संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः|

यक्षाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


ज्ञात्वा वत्सेशसंकल्पं प्राह यौगंधरायणः ।
राजन्नयोनिजैवेत्थमुत्पन्ना कन्यका रतिः ॥५४५॥
गर्भयोर्व्यत्ययोर्वृत्तं श्रुतमस्माभिरित्यपि ।
त्वत्पुत्रायावतीर्णैषा साक्षान्मन्मथरूपिणे ॥५४६॥
विरूपाक्षाभिधो यक्षो धनदानुचरः पुरा ।
विज्ञप्तो निधिपालेन भूतलन्यस्तजानुना ॥५४७॥
देव पाशुपताचार्यः सहितो ब्राह्मणैस्त्रिभिः ।
निधानोत्पादने लग्नो मथुरायामपेतभीः ॥५४८॥
इति श्रुत्वा विरूपाक्षो हन्यतामित्यभाषत ।
तद्गिरा तं जघानासौ धनदस्तं निनिन्द च ॥५४९॥
कुबेरो ब्राह्मणवधाद्विरूपाक्षमथाशपत् ।
तच्छापाद्भुवि विप्रस्य पुत्रोऽभूत्सोग्रहारिणा ॥५५०॥
धनेशमर्थयित्वासौ तद्भार्यावततार च ।
अयोनिजा मत्सुतेति दास्या स्नेहेन वर्धिता ॥५५१॥
तां पूर्वभार्यामालोक्य सोऽपि द्विजकुमारकः ।
कण्ठे जग्राह नश्यन्ति न हि प्राग्जन्मवासनाः ॥५५२॥
ततस्तयोर्विवाहोऽभूत्पित्रा संचिन्त्य कल्पितः ।
इत्येवं पूर्वसंबन्धात्संगमो देहिनामिह ॥५५३॥
इति यक्षाख्यायिका ॥२२॥

N/A

References : N/A
Last Updated : October 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP