संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|

श्रीसत्यनारायणस्तोत्रम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अखिलभुवननम्यनैजाङ्घ्रिपपंकेजनुर्भक्तिमन् -
निखिलनिकरकाङ्क्षितस्पर्शकस्वर्धरित्रीरुहम् ।
हृदयकमल आश्रये संसृतिस्वाभिधानाम्बुराट्
पतितसकलभीति भङ्गाव्रते सत्यनारायणम् ॥१॥
चरणविनतसर्वकाङ्क्षाप्रदालीतसन्मुद्रिका -
युगललसितनैजहस्तद्वयन्यक्कृताम्भोजनिम् ।
हृदयकमल आश्रये कज्जलव्योमभूभोजन -
भ्रमरजलदकान्तिशीर्षोद्भवं सत्यनारायणम् ॥२॥
प्रणतविततिवाञ्छतोशेषकाम्यावलीश्राणन -
प्रवणहृदयपङ्कजानानुमेयस्वकृत्यव्रजम् ।
हृदयकुहर आश्रये घस्रनाथोस्रराज्युल्लसत् -
कनकनिकरभासमानाम्बरं सत्यनारायणम् ॥३॥
अमरमथितदुग्धवाराशिमध्याप्तवस्तुव्रज -
प्रकर ( प्रचय ) शिखरशीर्षरत्नेन्दिराकाम्यदिव्याकृतिम् ।
हृदयनलिन आश्रये नीरभूसम्भवक्षोणिधृत् -
क्षितिपतनुजनिप्रिय्द्यर्चितं सत्यनारायणम् ॥४॥
अतुलरुचिरलावणीसम्पदुद्भासितस्वाङ्गधी -
ललितहृदयमुख्यसर्वाङ्गरम्यत्वभाक्चेष्टितम् ।
हृदयवनज ईड उत्तानपज्जाततोकध्रुवा -
नुभवविशदरम्यचेतोsम्बुजं सत्यनारायणम् ॥५॥
अथवा -
हृदयवनज ईड उत्तानपादाभिधक्षोणिभृत् -
पृथुककृततपोवशीकारितं सत्यनारायणम् ॥५॥
करुणनिजकटाक्षलेशप्रभावार्कविध्वंसित -
प्रणतजनकृतान्तभीमुख्यसर्वान्धकारव्रजम् ।
हृदयवनज आश्रयाम्याधिरोगादिदु:खावली -
पतितविगतिदीनकारुण्यधिं सत्यनारायणम् ॥६॥
अनिशमपि तिलोत्तमामेनकाद्यप्सर:शेखरै -
र्विहितचरणसंजनुर्गाननीराजनाद्यर्चनम् ।
अथवा - ( र्विहितचरणनीरजातापदानादिगानार्चनम् ) ।
हृदयकुहर आश्रये सन्नताभीष्टसद्मप्रिया -
कनकतनुजमोक्षमुख्यापकं ( मुख्यप्रदं ) सत्यनारायणम् ॥७॥
अवनवलयमध्यसर्वाशिका सुप्रतिध्वानभाग् -
द्रुहिणतनुजकीरगीतेतिहासावलीघोषणम् ।
हृदयनलिन आश्रये घोरसंसारसंज्ञाम्बुराट् -
पतितविनतपारदानुग्रहं सत्यनारायणम् ॥८॥
बहुलजनिसहस्रसम्पादितागण्यपापावली -
विपिनसपदिदग्धृदावानलस्वाङ्घ्रिपद्मस्मृतिम् ।
हृदयकुहर आश्रय वैनतेयाभिधारूपधृन् -
निगमततिनिजासनाधिष्ठितं सत्यनारायणम् ॥९॥
नयनजरणजैमिनिव्यासमुख्योक्तशास्त्रावली -
प्रमुखनिखिलबोध्यविज्ञानदस्वाङ्घ्रिभक्त्यादिमम् ।
हृदयवनज आश्रये नम्रकष्टावलीनाशयुङ् -
निखिलकुशलदानदीक्षाधरं सत्यनारायणम् ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP