तृतीयोऽध्यायः - श्लोक २१ ते ४०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


जलाशयादिवास्तूनां प्रारंभः शुभदः स्मृतः ॥२१॥

अथ योगाः॥

गुरुर्लग्ने रविः षष्ठे द्यूने सौम्ये सुखे सिते। तृतीयस्थेऽर्कपुत्रे च तद्गृहं शतमायुषम ॥२२॥

भृगुर्लग्नेऽम्बरे सौम्ये लाभस्थाने च भास्करे। गुरुः केंद्रगतो यत्र शतवर्षाणि तिष्ठति ॥२३॥

हिबुकेज्येम्बऽरे चन्द्रे लाभे च कुजभास्करौ। प्रारम्भः क्रियते यस्य अशीत्यातुः क्रमाद्भवेत ॥२४॥

लग्ने भृगो पुत्रगेज्ये षष्ठे भौमे तृतीयगे। रवौ यस्य गृहारंभः स च तिष्ठेच्छत द्वयम ॥२५॥

लग्नौस्थौ गुरुशुक्रौ च रिपुराशिगते कुजे। सूर्ये लाभगते यस्य द्विशताब्दानि तिष्ठति ॥२६॥

स्वौच्चस्थो वा भृगुर्लग्ने स्वोच्चे जीवे सुखस्थित। स्वोच्चे लाभगते मन्दे सहस्त्राणां समा स्थितिः ॥२७॥

स्वोच्चे स्वभबने सौम्येर्लग्नस्थैवापि केंद्रगैः। प्रारम्भः क्रियते यस्य स तिष्ठति शतद्वयम ॥२८॥

कर्कलग्नाते चन्द्रे केन्द्रस्थाने च वाक्पतिः। मित्रस्वोच्चस्थितैः खेटैर्लक्षीस्तस्य चिरं भवेत ॥२९॥

इज्योत्तरात्रयाहीन्दुविष्णुधातृजलोडुषु। वरुणासहि तेष्वेषु कृतं गेहं श्रिया युनम ॥३०॥

द्विदैवत्वाष्ट्रवारीशरुद्रादितिवसूडुषु। शुक्रेण सहितेष्वेषु कृतं धान्यप्रदं गृहम ॥३१॥

हस्तार्यमत्वाष्ट्रद्स्त्रानुराधानारकासु च। बुधेन सहितेष्वेषु धनपुत्रसुखप्रदम ॥३२॥

कुयोगाः॥

शत्रुक्षेत्रगतैः खेटैर्नीचस्थेर्वा पराजितैः। प्रारम्भे यस्य भवने लक्ष्मीस्तस्य विनश्यति ॥३३॥

एकोऽपि परभागस्थो दशमे सप्तमेऽपि वा। वर्णाधिपे बलैर्हीने तद्गृहं परहस्तगम ॥३४॥

पापान्तरगे लग्ने न च सौम्यौयुतेक्षिते । अष्ठमस्थेऽर्कपुत्रे च अशीत्यब्दाद्विहन्यते ॥३५॥

मन्दे लग्नगने चैव कुजे सप्तमस स्थिते । शुभरैवीक्षिते वापि शतवर्षाणि हन्यते ॥३६॥

लग्नगे शशिनि क्षीणे मृत्युस्थाने च भूसुते । प्रारम्भः क्रियते यस्य शीघ्रं तद्धि विनश्यति ॥३७॥

दशापतौ बलैर्हीने वर्णनाथे तथैव च ओईदितर्क्ष्गते सूर्ये न विदध्यात्कदाचन ॥३८॥

पितृ मूलेज्यभाग्यार्कपौष्णभेषु च यत्कृतम ॥३९॥

कुजेन सहितेष्वेषु गृहं सन्दह्यतेऽचिरात ॥४०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP