संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|

स्त्रीवृत्ताख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


तपन्तकस्ततः प्राह विचित्रं स्त्रीविचेष्टितम् ।
सोऽपि सर्वततो धाता न परिच्छेत्तुमीश्वरः ॥११८॥
अद्यापि नैव विज्ञाताः कैश्चित्तत्त्वेन योषितः ।
आसेव्यमानाः सततं संसारगतयो यथा ॥११९॥
कौशाम्ब्यां बलवर्त्माख्यो वणिगासीन्महाधनः ।
चन्द्रश्रीर्नाम तस्याभूद्भार्या हरिणलोचना ॥१२०॥
कदाचिद्यौवनोन्मत्ता सा हर्म्यशिखरस्थिता ।
नरं शीलवरं नाम ददर्श रुचिरं तदा ॥१२१॥
स्वसख्या तं समानाय्य दूत्या प्रच्छन्नकामिनी ।
सिषेवे चौर्यसुरतं प्रत्यहं सा सुमध्यमा ॥१२२॥
सततं रममाणायाः स्वैरं तेन विलासिना ।
एका निशेव सहसा तस्या मासत्रयी ययौ ॥१२३॥
अत्रान्तरे जगामाशु कौमारश्च पतिर्ज्वरात् ।
पञ्चतां बान्धववधूकृतकोलाहले गृहे ॥१२४॥
तत्क्षणं सा रतिसुखं भुक्त्वोपपतिना सह ।
समेत्य भर्तुर्जग्राह मृतस्य चरणं शुचा ॥१२५॥
स्वजनैर्वार्यमाणापि तेनैव सहसा चिताम् ।
आरुह्य तूर्णं तत्याज प्रियान्प्राणानकम्पिता ॥१२६॥
इत्येवं गहनं स्त्रीणां ज्ञायते केन चेष्टितम् ।
गण्यते केन सर्पाणां करेण रदनावली ॥१२७॥
इति स्त्रीवृत्ताख्यायिका ॥४॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP