संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|

ललितार्चन चंद्रिका - देवतोद्वासनम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


ततः सामान्योदकात् किञ्चिदादाय -
साधु वाsसाधु वा कर्म यद्यदाचरितं मया ।
तत् सर्व कृपया देवि गृहाणाराधनं मम ॥
इति देव्या वामहस्ते पूजां समर्प्य शङ्कमुदधृत्य देव्युपरि त्रिः परिभ्राम्य तज्जलं हस्ते समादाय सामयिकनात्मानं च मूलेन प्रोक्ष्य शंखं प्रक्षाळय निदघ्यात् । ततो मूलेन तीर्थनिमाल्ये स्वीकृत्य ।
ज्ञानतोsज्ञानतो वाsपि यन्मयाssचरितं शिवे ।
तव कृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि ॥
इति क्षमाप्य सर्वासामावरणदेवतानां श्रीदेव्यङ्गे विलयं विभाव्य, खेचरीं बद्ध्वोद्वास्य तेजोरुपेण परिणतां श्रीदेवीं पूर्ववत् हृदयं नीत्वा तत्र च पञ्चधा उपचर्य पुनरात्माभिन्नसंविद्रूपेण विभावयेत् । इति विसर्जनम् ॥

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP