चतुर्थः पाद: - सूत्र ४८-४९

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


कृत्स्नभावात्तु गृहिणोपसंहार: ॥४८॥

एवं बाल्यादिविशिष्टे कैवल्याश्रमे श्रुतिमति विद्यमाने कस्माच्छान्दोग्ये गृहिणोपसंहारोऽभिसमावृत्य कुटुम्ब इत्यत्र ।
तेन हयुपसंहरंस्तद्विषयमादरं दर्शयतीति ।
अत उत्तरं पठति
कृत्स्नभावात्तु गृहिणोपसंहार: ॥ तुसब्दो विशेषणार्थ: ।
कृत्स्नभावोऽस्य विशिष्यते ।
बहुलायासानि हि बहून्याश्रमकर्माणि यज्ञादीनि तं प्रति कर्तव्यतयोपदिष्टान्याश्रमान्तरकर्माणि च यथासंभवमहिंसेन्द्रियसंयमादीनि तस्य विद्यन्ते ।
तस्मादृहमेधिनोपसंहारो न विरुध्यते ॥४८॥

मौनवदितरेषामप्युपदेशात् ॥४९॥

मौनवदितरेषामप्युपदेशात् ॥
यथा मौनं गार्हस्थ्यं चैतावाश्रमौ श्रुतिमन्तावेवमितरावपि वानप्रस्थगुरुकुलवासौ ।
दर्शिता हि पुरस्ताच्छुतिस्तप एव द्वितीयो ब्रम्हाचार्याचार्यकुलवासी तृतीय इत्याद्या ।
तस्माच्चतुर्णामप्याश्रमाणामुपदेशाविशेषात्तुल्यवद्विकल्पसमुच्चयाभ्यां प्रतिपत्ति: ।
इतरेषामिति द्वयोराश्रमयोर्बहुवचनं वृत्तिभेदापेक्शयाऽनुष्ठातृभेदापेक्षया वेति द्रष्टव्यम् ॥४९॥

N/A

References : N/A
Last Updated : December 21, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP