मेघदूत उत्तरमेघा - श्लोक ४१ ते ४५

"मेघदूत" की लोकप्रियता भारतीय साहित्य में प्राचीन काल से ही रही है।


अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।

उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥४१॥

शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ।

सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्टः त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥४२॥

श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् ।

उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्मिन्क्वचिदपि न ते चण्दि साद्र्श्यमस्ति ॥४३॥

त्वामालिख्य प्रणयकुपिता धातुरागैः शिलायां आत्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।

अस्रैस्तावन् मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥४४॥

मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोः लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु ।

पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥४५॥

N/A

References : N/A
Last Updated : March 21, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP