पञ्चमोऽध्यायः - श्लोक ६१ ते ८०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


वायव्ये जाजयक्ष्मा च एकपादः प्रकीर्तितः । उतरे त्रिपदाः पृथ्वी धरायश्चैकपातथा ॥६१॥

मध्ये नवपदो ब्रह्मा पीतः श्वेतश्चतुर्भुजः । आब्रह्मन्ब्राह्मण इति मंत्रोऽयं समुदात्द्दृतः ॥६२॥

अर्यमा कृष्णवर्णश्च अर्यम्णा च बृहस्पतिः । सविता रक्तवर्णस्तु उपायामगृहीतकम ॥६३॥

विवस्वाञ्छुक्लवर्णश्च विवस्वन्नादित्यमन्त्रतः । इंद्रो रक्तेन्द्रसुत्रामा मंत्रोऽयं समुदात्द्दृतः ॥६४॥

मित्रः श्वेतश्च तन्मित्रं वरुणस्याभिचक्षे त्विति । राजयक्ष्मा रक्तवर्णो ह्यभिगोत्राणि मन्त्रतः ॥६५॥

पृथ्वीधरो रक्तवर्णः पृथ्वी छन्दमन्त्रतः । आपवत्सः शुक्लवर्णो भवतनेति मन्त्रतः ॥६६॥

आपः शुक्लवर्ण्श्च तद्वाह्ये आपो अस्मान्मतरेति च सवित्राग्नेयदिग्भागे शुक्लवर्णैकपात्तथा ॥६७॥

उपयामगृहीतोऽसि सावित्रोसीतिमन्त्रतः । जयन्तः श्वेतो नैऋत्ये मर्माणितेति मन्त्रतः ॥६८॥

रुद्रो रक्तश्च वायव्ये सुत्रामा इति मन्त्रतः । ईशाने रक्तवर्ण्श्च तमीशानेति वै शिखि ॥६९॥

पर्जन्यः पीतवर्णश्च महाँ इन्द्रेति वै तथा । जयन्तः पीतवर्णश्च धन्वनागाः इति स्मृतः ॥७०॥

कुलिशायुधः पीतवर्णो महाँइन्द्रेति वै तथा । सूर्यो रक्तः सूर्यरश्मिर्हरिकेशेति मन्त्रतः ॥७१॥

सत्यश्च शुक्लो व्रतेन दीक्षामाप्नोति मन्त्रतः । भृशः कृष्णो मन्त्रस्य भद्रंकर्णेणिरेव च ॥७२॥

अन्तरिक्षः कृष्णवर्णो वयं सोमश्च इत्यपि ।वायुर्धूम्रस्तथा वर्ण आवायोरिति मन्त्रतः ॥७३॥

पूषाच रक्तवर्णश्च पूषन्तव इतीरितः । शुक्लवर्णश्च वितथ सविता प्रथमेति च ॥७४॥

गहक्षतः पीतवर्णः सविता त्वेति मन्त्रतः । यमः कृष्णवपुर्याम्ये यमाय त्व मखाय च ॥७५॥

गन्धर्वो रक्तवर्णश्च पृतद्वौवेति मन्त्रतः । भृंगराजः कृष्णवर्णो मृत्युः सुपर्णेति वा तथा ॥७६॥

मृगः पीतश्च तद्विष्णोर्मन्त्रेण निऋतिस्थितः । पितृगणा रक्तवर्णाः पितृभ्यश्चेति पूजयेत ॥७७॥

दौवारिको रक्तवर्णो द्रविणोदाः पिपीषति । शुक्लवर्णश्च सुग्रीवः सुषुम्नः सूर्यरश्मिना ॥७८॥

पूष्पदन्तो रक्तवर्णो नक्षत्रेभ्येति मन्त्रतः । वरुणः शुक्ल इतरो मित्रास्यवरुणास्यतः ॥७९॥

आसुरः पीतरक्तश्च येरुपाणीति मन्त्रतः । शोकः कृष्णवपुर्मन्त्रमसवेस्वाहेत्यावाहयेत ॥८०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP