संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|

मानसागरी - अध्याय ५ - बुधोपदशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


विद्याबुद्धिर्धनप्राप्तिः स्वर्ण रुप्यं च माणकम् । लभते धान्यरत्नानि बुधस्योपदशास्वयम् ॥१॥

रक्तपित्तकृता पीडा कुख्यातोदरपीडनम् । वस्त्रार्थशस्त्रहानिश्च सौम्यस्योपदशां शिखी ॥२॥

सौम्यदिक्षु भवेल्लाभः परप्राप्तिर्महत्सुखम् । भुंक्ते मिष्टान्नमाहारं सौम्यस्योपदशां सितः ॥३॥

तेजोहानिः शिरःपीडा चोद्वेगश्चलचित्तकः । दृष्टिदोषो भवेच्छर्दी सौम्यस्योपदशां रविः ॥४॥

श्रियो लाभस्तथा कन्यासौम्यार्थ पुत्रपौत्रकः । मिष्टान्नभोजवस्त्राणि बुधस्योपदशां विधुः ॥५॥

आममृत्युश्चातिसारं चौराग्निशस्त्रपीडनम् । ज्ञानधर्मधनप्राप्तिः सौम्यस्योपदशां कुजः ॥६॥

राजशत्रुभयं त्रासो कलहः स्त्रीनिरुत्साहा । स्नेहक्षीरं विना भुक्तं बुधस्योपदशां तमः ॥७॥

प्रधानपुरुषं राज्यं विद्याबुद्धिविवर्द्धनम् । अन्नपानादिसौख्यं च बुधस्योपदशां गुरुः ॥८॥

विकलं घातपातानां वातपीडा महद्भयम् । अन्नं पानादिहानिश्च बुधस्योपदशां शनिः ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP