संस्कृत सूची|संस्कृत साहित्य|स्तोत्र भारती कण्ठहारः|

श्रीललितास्तव:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


भक्ताभीष्टाश्राणननिर्जितकल्पलते
भुजगाल्यम्बुदडम्बरभञ्जककेशयुते ।
भवपाथोनिधितारणपण्डितचरणरते
भगवति ललिते करुणां कुरु मयि चरणनते ॥१॥
नीरदसोदरमेचककुन्तलभरलसिते
शारदनीरदनिभपटवेष्टितवर्ष्मलते ।
भारकलेवरमारकपदयुगधूलिरते
भगवति ललिते करुणां कुरु मयि चरणनते ॥२॥
काम्याशेषस्पर्शननन्दितपादनते
सौम्याकृतिगुणललिताखिलनिजकायमते ।
रम्यावयवव्रातावर्जितकान्तमते
भगवति ललिते करुणां कुरु मयि चरणनते ॥३॥
कृष्णभुजङ्गमजित्वरशीर्षरुहोल्लसिते
कृष्णानामयकाङ्क्षकभैमीकुतविनुते ।
कृतनिजभक्तिकृतान्तभयघ्नकृपाभरिते
भगवति ललिते करुणां कुरु मयि चरणनते ॥४॥
दीनजनावनिवरदाधिक्कृतनैजगते
कनकन्यक्कृत्कोsत्युज्ज्वलनिजकायलते ।
शौनकमुखविनुतैनोभञ्जकपदविनुते
भगवति ललिते करुणां कुरु मयि चरणनते ॥५॥
शरणगलोकाभयदानव्रतकरलसिते
नीरदममतोन्मूलकवर्णकचिकुरतते ।
पारददीप्ते भवपारदचरणध्याते
भगवति ललिते करुणां कुरु मयि चरणनते ॥६॥
पीनकठोरोत्तुङ्गस्तनजितधरजाते
विनतातनुसम्भवनिजवाहनसहजाते ।
विनताशेषाधेभमृगाधिपधरजाते
भगवति ललिते करुणां कुरु मयि चरणनते ॥७॥
वीणावादनरसिके चिदनलसञ्जात
शोणाधरजितबिम्बे हिमवत्तनुजाते ।
काणादादिमनयदे यमसूदनकान्ते
भगवति ललिते करुणां कुरु मयि चरणनते ॥८॥
अष्टकमेतल्ललितादेव्या अनुवेलं
कष्टव्रातक्षोनीधारणशतकोटिम् ।
इष्टश्राणननिपुणं श्रद्धात: पठताम्
अष्टकमैश्वर्याणां दद्याद्द्राग्ललितै [ ता ] ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP