शृंगारशतकम् - श्लोक ६१ ते ७०

’शृंगारशतकम्’काव्यात शॄंगाराचे महत्व संवादातून नीट वर्णन केले आहे.


मालिनी

उरसि निपतितानां स्रस्तधम्मिल्लकानां

मुकुलितनयनानां किञ्चिदुन्मीलितानाम् ॥

उपरिसुरतखेदस्विन्नगण्डस्थलीनां

अधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥६१॥

अनुष्टुभ्

उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः ॥

तत्र प्रत्यूहमाधातुं ब्रह्माऽपि खलु कातरः ॥६२॥

आर्या

आमीलितनयनानां यत्सुरतरसोऽनु संविदं भाति ॥

मिथुनैर्मिथोऽवधारितमवितथमिदमेव कामनिर्वहणम् ॥६३॥

वसंततिलका

मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे

कान्तापयोधरतटे रसखेदखिन्नः ॥

वक्षो निधाय भुजपञ्जरमध्यवर्ती

धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥६४॥

अनुष्टुभ्

एतत्कामफलं लोके यद्द्वयोरेकचित्तता ॥

अन्यचित्तकृते कामे शवयोरेव सङ्गमः ॥६५॥

शालिनी

एको देवः केशवो वा शिवो वा ह्येकं मित्रं भूपतिर्वा यतिर्वा ॥

एको वासः पत्तने वा वने वा ह्येका भार्या सुंदरी वा दरी वा ॥६५- अ॥

उपजाति

मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु ॥

सेव्या नितम्बाः किमु भूधरणामुत स्मरस्मेरविलासिनीनाम् ॥६६॥

अनुष्टुभ्

आवासः क्रियतां गाङ्गे पापवारिणि वारिणि ॥

स्तनमध्ये तरुण्या वा मनोहारिणि हारिणि ॥६७॥

मालिनी

दिशः वनहरिणीभ्यः स्निग्धवंशच्छवीनां

कवलमुपलकोटिच्छिन्नमूलं कुशानाम् ॥

शुकयुवतिकपोलापाण्डु ताम्बूलवल्ली-

दलमरूणनखाग्रैः पाटितं वा वधूभ्यः ॥६९॥

स्रग्धरा

संसारेऽस्मिन्नसारे परिणतितरले द्वे गती पण्डितानां

तत्त्वज्ञानामृताम्भःप्लवलुलितधियां यातु कालः कथञ्चित् ॥

नोचेन्मुग्धाङ्गनानां स्तनजघनभराभोगसंभोगिनीनां

स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलोलोद्यतानाम् ॥७०॥

N/A

References : N/A
Last Updated : April 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP