ।

ॐ जैमिन्युदितसर्वज्ञभावाय नमः ।

ॐ जैमिनिपूजिताय नमः ।

ॐ निजावतारसंसूचिजैमिनिप्रतिनन्दिताय नमः ।

ॐ जैमिनिव्यासवचनतात्पर्यांशप्रदर्शकाय नमः ।

ॐ जैमिन्यन्तर्धिसंदर्शिने नमः ।

ॐ सर्वतो जयभाजनाय नमः ॥६४०॥

ॐ साष्टाङ्गपातप्रणतमण्डनार्यप्रसादकृते नमः ।

ॐ स्वीयावतारताभिज्ञमण्डनार्याभिनन्दिताय नमः ।

ॐ स्वानभिज्ञत्वानुशोचिमण्डनार्यप्रसंसकाय नमः ।

ॐ स्वकर्मजाड्यानुशोचन्मण्डनोक्त्यभिनन्दकाय नमः ।

ॐ सम्सारतापसम्बोधिमण्डनोक्त्यभिनन्दकाय नमः ।

ॐ परमानन्दलहरीविहरन्मण्डनादृताय नमः ।

ॐ स्वाज्ञानतिमिरापायबोधिमण्डनशम्सकाय नमः ।

ॐ अविद्याराक्षसीग्रस्तपरमात्मोद्धृतिक्षमाय नमः ।

ॐ स्वापराधक्षमापेक्षिमण्डनार्याभियाचिताय नमः ।

ॐ मण्डनार्यकृतस्वीयावतारत्वसमर्थनाय नमः ॥६५०॥

ॐ पूर्वार्जितस्वसुकृतश्लाघिमण्डनपूजिताय नमः ।

ॐ स्वसम्वादातिसन्तुष्टमण्डनाधिकनन्दिताय नमः ।

ॐ स्वसम्वादातिदौर्लभ्यबोधिमण्डनशम्सकाय नमः ।

ॐ नानास्तुतिवचोगुंफसन्तुष्टस्वान्तसम्युताय नमः ।

ॐ मण्डनार्यकृतासंख्यनमोवाकप्रशंसनाय नमः ।

ॐ मण्डनारचितस्तोकस्तुतिसाहस्रभाजनाय नमः ।

ॐ स्वपादशरणापन्नमण्डनानुग्रहोत्सुकाय नमः ।

ॐ निजकिङ्करताबोधिमण्डनोक्तिप्रशम्सकाय नमः ।

ॐ मण्डनीयमहाभक्तितरलीकृतमानसाय नमः ।

ॐ तदीयजन्मसाफल्यापादनोद्यतमानसाय नमः ॥६६०॥

ॐ सुतदारगृहत्यागासक्तमण्डनशम्सकाय नमः ।

ॐ मण्डनीयकलत्रानुमतिसम्पादनोत्सुकाय नमः ।

ॐ मुन्युक्तसर्ववृत्तज्ञवाणीसमनुमोदिताय नमः ।

ॐ मण्डनप्राप्तशिष्यत्वाबोधिवाणीप्रशम्सकाय नमः ।

ॐ मुन्युक्तसर्ववृत्तान्तयाथार्थ्यपरिचिन्तकाय नमः ।

ॐ समग्रविजयाभावबोधिवाण्युक्तिचिन्तकाय नमः ।

ॐ निजार्धभागतावाचिवाणिप्रागल्भ्यचिन्तकाय नमः ।

ॐ महिलाजनसम्वाददोषोद्घाटनतत्पराय नमः ।

ॐ याज्ञवल्क्यस्त्रीविवाददर्शिवाण्युक्तिपूजकाय नमः ।

ॐ सुलभाजनकाद्युक्तिप्रत्युक्तिपरिचिन्तकाय नमः ॥६७०॥

ॐ विद्वत्सभामध्यवर्तिने नमः ।

ॐ वाणीसम्वादकाय नमः ।

ॐ वाग्झरीमाधुरीयोगदूरीकृतसुधारसाय नमः ।

ॐ भारतीचिन्तिताशेषशास्त्राजय्यत्ववैभवाय नमः ।

ॐ अतिबाल्यकृतसन्यासाय नमः ।

ॐ विषयौघपराङ्ग्मुखाय नमः ।

ॐ कामशास्त्रकृतप्रश्नाय नमः ।

ॐ चिन्तनापरमानसाय नमः ।

ॐ जनापवादचकिताय नमः ।

ॐ यतिधर्मप्रवर्तकाय नमः ॥६८०॥

ॐ कामशास्त्रानभिज्ञत्वबहिःप्रकटनोद्यताय नमः ।

ॐ मासमात्रावधिप्रार्थिने नमः ।

ॐ वाण्यनुज्ञाताय नमः ।

ॐ आत्मवते नमः ।

ॐ गमनार्थकृतोद्योगाय नमः ।

ॐ शिष्यावलिपरिष्कृताय नमः ।

ॐ योगशक्तिकृताकाशसञ्चाराय नमः ।

ॐ योगतत्वविदे नमः ।

ॐ गतचेतनभूपालगात्रदर्शिने नमः ।

ॐ प्रहृष्टधिये नमः । ॥६९०॥

ॐ प्रमदाजनसम्वीतराजकायप्रदर्शकाय नमः ।

ॐ तच्छरीरनुप्रवेशसमुत्सुकितमानसाय नमः ।

ॐ सनन्दनादिसच्छिष्यसमापृच्छापरायणाय नमः ।

ॐ भक्तिमत्तरपद्माङ्घ्रिनिषिद्धगमनाय नमः ।

ॐ व्रतिने नमः ।

ॐ सनन्दनोक्तविषयाकर्षकत्वस्वभावकाय नमः ।

ॐ ऊर्ध्वरेतोव्रतापोहशङ्किपद्माङ्घ्रिबोधकाय नमः ।

ॐ सन्यासधर्मशैथिल्याशङ्किपद्माङ्घ्रिवारिताय नमः ।

ॐ देहाभिमानवन्मात्रपापसम्भवबोधकाय नमः ।

ॐ निरहङ्कारकर्मौघलेपाभावावबोधकाय नमः ॥७००॥

ॐ गुहाहितात्मीयदेहरक्षणीयत्वबोधकाय नमः ।

ॐ सम्प्राप्तामरकाभिख्यराजदेहाय नमः ।

ॐ विशेषविदे नमः ।

ॐ निजप्रवेशचलितराजकीयशरीरभृते नमः ।

ॐ अकस्माज्जीवसम्प्राप्तिविस्मापिततदङ्गनाय नमः ।

ॐ प्रभूतहर्षवनिताव्यूहसन्दर्शनोत्सुकाय नमः ।

ॐ विस्मयानन्दभरितमन्त्रिमुख्याभिनन्दिताय नमः ।

ॐ शङ्खदुन्दुभिनिर्घोषसमाकर्णनतत्पराय नमः ॥७१०॥

ॐ समस्तजनतानन्दजनकाय नमः ।

ॐ मङ्गलप्रदाय नमः ।

ॐ पुरोहितकृतस्वीयशान्तिकर्मणे नमः ।

ॐ शमावनये नमः ।

ॐ कृतमाङ्गलिकाय नमः ।

ॐ भद्रगजारूढाय नमः ।

ॐ निरीहिताय नमः ।

ॐ सचिवादिकृतस्वीयसत्काराय नमः ।

ॐ साधुसम्मताय नमः ।

ॐ पृथिवीपालनोद्युक्ताय नमः ।

ॐ धर्माधर्मविशेषविदे नमः ॥७२०॥

ॐ नीतिमार्गसुनिष्णात्रे नमः ।

ॐ राजकार्यानुपालकाय नमः ।

ॐ निजौदार्यादिजनितमन्त्रिसम्शयभाजनाय नमः ।

ॐ स्वकीयगुणसन्दोहसमाह्लादितसज्जनाय नमः ।

ॐ परकायप्रवेष्ट्यत्वज्ञातृमन्त्रिप्रपूजिताय नमः ।

ॐ मन्त्रिविन्यस्तनिखिलराज्यभाराय नमः ।

ॐ धराधिपाय नमः ।

ॐ अन्तःपुरकृतावासाय नमः ।

ॐ ललनाजनसेविताय नमः ।

ॐ भूपालदेहसम्प्राप्तनानाक्रीडाअमहोत्सवाय नमः । ॥७३०॥

ॐ विषयानन्दविमुखाय नमः ।

ॐ विषयौघविनिन्दकाय नमः ।

ॐ विषयारातिशमनाय नमः ।

ॐ विषयातिविदूरधिये नमः ।

ॐ विषयाख्यमहारण्यनिकृन्तनकुठारकाय नमः ।

ॐ विषयाख्यविषज्वालासम्स्पर्शरहिताय नमः ।

ॐ यमिने नमः ।

ॐ विषयाम्बुधिसम्शोषबडबाग्निशिखायिताय नमः ।

ॐ कामक्रोधादिषड्वैरिदूरीभूतान्तरङ्गकाय नमः ।

ॐ विषयासारतादर्शिने नमः ॥७४०॥

ॐ विषयानाकुलांतराय नमः ।

ॐ विषयाख्यगजव्रातदमनोद्युक्तकेसरिणे नमः ।

ॐ विषयव्याघ्रदर्पघ्नाय नमः ।

ॐ विषयव्यालवैद्यकाय नमः ।

ॐ विषयौघदुरन्तत्वचिन्तकाय नमः ।

ॐ वीतचापलाय नमः ।

ॐ वात्सानयकलासारसर्वस्वग्रहणोत्सुकाय नमः ।

ॐ भूपदेहकृतासंख्यभोगाय नमः ।

ॐ नृपतिवेषभृते नमः ।

ॐ समयात्ययसम्बोधिशिष्यवर्गानुचिन्तिताय नमः ॥७५०॥

ॐ दुःखार्णवनिमग्नस्वशिष्यवर्गानुचिन्तकाय नमः ।

ॐ इतिकर्तव्यतामूढशिष्यवर्गगवेषिताय नमः ।

ॐ मृतोत्थियनृपश्रोतृशिष्याभिज्ङातधामकाय नमः ।

ॐ नानारुचिरवेषाढ्यनिजशिष्यावलोकनाय नमः ।

ॐ गानविद्यातिनैपुण्यशिष्यनागावकर्णनाय नमः ।

ॐ अन्योपदेशरचितहृद्यपद्यसुसम्श्रविणे नमः ।

ॐ नानार्थगर्भशिष्योक्तपयार्थपरिचिन्तकाय नमः ।

ॐ वेदान्तार्थपरिप्रोतवाक्यश्रवणकौतिकिने नमः ।

ॐ तत्वमस्यादिशिष्योक्तवाक्यार्थपरिचिन्तकाय नमः ।

ॐ सर्ववेदान्तसंगूढपरमात्मानुचिन्तकाय नमः । ॥७६०॥

ॐ निजशिष्याशयाभिज्ङाय नमः ।

ॐ निजकायप्रवेशकृते नमः ।

ॐ दंदह्यमानात्मदेहदर्शिने नमः ।

ॐ त्वरितमानसाय नमः ।

ॐ तदानीन्तनसन्तापशमनोपायचिन्तकाय नमः ।

ॐ लक्ष्मीनृसिम्हस्तवननिश्चितात्मने नमः ।

ॐ सुपद्यकृते नमः ।

ॐ नानास्तुतिवचोगुम्फप्रीणितश्रीनृसिम्हकाय नमः ।

ॐ नृसिम्हकरुणाशान्तसन्तापवपुराश्रिताय नमः ।

ॐ सनन्दनादिसच्छिष्यसम्वृतोभयपार्श्वकाय नमः ॥७७०॥

ॐ निजवृत्तान्तकथनतत्पराय नमः ।

ॐ शिष्यभावविदे नमः ।

ॐ आकाशमार्गगमनाय नमः ।

ॐ मण्डनार्यनिवेशदृशे नमः ।

ॐ विषयास्वादविमुखमण्डनार्याभिनन्दकाय नमः ।

ॐ मण्डनार्यकृतासंख्यप्रणामाञ्जलिदानकाय नमः ।

ॐ सन्न्यासनिश्चितस्वान्तमण्डनार्यप्रशंसकाय नमः ।

ॐ विष्टरस्थितिविश्रान्ताय नमः ।

ॐ शारदाकृतदर्शनाय नमः ।

ॐ शारदाश्लाघितस्वीयसार्वज्ञ्याय नमः ॥७८०॥

ॐ वादलोलुपाय नमः ।

ॐ निजधामगमोद्युक्तवाण्यन्तर्धानदर्शकाय नमः ।

ॐ योगमाहात्म्यसंदृष्टवाणीभाषणतत्पराय नमः ।

ॐ विधिपत्नीत्वसंदर्शिने नमः ।

ॐ तन्माहात्म्यानुदर्शकाय नमः ।

ॐ स्वकल्पितर्ष्यशृङ्गादिक्षेत्रवासाभिकाङ्क्षकाय नमः ।

ॐ शृङ्गगिर्यादिसुक्षेत्रसानिध्यप्रार्थनापराय नमः ।

ॐ भारतीसमनुज्ञातक्षेत्रसानिध्यतोषिताय नमः ।

ॐ अकस्मातन्तर्धिदर्शिने नमः ॥७९०॥

ॐ विस्मयाकुलमानसाय नमः ।

ॐ विधिवद्दत्तसर्वस्वमण्डनार्यानुमोदकाय नमः ।

ॐ सन्न्यासगृह्यविध्युक्तसर्वकर्मोपदेशकाय नमः ।

ॐ श्रीमन्मण्डनकर्णोक्तमहावाक्यचतुष्टयाय नमः ।

ॐ महावाक्यगताशेषतत्वार्थश्रावकाय नमः ।

ॐ गुरवे नमः ।

ॐ तत्वम् पदगवाच्यार्थलक्ष्यार्थप्रतिपादकाय नमः ।

ॐ लक्षोभयार्थैक्यबोधिने नमः ।

ॐ नानादृष्टान्तदर्शकाय नमः ।

ॐ देहाद्यहम्ताममतासमूलोन्मूलनक्रमाय नमः । ॥८००॥

ॐ बृहदारण्यकप्रोक्तमहामत्स्यनिदर्शकाय नमः ।

ॐ जाग्रदाद्यात्मसम्बन्धराहित्यप्रतिपादकाय नमः ।

ॐ विवर्तवादसिद्धान्तसमर्थनपरायणाय नमः ।

ॐ तात्पर्यलिङ्गनिर्णीतपरमाद्वैततत्वकाय नमः ।

ॐ गुरुमाहात्म्यसंदर्शिने नमः ।

ॐ तत्वविदे नमः ।

ॐ तत्वबोधकाय नमः ।

ॐ निजाङ्घ्रियुग्मपतितसुरेश्वरकटाक्षकृते नमः ।

ॐ करुणालिङ्गितापाङ्गक्षपितान्तस्तमोमलाय नमः ।

ॐ सुरेश्वराख्यासंदात्रे नमः ॥८१०॥

ॐ सुरेश्वरसुपूजिताय नमः ।

ॐ नर्मदातीरसंवासिने नमः ।

ॐ श्रीशैलगमनोत्सुकाय नमः ।

ॐ मल्लिकार्जुनसंदर्शिने नमः ।

ॐ भ्रमराम्बाप्रणामकृते नमः ।

ॐ माहेश्वरादिविजयिशिष्यवर्गसमाश्रिताय नमः ।

ॐ अशेषदिक्प्रसृमरयशोज्योत्स्नानिशाकराय नमः ।

ॐ निजमाहात्म्यसंश्रोतृकापालिककृतानतये नमः ।

ॐ कापालिककृतानेकस्तुतिजालाय नमः ।

ॐ निरादराय नमः ॥८२०॥

ॐ कपालिप्रीणनार्थस्वगमनोक्तिसुसंश्रविणे नमः ।

ॐ सर्वज्ञमस्तकापेक्षितदुक्तिपरिचिन्तकाय नमः ।

ॐ निजसर्वज्ञतावाचिकापालोक्तिविचिन्तकाय नमः ।

ॐ स्वशिरःप्रार्थनोद्युक्तकापालिककृतानतये नमः ।

ॐ बह्वपायस्वीयकायदोषदर्शनतत्पराय नमः ।

ॐ परोपकारनैरत्यव्रतपालनतत्पराय नमः ।

ॐ निजकायापगमननिर्व्याकुलनिजान्तराय नमः ।

ॐ समाधिकालीनशिरश्छेदानुज्ञाप्रदायकाय नमः ।

ॐ एकान्तसंस्थिताय नमः ।

ॐ योगिने नमः ॥८३०॥

ॐ समाध्यालीनमानसाय नमः ।

ॐ परमात्मानुसन्धाननिर्गताशेषचिन्तनाय नमः ।

ॐ निष्कम्पदेहाय नमः ।

ॐ निर्मोहाय नमः ।

ॐ निरन्तरसुखात्मकाय नमः ।

ॐ स्ववधोद्युक्तकापालिकागमनावबोधकाय नमः ।

ॐ जत्रुप्रदेशनिहितचिबुकाय नमः ।

ॐ दृष्टनासिकाय नमः ।

ॐ सिद्धासनसमासीनाय नमः ।

ॐ निर्गतद्वैतभावनाय नमः ॥८४०॥

ॐ चिन्मात्रपरमानन्दलहरीमग्नमानसाय नमः ।

ॐ कृपाणकरकापालिवधोद्योगानवेक्षकाय नमः ।

ॐ ज्ञातवृत्तान्तपद्माङ्घ्रिमारितस्वीयशत्रुकाय नमः ।

ॐ नृसिम्हवेषपद्माङ्घ्रिकृतार्भटविचालिताय नमः ।

ॐ समाधिव्युत्थितमतये नमः ।

ॐ उन्मीलितविलोचनाय नमः ।

ॐ तदट्टहासनिर्घोषबधिरीभूतकर्णकाय नमः ।

ॐ दंष्ट्राकरालवदनश्रीमन्नृहरिदर्शकाय नमः ।

ॐ आक्स्मिकनृसिम्हावलोकनस्तिमितान्तराय नमः ।

ॐ निर्भीताय नमः । ॥८५०॥

ॐ गलदानन्दभाष्पाय नमः ।

ॐ स्तुतिपरायणाय नमः ।

ॐ नृसिम्हक्रोधशान्त्यर्थप्रार्थनातत्पराय नमः ।

ॐ यतये नमः ।

ॐ नृसिम्हावेशसम्भ्रान्तपद्मपादप्रदर्शकाय नमः ।

ॐ स्वप्नायितस्ववृत्तान्तज्ञातृपद्माङ्घ्रिप्रणताय नमः ।

ॐ विस्मयाकुलाय नमः ।

ॐ गोकर्णाभ्यर्णसञ्चारिणे नमः ।

ॐ गोकर्णेश्वरपादाब्जप्रणन्त्रे नमः ।

ॐ प्रीतमानसाय नमः । ॥८६०॥

ॐ गोकर्णनाथसम्स्तोत्रे नमः ।

ॐ त्रिरात्रस्थितितत्पराय नमः ।

ॐ मूकाम्बिकामहादेवीसन्दर्शनकृतार्थधिये नमः ।

ॐ द्विजदम्पतिसन्दर्शिने नमः ।

ॐ तद्रोदनविखिन्नधिये नमः ।

ॐ तदङ्कगामिमृतकशिशुसन्दर्शनातुराय नमः ।

ॐ अनङ्गवाणीसम्श्रोत्रे नमः ।

ॐ पुत्रोज्जीवनलालसाय नमः ॥८७०॥

ॐ द्विजसम्वर्णितस्वीयमहिमाय नमः ।

ॐ सर्वपालकाय नमः ।

ॐ तत्कालोत्थिततत्पुत्रजीवनप्रीतमानसाय नमः ।

ॐ निजमाहात्म्यसन्द्रष्टृजनविस्मयकारकाय नमः ।

ॐ मूकाम्बादर्शनाकाङ्क्षिणे नमः ।

ॐ तत्क्षेत्रवासतत्पराय नमः ।

ॐ उच्चावचगभीरार्थस्तोत्रनिर्माणकौतुकिने नमः ।

ॐ स्वकर्मनिष्ठविप्राढ्यश्रीबलिग्रामसेवकाय नमः ।

ॐ प्रभाकराख्यसद्विप्रबालमौग्ध्यापनोदकाय नमः ।

ॐ स्वपादशरणायाततद्विप्रानुग्रहोत्सुकाय नमः ॥८८०॥

ॐ प्रणामकर्तृतत्पुत्रसमुत्थापनतत्पराय नमः ।

ॐ द्विजवर्णिततत्पुत्रमुग्धचेष्टावचःश्रविणे नमः ।

ॐ अन्तःप्रच्छन्नवह्न्याभद्विजदारकदर्शनाय नमः ।

ॐ तन्माहात्म्यविशेषज्ञाय नमः ।

ॐ मौनमुद्राविभेदकाय नमः ।

ॐ द्विजदारकसंप्रश्नकरणोद्यतमानसाय नमः ।

ॐ तदीयजडताहेतुपृच्छकाय नमः ।

ॐ करुणाकराय नमः ।

ॐ बालवेषप्रतिच्छन्नतदुक्तिश्रवणोत्सुकाय नमः ।

ॐ देहादिजडताबोधिबालवाक्यातिविस्मिताय नमः ॥८९०॥

ॐ स्वचेतनत्वसम्बोधितद्वचःश्लाघनापराय नमः ।

ॐ पद्यद्वादशिकाकर्तृतत्प्रज्ञाश्लाघनोत्सुकाय नमः ।

ॐ तत्त्वज्ञताप्रकटतदुक्तिप्रतिनन्दकाय नमः ।

ॐ अध्यापनादिरहितबालप्रज्ञातिविस्मिताय नमः ।

ॐ तदनुग्रहणोद्युक्ताय नमः ।

ॐ तन्मूर्धन्य्स्तहस्तकाय नमः ।

ॐ गृहवासाद्ययोग्यत्वदर्शकाय नमः ।

ॐ श्लाघनापराय नमः ।

ॐ द्विजातिप्रेषणोद्युक्ताय नमः ।

ॐ शिष्यसंग्रहणोद्युक्ताय नमः ॥९००॥

ॐ हस्तामलकसंज्ञासन्द्रात्रे नमः ।

ॐ न्यासदायकाय नमः ।

ॐ स्वशिष्यभावानुगतहस्तामलकसम्श्रिताय नमः ।

ॐ श्रिङ्गगिर्याख्यसुक्षेत्रगमनोद्यतमानसाय नमः ।

ॐ तुङ्गभद्राकृतस्नानाय नमः ।

ॐ भाष्यप्रवचनोत्सुकाय नमः ।

ॐ शारदालयनिर्मात्रे नमः ।

ॐ शारदास्थापनापराय नमः ।

ॐ शारदापूजनोद्युक्ताय नमः ।

ॐ शारदेन्दुसमाननाय नमः ॥९१०॥

ॐ गिर्याख्यनिजसच्छिष्यशुश्रूषाप्रीतमानसाय नमः ।

ॐ पाठार्थसमुपाविष्टशिष्यमण्डलमण्डिताय नमः ।

ॐ स्वशाटीक्षाळनोद्युक्तगिर्यागमननिरीक्षकाय नमः ।

ॐ निजशिष्यान्तरासूयानिराकरणतत्पराय नमः ।

ॐ गिर्याख्यनिजसच्छिष्यानुग्रहैकपरायणाय नमः ।

ॐ स्वानुग्रहाप्तसर्वज्ञभावगिर्यभिनन्दिताय नमः ।

ॐ विदिताखिलसद्विद्यागिर्यभिवन्दिताय नमः ।

ॐ तोटकाभिदसद्वृत्तोज्वलपद्यावकर्णकाय नमः ।

ॐ शिष्यान्तराभिविज्ञातकरुणालेशवैभवाय नमः ।

ॐ गुर्वनुग्रहमाहात्म्यसन्दर्शिने नमः ॥९२०॥

ॐ लोकसङ्ग्रहिणे नमः ।

ॐ तोटकाख्याप्रदात्रे नमः ।

ॐ श्रीतोटकार्यातिसत्कृताय नमः ।

ॐ तत्वार्थगर्भतद्वाक्यशैलीवैभवचिन्तकाय नमः ।

ॐ सुरेश्वरार्यपद्माङ्घ्रिहस्तामलकसम्श्रिताय नमः ।

ॐ तोटकानुगताय नमः ।

ॐ शिष्यचतुष्टयसमाश्रिताय नमः ।

ॐ सुरेश्वरापेक्षितस्वभाष्यवार्तिकनिर्मितये नमः ।

ॐ वार्तिकारचनानुज्ञादात्रे नमः ।

ॐ देशिकपुङ्गवाय नमः ॥९३०॥

ॐ सिद्धान्तापगमाशङ्किपद्माङ्घ्र्यादिप्रबोधिताय नमः ।

ॐ वार्तिकग्रंथनिर्माणजातविघ्नानुदर्शकाय नमः ।

ॐ शिष्यनिर्बन्धानुगामिने नमः ।

ॐ शिष्यौघकरुणाकराय नमः ।

ॐ पद्माङ्घ्रिरचितस्वीयभाष्यटीकानिरीक्षकाय नमः ।

ॐ रम्यनैष्कर्म्यसिद्ध्यादिसुरेशग्रंथदर्शकाय नमः ।

ॐ आद्यन्तग्रंथसन्दर्भदर्शनप्रीतमानसाय नमः ।

ॐ ग्रंथनिर्माणवैदग्ध्यदर्शनाधिकविस्मिताय नमः ।

ॐ तैत्तरीयस्वीयभाष्यवृत्तिनिर्मापणोत्सुकाय नमः ।

ॐ बृहदारण्यसद्भाष्यवार्तिकश्रवणादृताय नमः ॥९४०॥

ॐ अनेकशिष्यरचिताद्वैतग्रंथावलोकनाय नमः ।

ॐ तीर्थयात्राकृतोत्साहपद्मपादोक्तिचिन्तकाय नमः ।

ॐ तीर्थयात्राभवानेकदोषसङ्घप्रदर्शकाय नमः ।

ॐ नानाविक्षेपसाहस्रसम्भवप्रतिपादकाय नमः ।

ॐ तीर्थयात्रैकनिर्बन्धपद्मपादानुमोदकाय नमः ।

ॐ स्वोपदेशवचोऽश्रोतृपद्मपादानुशोचकाय नमः ।

ॐ मार्गदोषादिसन्दर्शिने नमः ।

ॐ जागरूकत्वबोधकाय नमः ।

ॐ आसन्नमरणस्वीयजननीस्मरणातुराय नमः ।

ॐ स्मृतिमात्रसमापन्नमातृपार्श्वाय नमः ॥९५०॥

ॐ अतिभक्तिमते नमः ।

ॐ मातृसन्दर्शनप्रीताय नमः ।

ॐ प्रीणितस्वीयमातृकाय नमः ।

ॐ स्वसम्स्कारैकसम्प्रार्थिमातृवाञ्छानुपालकाय नमः ।

ॐ तारकाख्यपरब्रह्मोपदेष्ट्रे नमः ।

ॐ परमेश्वराय नमः ।

ॐ ब्रह्मानभिज्ञजननीसन्तारणपरायणाय नमः ।

ॐ निजस्तोत्रसमायातपरमेशप्रदर्शकाय नमः ।

ॐ जननीभयसन्द्रष्ट्रे नमः ।

ॐ माधवस्तुतितत्पराय नमः ॥९६०॥

ॐ स्तुतिमाहात्म्यसम्प्राप्तविष्णुमूर्तिप्रदर्शकाय नमः ।

ॐ तद्दर्शनसमुत्पन्नजननीप्रीतिभाजनाय नमः ।

ॐ विष्णुदूतविमानस्थमातृदर्शनविर्वृताय नमः ।

ॐ तत्सम्स्कारकृतोद्योगाय नमः ।

ॐ बन्धुवर्गसमाह्वायिने नमः ।

ॐ सम्स्कारार्थाग्निसम्प्रार्थिने नमः ।

ॐ बन्धुवर्गनिराकृताय नमः ।

ॐ दक्षदोर्मथनप्राप्तवह्निसम्स्कृतमातृकाय नमः ।

ॐ आग्न्यदातृस्वीयजनवेदबाह्यत्वशापकृते नमः ।

ॐ यतिभिक्षाभाववाचिने नमः ।

ॐ स्मशानीकृततद्गृहाय नमः । ॥९७०॥

ॐ पद्मपादागमकाङ्क्षिणे नमः ।

ॐ तद्देशकृतवासकाय नमः ।

ॐ महासुरालयेशानसन्दर्शनपरायणाय नमः ।

ॐ शिष्यवर्गागमाभिज्ञाय नमः ।

ॐ कुशलप्रश्नचोदकाय नमः ।

ॐ पद्माङ्घ्रिबोधितस्वीयसर्ववृत्तान्तसम्श्रविणे नमः ।

ॐ पूर्वमातुलसन्दग्धतट्टीकोट्यनुशोचकाय नमः ।

ॐ टीकालोपातिनिर्विण्णपद्मपादानुनायकाय नमः ।

ॐ प्रज्ञामान्द्यकरात्युग्रगरदानोक्तिसम्श्रविणे नमः ॥९८०॥

ॐ निजपादाभिपतितपद्मपादानुकम्पनाय नमः ।

ॐ पूर्वसम्शृतटीकास्थपञ्चपाद्यनुचिन्तकाय नमः ।

ॐ पञ्चपादीयगताशेषविषयप्रतिपादकाय नमः ।

ॐ टीकालेखनसन्तुष्टपद्मपादातिपूजकाय नमः ।

ॐ विस्मितस्वीयशिषौघसमभिष्टुतवैभवाय नमः ।

ॐ नाटकापायदुःखार्तकेरळेशसमाधिकृते नमः ।

ॐ यथोक्तनाटकाख्यानविस्मापितनरेश्वराय नमः ।

ॐ सुधन्वराजसच्छिष्यसहिताय नमः ।

ॐ विजयोज्वलाय नमः ।

ॐ रामसेतुकृतस्नानाय नमः ॥९९०॥

ॐ शाक्तौघविजयोत्साहाय नमः ।

ॐ काञ्चीविदर्भकर्णातदेशसञ्चारनिर्वृताय नमः ।

ॐ कापालिकौघविजयिने नमः ।

ॐ नीलकण्ठजयोज्वलाय नमः ।

ॐ गुप्ताभिचाराभिज्ञपद्माङ्घ्रिकृतसौख्यभाजे नमः ।

ॐ गौडपादार्यसन्दर्शनानन्दाब्धिनिमग्नधिये नमः ।

ॐ काश्मीरदेशविलसच्छारदापीथदर्शकाय नमः ।

ॐ दक्षिणद्वारसम्विष्टवादिव्रातजयोज्वलाय नमः ।

ॐ विजयप्राप्तसर्वज्ञपीठारोहणकौतुकिने नमः ।

ॐ देवताकृतसत्पुष्पवृष्टिसञ्छन्नमूर्तिकाय नमः ।

ॐ कैलासशैलगमनपरमानन्दनिर्भराय नमः ।

ॐ ब्रह्मादिरचिताह्वानाय नमः ।

ॐ शिष्यवर्गकृतानतये नमः ।

ॐ महोक्षारोहणोद्युक्ताय नमः ।

ॐ पद्मजार्पितहस्तकाय नमः ।

ॐ सर्वाभिलाषकरणनिरताय नमः ।

ॐ निर्वृतान्तराय नमः ।

ॐ श्री कैलासशैलगमनपरमानन्दनिर्भराय नमः ।

ॐ श्रीमत्सद्गुरुपरप्रह्मणे नमः ॥ॐ॥ ॥१००८॥

अन्तर्ध्वान्तनिवारणैकतरणिस्तापत्रयोग्रानल

ज्वालात्त्यन्तिकशामनैकजलदो दुःखाम्बुधेर्बाडवः ।

प्रज्ञानन्दसुधाम्बुदेरुदयभाग्राकासुधादीधितिः

नित्यं शङ्करदेशिकेन्द्रयतिराट् हृद्व्योम्नि विद्योतताम् ॥

भक्तजनहृत्तिमिरकर्तनविकर्तनान्

द्वन्द्वमुखदुःखविषसर्पगरुडोत्तमान् ।

जन्ममृतिदुर्गतिमहार्णवघटोद्भवान्

शङ्करगुरूत्तमपदान् नमत सत्तमान् ॥

जय जय शङ्कर |

ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका समेताय

श्री चन्द्रमौळीश्वर परब्रह्मणे नमः |

N/A

References : N/A
Last Updated : September 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP