संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|

आचारकाण्डः - अध्यायः २००

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


भैरव उवाच ।
वक्ष्ये वायुजयं देवि जया जयविदेशकम् ।
वाय्वग्निजलशक्राख्यं मङ्गलानाञ्चतुष्टयम् ॥१॥

वामदक्षिणसंस्थश्च वायुश्च बहुलो भवेत् ।
ऊर्ध्ववाही भवेदग्निरधस्तु वरुणो भवेत् ॥२॥

महेन्द्रो मध्यसंस्थस्तु शुक्लपक्षे तु वामगः ।
कृष्णपक्षे दक्षिणग उदयस्य त्र्यहन्त्र्यहम् ॥३॥

वहेत्प्रतिपदाद्ये च विपरीते भवेन्नतिः ।
उदयः सूर्यमार्गेण चन्द्रेणास्तमयो यदि ॥४॥

वर्धन्ते गुणसंघाता अन्यथा विघ्नमौचितम् ।
संक्रान्त्यः षोडशप्रोक्ता दिवा रात्रौ वरानने ॥५॥

यदा च संक्रमेद्वायुरर्धार्धप्रहरे स्थितः ।
स्वास्थ्याहानिस्तदा ज्ञेया वायुर्भ्रमति देहिषु ॥६॥

दक्षिणे च पुटे वायुर्हितो भोजनमैथुने ।
खड्गहस्तो जयेद्युद्धे रिपून्कामसमन्वितः ॥७॥

वामेव गमनं श्रेष्ठं सर्वकार्येषु भूषितम् ।
वायुर्वहति तत्रस्थः प्रश्रो भूतस्य शोभनः ॥८॥

माहेन्द्रे वारुणे वाते कोऽपि दोषो न जायते ।
अनावृष्टिर्दक्षवाहे वृष्टिः स्याद्वामवाहके ॥९॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे द्विशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP