मेघदूत उत्तरमेघा - श्लोक ३६ ते ४०

"मेघदूत" की लोकप्रियता भारतीय साहित्य में प्राचीन काल से ही रही है।


तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ।

मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथं चित् सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥३६॥

तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।

विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरस्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥३७॥

भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं तत्संदेशैहृदयनिहितैरागतं त्वत्समीपम् ।

यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥३८॥

इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभव्य चैव ।

श्रोष्यत्यस्मात् परमवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः सङ्गमात्किंचिदूनः ॥३९॥

तामायुष्मन् मम च वचनादात्मनः चोपकर्तुं ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थः ।

अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥४०॥

N/A

References : N/A
Last Updated : March 21, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP