द्वितीयोऽध्याय: - श्लोक १४१ ते १६०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


नृपमंत्रिगृहाणां च अन्तरे यत्प्रमाणकम। सामन्तराजपुत्राणां प्रवराणां गृह स्मृतम ॥१४१॥

नृपाणां युवराजस्य गृहणामन्तरेण यत। तद्गृहं कञ्चुकी वेश्याकलाज्ञानां तथैव च ॥१४२॥

युवराजमन्त्रिणां तु प्रभवेद्धि यदन्तरम। अध्यक्षदूतगेहं तत्कर्मसु कुशलाश्च ये ॥१४३॥

अध्यक्षाधिकृतानां च रतिकोशप्रमाणकम। चत्वारिंशच्चतुर्हीना: पञ्च गेहा भवन्ति हि ॥१४४॥

षड्भागसंयुतंदैर्घ्य दैवज्ञभिषजां तथा। पुरोहितानां शुभदं सर्वेषां कथयाम्यत: ॥१४५॥

हस्तद्वात्रिंशता युक्तं विस्तारस्य द्विजालयम। विस्तारसदृशांशस्तु दैर्घ्य तस्य प्रकल्पयेत ॥१४६॥

त्रयाणां क्षत्रियादीनामालयं पूर्वचोदितम। नृपसेनापतेर्गेहस्यान्तरं यद्भवेदिह ॥१४७॥

तत्कोशगेहं भवति रतिगेहं तथैव च। सेनापतिगृहाणां च अन्तरे यत्प्रमाणकम ॥१४८॥

चातुर्वर्ण्यस्य यद्गेहं तद्राजपुरुषं मतम । अथ पारशवादीनां मातापित्रोर्यदन्तरम ॥१४९॥

ब्राह्मणस्य च यन्मानं शूद्रेण सह यद्भवेत । मूर्द्धावसिक्तक्षत्रासु तथैव मृतकण्टकः ॥१५०॥

पश्चाच्छ्रामि जनानां च यथेष्टं कारयेद्गृहम । शतहस्तोच्छ्रितं कार्य चतुःशालं गृहं भवेत ॥१५१॥

प्रमितं त्वेकशालं तु शुभदं तत्प्रकीर्तितम सेनापतिनृपादीनां सप्तत्या सहिते कृते ॥१५२॥

व्यासे चतुर्दशदृते शालामानं विनिर्दशेत। पञ्चत्रिंशदृतेऽन्यत्रा लिन्दमानं भवेच्च तत ॥१५३॥

शालात्रिभागतुल्या च कर्तव्या वीथिका बहि:। भवनात्पूर्वतोष्णीषं पश्चास्वापाश्रयं भवेत ॥१५४॥

सावष्टम्भं पार्श्वयोस्तु सर्वत्र सुस्थितं भवेत। विस्तारशोडषोशोशस्तु चतुर्हस्तयुतश्च य: ॥१५५॥

तदन्तरस्योच्चतरं प्रमाणं प्रवद्देबुध:। द्वादशभागेनोनं च समस्तानां प्रकल्पयेत ॥१५६॥

यजन्ते राजसूयाद्यै: ऋतुभिर्ह्यवनीश्वरा:। नलैर्द्धाष्टमैस्तेषां कारयेद्भावनोत्तमम ॥१५७॥

तथा च सप्तमैरेव विप्राणां कारयेदगृहम।अर्द्धषष्ठै: क्षत्रियाणां वैश्यानामर्द्धपञ्चमै: ॥१५८॥

त्रिभिस्सार्द्धैश्च शूद्राणां भवनं शुभदं स्मृतम। स्वगृहाणां विभागेन प्रमाणमिह लक्षयेत ॥१५९॥

विस्तारायमगुणितं नलै: षोडशभि: स्मृतम। विषमा: शुभदा ह्येते समा दु:खप्रदायका: ॥१६०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP