राजनिघण्टु - कार्थादिवर्ग ६

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


बृहद्बला वरी ताली कटुकातिविषा तथा ।
काकोली चैव षड्वर्गं वीरायां च प्रचक्षते ॥२८.१
सातला क्षीरकाकोली विभाण्डी चाजशृङ्गिका ।
कुञ्जरो दर्दुरश्चैव षड्विषाणीति कीर्तिता ॥२८.२
नीलदूर्वा निशाह्वश्च रोचना च हरीतकी ।
बहुपुष्पी भिषग्वर्यैः शिवायां षडमी स्मृताः ॥२८.३
निम्बखर्जूरितालीसं मरिचं वृत्तमूलकं ।
पलाण्डुश्चेति षडमी निम्बसंज्ञाः प्रकीर्तिताः ॥२८.४
मूर्वा स्पृक्का सहदेवा देवद्रोणी च केसरं ।
आदित्यभक्ताः षडिति देवीसंज्ञाः प्रकीर्तिताः ॥२८.५
ब्राह्मणः क्षत्रियो वैश्यो दन्तः सर्पः खगस्तथा ।
द्विजद्विजन्मशब्दाभ्यां ईरिताः सूरिभिः सदा ॥२८.६
गवादनी चैव दूर्वा गण्डदूर्वा च हस्तिनी ।
प्रतीची मदिरा चेति वारुण्यां षट्सुसन्मताः ॥२८.७
हपुषा पीतनिर्गुण्डी विष्णुक्रान्ता जयन्तिका ।
शिताद्रिकर्णीशङ्खिन्यौ षडेता अपराजिताः ॥२८.८
कुमारी च वराही च वन्ध्याकर्कोटकी मृदुः ।
स्थूलैला स्थलपर्णी च षट्कन्याश्च कुमारिकाः ॥२८.९
बीजद्रुमे गजे चैव सीसके नागकेसरे ।
विषे च पन्नगे चैव षट्सूक्तो नाग इत्यपि ॥२८.१०
सूक्ष्मैला च महाराष्ट्री मत्स्याक्षी काकमाचिका ।
गण्डदूर्वा च गण्डूकी मत्स्यादन्यां षडीरिताः ॥२८.११
माणे कलिङ्गे कोशाम्रे शल्ये काके च धूर्तके ।
मदनश्च समाख्यातः षडमी समुदाहृताः ॥२८.१२
दोडी गुडूची मेदा च काकोली हरिणी तथा ।
जीवन्ती चैव षट्प्रोक्ता जीवन्त्यां च भिषग्वरैः ॥२८.१३
धूम्राटभृङ्ग्योः खलु मांसले च प्लक्षे शिरीषे कुटजे कुलिङ्गः ।
द्राक्षा च दूर्वा जरणा कणा च कृष्णाभिधा वाकुचिका कटुश्च ॥२८.१४

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP