संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - णत्वप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


अथैति नो णमस्थूरि षु ग्रामोरु समिन्द्र वाः ॥१८५॥
धिसुवस्त्रिटपूर्वो निष्पूर्वो हन्योप्यमान च ॥१८६॥
पारी परि प्र पूर्वश्च तदवर्णव्यवेतकः ॥१८७॥
प्राधो वन्नुह्यमानोऽयन् यानं यवेन वाहनः ॥१८८॥
षुम्नान्योऽनित्यषत्वस्थ इन्द्रोऽध एनमत्र च ॥१८९॥
केनेत्यत्रायजुः पूर्वो नृश्रीपूर्वो मना अपि ॥१९०॥
अङ्गानां ग्यानि गान्योने गानां यामेन षण्ण च ॥१९१॥
रषः पूर्वो हवन्यन्हे हन्त्रु पूर्वो मयान्यनी ॥१९२॥
न नूनं नृत्य नह्यत्यन्वान्यशब्दे न्य उच्चकः ॥१९३॥
नकारो द्वित्वगो लक्ष्यात्तकारोर्ध्वोऽपि वान्तगः ॥१९४॥
उत्तमं प्रथमोऽन्योर्ध्वस्तृतीयं घोषवत्परः ॥१९५॥
अन्तोऽचि वा सवर्गीयं ककुदन्त्यश्च मोत्तरः ॥१९६॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे णत्वप्रकरणम् ॥९॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP